प्रथमाध्याये प्रथमाह्निकम्


विश्वव्यापी विश्वशक्तिः पिनाकी

विश्वेशानो विश्वकृद् विश्वमूर्तिः ।

विश्वज्ञाता विश्वसंहारकारी

विश्वाराध्यो राधयत्वीहितं नः ॥

नमामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।

निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥

ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा ।

न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥

इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।

उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