दूषयति—नविरोधादिति । बुद्धिमात्रस्य स्थायित्वं प्रतिज्ञाय विद्युत्संपातजाताया
2009पटादिबुद्धेरनवस्थायित्वाभिधानं विरुद्धमित्यर्थः । अव्यक्तग्रहणस्यान्यथासिद्धत्वं
चाह—अव्यक्तग्रहणस्येति । धर्मिग्रहणहेतोर्भेदात् । 2010अव्यक्तश्च यो धर्मिग्रहणे
हेतुः सामान्यमात्रवन्तं धर्मिणं गृह्णाति तद्वशादव्यक्तग्रहणम्2011, यस्तु सामान्यविशेषवन्तं
तद्वशाद् 2012व्यक्तग्रहणमित्यर्थः । धर्मिणं त्वनाश्रित्य स्वे विषये ग्रहणानां तदसंभवाच्च
अव्यक्तत्वासंभवादित्यर्थः2013 । धर्मिणमनाश्रित्येत्यविद्वान् शङ्कते—लोकविरोध इति
चेदिति । धर्मिग्रहणमाश्रित्य निराकरोति—नान्यथेति । दोषान्तरमाह—अनेकान्ता
च्चेति । वार्त्तिकव्याख्यानेनैव भाष्यं व्याख्यातम् ॥ ४४ ॥
न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥ ३ । २ । ४५ ॥
बुद्धेः शरीरगुणव्यतिरेकप्रकरणम्
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥ ३ । २ । ४६ ॥
शरीरेति । पूर्वं हि भूतेन्द्रियमनसां चैतन्यं साक्षात् निराकृतमुपक्षेपात्2014 शरीरस्य,
संप्रति तु शरीरस्यैव साक्षात् चैतन्यं निरस्यत इति तात्पर्यभेदादपुनरुक्तम् । वस्तुतस्तु
पौनरुक्त्ये परिहारं2015 भाष्यकारः प्रकारान्तरेण वक्ष्यति । तद्गुणत्वं तत्रोपलब्ध्या
सिध्यति अबाधितयेति शेषः । द्रव्ये…यः ॥ ४६ ॥
यावच्छरीरभावित्वाद्रूपादीनाम् ॥ ३ । २ । ४७ ॥