605

चतुर्थाध्याये द्वितीयाह्निकम्


तत्त्वज्ञानोत्पत्तिप्रकरणम्


दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ ४ । २ । १ ॥


तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि । प्रयोजनादयोऽपि यत्र संशयस्त
त्रैवमुत्तरोत्तरप्रसङ्गः
इत्यतिदेशेन परीक्षिता इति षोडशापि प्रमाणादयः
परीक्षिताः । तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् । तत्रापि प्रमेयतत्त्वज्ञानं
साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम् । इदमिहेदानीं परीक्ष्यते, किं
प्रत्येकमात्मादीनां प्रमेयाणां तत्त्वज्ञानं निःश्रेयसाधिगमोपाय उताहो कस्यचिदेषा
मेकदेशस्येति । तामिमां परीक्षामवतारयति भाष्यकारः-किं नु खलु भो यावन्तो
विषयाः
प्रमेयाणि तावत्सु प्रत्येकमिति । प्रतिप्राणभृद्भेदं यावन्त आत्मानः,
2224यावन्ति शरीराणि, यावन्ति चेन्द्रियाणीत्यर्थः । पार्श्वस्थः पूर्वपक्षिणं
पृच्छति—कश्चात्र विशेष इति । पूर्वपक्षिण उत्तरम्—न तावदेकैकत्रेति ।
समुदायैकदेशाभ्यामनुपपत्तेः प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इत्ययुक्तमिति पूर्वः
पक्षः । सिद्धान्तमाह—मिथ्याज्ञानं वै खलु मोह इति । वैशब्दः पूर्वपक्षाक्षमायाम्,
खलुशब्दो हेत्वर्थे । अयुक्तः पूर्वपक्षो यस्मान्मिथ्याज्ञानं मोह इति । न तत्त्व
ज्ञानमज्ञाननिवृत्तिमात्रेण निःश्रेयसोपयोगि, अपि तु संसारनिदानोच्छेदद्वारेण दृष्टेनैव ।
न च तत्त्वाज्ञानं संसारहेतुरपि तु मिथ्याज्ञानम् । तदुच्छिन्दद्विरोधितया तत्त्वज्ञान
मपवर्गहेतुरिति । भवत्वेतत्, तथापि पूर्वपक्षस्य 2225किमुत्तरमित्यत आह—तच्च
मिथ्याज्ञानं यत्र विषये प्रवर्तमानमिति ।
स्वसंबन्धिनो ह्यात्मादयो विपर्ययेण
परिच्छिन्नाः संसारहेतव इति तद्विषयमेव मिथ्याज्ञानमपनेयम्, नात्माद्यन्तरविषयम्2226
606 तेन तत्र मिथ्याज्ञानं मा निवर्त्तिष्ट, निवर्ततां वा स्वात्मादिदृष्टान्तेन न तु तस्य
संसारनिवृत्तिं प्रति कश्चिदुपयोगः । यस्य तूपयोगस्तत्र तत्त्वज्ञानं न दुष्करमिति ।
पृच्छति—किं पुनस्तन्मिथ्याज्ञानम् ? सन्ति खल्वत्र प्रवादिनां नाना विप्रति
पत्तयः । केचिदाहुः विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धप्रकाशानन्दघनाद्वैत
ब्रह्मसाक्षात्कारस्तत्त्वज्ञानमिति । अन्ये तु सत्त्वपुरुषान्यताख्यातिम् । धर्मपुद्गलनैरात्म्य
ज्ञानमित्यपरे । शरीरेन्द्रियाद्यनित्यव्यतिरिक्तनित्यात्मदर्शनमिति वृद्धाः । तदेवं विप्रति
पत्तेः प्रश्नः । उत्तरम्—अनात्मन्यात्मग्रहोऽहमस्मीति मोहोऽहङ्कारः । न तावदद्वैता
नन्दघनात्मज्ञानं तत्त्वज्ञानम् भेदस्य प्रत्यक्षसिद्धस्यासति बाधकेऽपह्नोतुमशक्यत्वात् ।
न च प्रकाशानन्दावात्मधर्मावात्मातिरिक्तावात्मस्वभावौ भवितुमर्हतः ।
सत्यं विज्ञानमानन्दं ब्रह्मेति
च श्रुतिरान्दचैतन्यशक्त्यभिप्राया । भेद एव च तद्वत्तया कथंचित् सामानाधि
करण्यमुपपद्यते । अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सहप्रयोगानुप
पत्तिः । न च प्रकृष्टः प्रकाशः2227 सवितेत्यत्रापि प्रकर्षप्रकाशयोरभेदः2228, अप्रकाशस्यापि
प्रकर्षसंभवात्, अप्रकृष्टस्यापि खद्योतादेः प्रकाशसंभवात् । तस्माद् यकिञ्चिदेतत् ।
सत्त्वपुरुषान्यताख्यातिस्तु सत्त्वस्यैव प्रकृतेरसंभवात् अयुक्ता सत्कार्यवादमूल
त्वात्प्रधानसद्भावस्य तन्निराकरणेनैव निराकरणम् । धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गेन
नित्यात्मसद्भावकथनेन च निराकृते । तस्मात् सुष्ठूक्तमनात्मन्यात्मग्रहोऽहमस्मीति
मोहोऽहङ्कार इति । अत एव सर्वस्यैवमात्माशीः कृमेरपि मा न भूवं भूयासमिति ।
सोऽयमीदृशोऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्त्व
विदुषः । स खल्वहिनिर्ल्वयनीमिवाहिः ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र
स्निह्यति, स्नेहविरहाच्च न तप्यते नाप्यनुशोचतीति । अतत्त्वज्ञानवतः संसारं दर्शयित्वा
तत्त्वज्ञानवतः संसारनिवृत्तिमाह—यस्तु दुःखमिति । तदेवमुक्तेन प्रकारेण
मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यतस्तस्मान्मोक्षमाणैः2229 प्रेत्यभावफल
607 दुःखानि च परिज्ञेयानि व्यवस्थापयतीत्यादिपूर्वोपसंहारः । आसेवमानस्याभ्यस्यतो
भावयत
इति पर्यायकथनं भावनादार्ढ्योपदर्शनार्थम् ।


