541 दृष्टान्तार्थं सूत्रमित्यर्थः ॥ ५१ ॥


त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥ ३ । २ । ५२ ॥


त्वक्पर्यन्तत्वादिति शरीरावयत्वं केशनखादीनां हेतुरसिद्धः । इन्द्रियाश्रयत्वं
हि शरीरलक्षणम् । तद् यत्र शरीरसमवेतं तेनेन्द्रियाश्रयेणावश्यं भवितव्यम् ।
त्वक्पर्यन्तश्चावयवसमूहस्तथा न तु केशनखादयस्तादृशा इति न शरीरावयवा
इत्यर्थः ॥ ५२ ॥


शरीरगुणवैधर्म्यात् ॥ ३ । २ । ५३ ॥


न रूपादीनामितरेतरवैधर्म्यात् ॥ ३ । २ । ५४ ॥


ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ॥ ३ । २ । ५५ ॥


रूपादीनामितरेतरवैधर्म्यमननुसंहितं च शरीरगुणत्वेनानन्वितमित्यर्थः । न
हि येषां चाक्षुषत्वरासनत्वादिरूपवैधर्म्ययोगस्ते न शरीरगुणा इति दृष्टम् । अव्यावृत्तं
च शरीरगुणानां2018 तादृशवैधर्म्यदर्शनात् । 2019तस्मादशरीरगुणत्वान्वयव्यतिरेकाभावाद्
वैधर्म्यमात्रमेतत् । बाह्यकरणप्रत्यक्षाप्रत्यक्षशरीरगुणवैधर्म्यं मानसप्रत्यक्षत्वम् ।
अन्वयव्यतिरेकि तु चेतनायाः शरीरगुणत्वसाधनं न भवति अपि तु
तदन्यगुणत्वसाधनमित्यर्थः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादिति ।


ये हेतव इति बहुवचनं हेत्वेकदेशविवक्षया । न शरीरगुणश्चेतना
अयावद्द्रव्यभावित्वाद्
इत्युच्यमाने संस्कारेणानेकान्त इत्यत उक्तम्—

  1. अशरीर°J

  2. तस्मात् श°J