388

द्वितीयाध्याये द्वितीयाह्निकम्


प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्


न चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ॥ २ । २ । १ ॥


अयथार्थ इति भाष्यम् । प्रमाणानां विभागोद्देशो यः सोऽयथार्थ इति । तदेतद्
वार्त्तिककारो व्याचष्टे—प्रत्यक्षेति ।


न च…ण्यात् । एवं विपर्यस्तस्याक्षेप इति भाष्यमतेन सूत्रं व्याख्याय
प्रकारान्तरेणापि व्याचष्टे—संशयव्युदासार्थं वा प्रकरणम् । सूत्रं तु संशयार्थम् । न
चतुष्ट्वं निश्चेतुं शक्यम् । कस्मात् ? ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् परैरभ्यु
पगतादस्माकं संशयादिति सूत्रार्थः । तात्पर्यान्तरमाह—विधीति । विभागोद्देशोऽधिक
निषेधपर इति पक्षे अयथार्थः प्रमाणोद्देश इति पूर्वं व्याख्यातम् । संप्रति तु
प्रत्यक्षादिविधिपरोऽसावारम्भः
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि


इति । 1619अधिकनिषेधस्त्वार्थ इति पक्षमालम्ब्योक्तमित्यपौनरुक्त्यम् । तात्पर्यान्तर
माह—दोषवतामिति । तात्पर्यान्तरमाह—प्रत्यक्षादिष्विति । अन्तर्भावपरात् प्रकरणात्
अर्थाद्विभागोद्देशस्य यथार्थता सिध्यतीत्यर्थः । देशयति—सिद्धत्वादिति । न हि
यावत् सूच्यते सूत्रकारेण तावत्सर्वमुपपादनीयं भाष्यकारादिभिरपि
तदुपपादनसिद्धेरिति भावः । परिहरति—न, अवधारणप्रयोजनस्य प्रमाणान्तर
निरासस्येति । यत् सूचनमात्रादनुक्तमपि लभ्यते तत्सूत्रकारेण नोच्यते । यत्तु सूचित
मपि तिरोहितमिव तत् सूत्रकारेणोद्धाटनीयमेव । न हि तत्रास्ति निश्चयोऽस्मदभिमतमेव
वदन्ति भाष्यकारादयो नान्यदिति भावः । किमत्रार्थादापद्यत इति प्रश्नः ।
389 उत्तरम्—सत्सु भवतीति । प्रत्यनीकस्य ग्रहणादिति । अपां पातप्रत्यनीकस्य
1620अपातस्य ग्रहणात् तद्विरोधिनः पातविरोधिनः वाय्वभ्रसंयोगस्य ग्रहणम् तदिदं
किलाभावाख्यं प्रमाणम् । प्रमीयते हि मेघोदयेऽपि 1621तोयपाताभावेन वाय्वभ्रसंयोग
इति ॥ १ ॥


शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसंभवाभावा
नर्थान्तरभावाच्चाप्रतिषेधः ॥ २ । २ । २ ॥


सिद्धान्तमाह—तान्येतानीति । ननु भविष्यत्यसौ विषय उक्तलक्षणामानाम
गोचरः प्रमाणानाम्, प्रवर्त्स्यन्ति च तत्रैतिह्यादीनि प्रमाणान्तराणीत्यत आह—विषया
भावाच्चेति ।
चोदयति—अथ प्रयोजनभेदादिति । तदेतदतिप्रसङ्गापादनेन
दूषयति—एवं तर्ह्यष्टत्वमिति । न तावत् सन्ति तादृशः प्रयोजनसामान्यविशेषा यैः
प्रयोजनवन्ति प्रमाणानि परस्परतो व्यावर्तयेयुः, अपि तु भेदमात्राद् व्यावर्तयन्तीति
वक्तव्यम् । तथा चातिप्रसङ्गेनाष्टत्वसंख्याव्यावृत्तिरित्यर्थः । अथ विषयसामान्येति ।
रूपत्वादिकं विषयसामान्यं तस्य स्वासु स्वासु व्यक्तिष्वव्यतिरेक एकत्वं तस्मा
दित्यर्थः । निरोकरोति—न युक्तस्तर्हीति । निरुपाधानस्वरूपमेकं व्यापकत्वान्वितत्व
संज्ञित्वोपधानाश्च त्रय1622 इति चत्वारो विषयसामान्यविशेषा इति चतुष्ट्वप्रतिषेधो न
युक्त इत्यर्थः । यद्येतानीति । यद्यैतिह्यादीनि प्रमाणानि क्व प्रत्यक्षादौ किमैतिह्या
द्यन्तर्भवतीति वक्तव्यम् । अप्रमाणस्य प्रमाणेऽर्भावो न भवतीति प्रमाणानीत्युक्तम् ।
यत् खल्वनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यं तस्य चेदाप्तः कर्ता नावधारितः,
ततस्तत् प्रमाणमेव न भवतीति यदीत्युक्तम् ।


शब्द…धः । अथाक्षरपरम्परेत्यवगतं तत्राप्तोपदेशः शब्द इति लक्षणं
नातिवर्तते1623 । तदिदमुक्तम्—समानलक्षणत्वादिति । पृच्छति—कथमर्थापत्तिरिति ।
390 असत्सु मेघेषु वृष्टिर्न भवतीत्यर्थादापद्यते, सत्सु भवतीति । इयमर्थापत्तिः । सा
कथमनुमानलक्षणेन संगृह्यते ? उत्तरम्—द्वयोरिति । अत्रोदाहरणमाह—यत्र यत्रेति ।