अर्थगतिं परिशोध्यात्रार्थे सूत्रं पठति—दोषनिमित्तानां…निवृत्तिः ॥ शास्त्रा
र्थसंग्रहोऽनूद्यते शास्त्रतात्पर्यसंग्रहो द्वितीयसूत्रेणानूद्यत इत्यर्थः । किं नु खलु भो
इति भाष्यम् । तदनुपपन्नम्, यतो न विषयमात्रतत्त्वज्ञानमपवर्गहेतुः अपि तु प्रमेय
तत्त्वज्ञानमित्यत आह वार्त्तिककारः—तत्र विषयान्तराणामिति । यावन्तो
विषया इति न विषयमात्राभिप्रायम्, अपि तु प्रमेयाभिप्रायमित्यर्थः । सुगममन्यद्
वार्त्तिकम् ॥ १ ॥


दोषनिमित्तं रुपादयो विषयाः सङ्कल्पकृताः ॥ ४ । २ । २ ॥


शरीरादिष्वनात्मस्वात्मबुद्धिर्निवर्तनीयेत्युक्तम् । तत्र प्रथमं कस्मिन्नात्मबुद्धि
र्निवर्तनीयेत्यपेक्षायामाह—प्रसंख्यानानुपूर्व्या तु खलु । प्रसंख्यानं समाधिजं तत्त्व
ज्ञानम्, तच्च विषये सुकरमिति तत्रैव प्राथमिकस्य प्रथमं प्रयत्नो युक्तः ।


सूत्रम्—दोषनिमित्तं…संकल्पकृताः ॥ मिथ्याज्ञानं सङ्कल्पः, तेन विषयीकृता
इत्यर्थः । कामाः काम्याः ॥ २ ॥


तन्निमित्तं त्ववयव्यभिमानः ॥ ४ । २ । ३ ॥


अन्ये खल्ववयविसंज्ञां निवर्तयन्तोऽवयविनमेव प्रत्याचक्षते तान् प्रत्याचक्षाण
आह—अतः परं काचिदिति । सूत्रम्—तन्निमित्तं…मानः ॥ 2230निमित्तसंज्ञेति
निमित्तं दन्तत्वादि, तद्विशिष्टा विषयाः संज्ञाः । प्रियायाः कामुको दन्तौष्ठनासिका
दीनवयवाननुभावयन् तस्यां प्रसक्तो भवति । व्यञ्चनान्यवयविनोऽवयवास्तैः
608 सहोपालम्भात् तेषामनुव्यञ्जनं तत्तत्सादृश्यं तेन तदारोपः । तथा च स्त्रैणानां व्या
हारः,

द्रवत्कनकनिर्मलद्युतिरनङ्गलीलैकभू-

र्महेभकटविभ्रमस्तनभरालसाङ्गी यदि ।

प्रिया न परिरभ्यते तुलितसिद्धसंजीविनी

सहेमहि कुतोऽन्यथा विषमबाणबाणव्यथाम् ॥

मदनसरितमेतां गाहमानो जनोऽयं

जघनपुलिननाभीमण्डलावर्तरम्याम् ।

मुखनलिनसनाथामुल्लसद्भ्रूलतोर्मिं

चिरविरहहुताशायासमुज्झां चकार ॥

विवेकिनस्त्वशुभसंज्ञां भावयन्त आहुः,
मज्ज्ञामस्थ्नामथ प्लीह्नां यकृतां शकृतामपि ।

पूर्णाः स्नायुशिराः स्यूताः स्त्रियश्चर्मप्रसेविकाः ॥

ऋषयोऽप्यूचुः
स्थानाद् बीजादुपष्टम्भान्निष्पन्दान्निधनादपि ।

कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुः ॥

अशुभसंज्ञाभावनाप्रयोजनमाह—तामस्य भावयत इति । तत्किमिदानीम
वयव्यनुव्यञ्जनसंज्ञयोर्विषयो नास्ति, अशुभसंज्ञाविषय एव परमस्तीत्यत आह—
सत्येव च द्विविधे विषय इति । द्विविध एवासौ कामिनीलक्षणो विषयः तथापि
रागादिप्रहाणार्थमवयवादिसंज्ञागोचरत्वं परित्यज्याशुभसंज्ञागोचरत्वमस्योपादीयते
वैराग्योत्पादनायेत्यर्थः । अत्रैव दृष्टान्तमाह—यथा विषसंपृक्त इति । न हि तत्र
विषमधुनी परमार्थतो न स्तः । अपि तु वैराग्याय विषसंज्ञा तत्रोपादीयत इत्यर्थः ॥ ३ ॥


॥ इति तत्त्वज्ञानोत्पत्तिप्रकरणम् ॥

  1. यावन्ति चेन्द्रियाणि चेत्यर्थःC

  2. किमायातमि°C

  3. °षयं ज्ञानम्C

  4. प्रकृष्टप्रकाशःC

  5. तेत्यत्र प्रकृष्टप्रकाश°C

  6. °माणःJ

  7. निमित्तसंज्ञेतिJ