I.395

भवति तु मतिरेषा ब्रीहयस्तत्सदृक्षाः

इति, न च फलमस्याः किञ्चिदस्ति प्रतीतेः ॥ ३२ ॥

स्वमतोपसंहारः


भवत्यङ्गं यागे क्वचन गवयालम्भनमतः

तदाकारज्ञाने प्रतिनिधिविवेके च कृतिनाम् ।

उपायत्वं युष्मत्कथितमुपमानं न भजते;

परिग्राह्यं तस्मात् प्रवरमुनिगीतं सुमतिभिः ॥ ३३ ॥

इत्युपमानम्
॥ इति द्वितीयमाह्निकम् ॥
तत्सदृक्षाः—नीवारसदृशाः । नीवारसादृश्यं ब्रीहिषु गृह्यते चेत् नीवारप्रति
निधित्वेन ब्रीहिर्गृह्येत । अधिकावयवसामान्ययोगः ब्रीहिषु, ततो न्यूनः नीवारेषु
इत्युच्यते । एवं सति ब्रीहिसादृश्यमेव नीवारेषु गृह्येत । वर्ण्यते च भवद्भिरुपमान
वैपरीत्येनेति ॥


अतश्च प्रसिद्धसादृश्यमप्रसिद्धे उपपादयतां सैद्धान्तिकानां मत एव प्रति
निधिग्रहणादिकं सूपपादमित्युपसंहरति—भवतीत्यादि ॥