उदाहरणस्य साध्यविकलत्वमुद्भावयति1624एके त्विति । यदि दिवैव न भुङ्क्ते
इति कालविशेषप्रतिषेधो निश्चीयेत ततो रात्रौ भुङ्क्त इति कालान्तरविधानं गम्येत,
न तु कालविशेषप्रतिषेधनिश्चयः । 1625दिवा भुङ्क्ते एव नेति भोजनादिक्रियाया यान्या
शयनादिका क्रिया1626 तन्निषेधनिषेधेन रात्रिभोजनानाक्षेपादिति1627 । दिवैव न भुङ्क्त
इत्यस्यैकस्य प्राप्तौ भवेद् रात्रौ भुङ्क्त इति, क्रियान्तरनिषेधनिषेधस्य1628 च प्राप्तौ न
वक्तव्यं रात्रौ भुङ्क्त इत्यर्थः ।


तदेतद् दूषयति—एतत्तु न सम्यगिति । प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति । न
चेह भुञ्जानस्याभुञ्जानस्य वा क्रियान्तराभावः प्रसक्तो येनासौ प्रतिषिध्यते भुङ्क्त
एव नेति । न हि कश्चिद् भुङ्क्त एव, न तु भुञ्जानो न वीक्षते अपि,
अन्ततोऽस्त्यादेरपि क्रियाया भावात् । व्यापृतः कदाचिन्न व्यापारान्तरं कुर्यादपि, किं
पुनरव्यापृतः ? स हि व्यापारान्तराण्यव्यासक्तः करोत्येवेत्यर्थः । उपसंहरति—
तस्मादिति । कालप्रतिषेधो दिवैव भुङ्क्त इत्यस्य प्रतिषेध इत्यर्थः । 1629क्रियान्तर
निवृत्तेरसंभवेन निराकृतत्वात्
अप्राप्तत्वान्न प्रतिषेध इति भावः । क्रियान्तर
प्रतिषेधोऽयमिति ।
अन्तरशब्दो विशेषवचनः । तेन भोजनक्रियाया यदन्तरं विशेषः
क्रियान्तररहितत्वं भुङ्क्त एव तस्य प्रतिषेध इत्यर्थः । सामान्यतो दृष्टमिति यत्र न
कार्यकारणयोर्गम्यगमकभावः तत्सामान्यतोदृष्टमिति ॥ २ ॥


अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ॥ २ । २ । ३ ॥


सत्यमेतानीति भाष्यम् । तस्यार्थः । सत्यमेतान्यैतिह्यादीनि प्रमाणानि सन्ति,
391 न तु प्रमाणान्तरम् नैव प्रमाणान्तरमनुमानादिभ्य इत्युक्तम् । न तु प्रमाणत्वमेवामीषां
न मृष्यामह इति भावः ।


अर्था…त्वात् । वार्त्तिकम् अर्थापत्तिमात्रस्येति । दिवा न भुङ्क्त
इत्यादेरर्थापत्तेरैकान्तिकत्वादिति ॥ ३ ॥


अनर्थापत्तावर्थापत्त्यभिमानात् ॥ २ । २ । ४ ॥


स्वमतेन दूषयित्वा सौत्रं दूषणमाह—यामपि भवानिति ।


अन…नात् । न सत्सु मेघेषु वृष्टिर्भवत्येवेत्यर्थः, येन व्यभिचारो देश्येत ।
अपि तु असत्सु न भवतीति1630 । तथा च न व्यभिचार इत्यर्थः ॥ ४ ॥


प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥ २ । २ । ५ ॥


यदि तु यत्र विषयेऽर्थापत्तिरैकान्तिकी ततो विषयान्तरं कल्पयित्वानैकान्तिकं
देश्येत ततो यः प्रतिषेधविषयः प्रामाण्यमर्थापत्तेः ततो विषयान्तरमर्थापत्तेः सत्त्वं
प्रतिषेधविषयं कल्पयित्वा प्रतिषेधस्याप्रामाण्यं शक्नुमो वक्तुम् । तथा च
प्रतिषेधाप्रामाण्यान्नार्थापत्तेरप्रामाण्यमित्याह—प्रति…त्वात् ।


एवं ह्यैकान्तिकः प्रतिषेधः स्याद् यद्यर्थापत्तेः प्रामाण्यं च सत्तां च प्रतिषेधेत्,
न तु सत्तां प्रतिषेद्धुमर्हत्यनैकान्तिकत्वात् । न हि यद्यदनैकान्तिकं तत्सर्वं नास्ति,
प्रमेयत्वादीनां नित्यत्वसाधने अनैकान्तिकानां सत्त्वात् । यस्मादर्थापत्तिविशेष
इति । अर्थापत्तेर्विशेषः प्रामाण्यं न त्वर्थापत्तिमात्रं सत्तेति ॥ ५ ॥


तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥ २ । २ । ६ ॥


392

न चानैकान्तिकत्वं प्रामाण्यप्रतिषेधेऽस्तीति1631 यदि मन्यते पूर्वपक्षी एवं
तर्हि—तत् प्रा…ण्यम् ।


विप्रतिपत्तिरप्रतिपत्तिर्वा निग्रहस्थानमिति वदत इत्यर्थः । यापि
मीमांसाभाष्यकृता अर्थापत्तिरुदाहृता जीवतश्चैत्रस्य गेहाभावदर्शनेन
बहिर्भावस्यादृष्टस्य कल्पनेति, तदप्यनुमानमेव । यदा खलु सन्नेकत्र नास्ति तदान्यत्रास्ति
यदा वाव्यापक एकत्रास्ति तदान्यत्र नास्ति । सोऽयं स्वशरीर एव व्याप्तिग्रहः
सुकरः । तथा च सतो गेहाभावेन1632 लिङ्गेन बहिर्भावदर्शनमनुमानम् । न च तस्य सत्त्वेन
गेहाभावः शक्योऽपह्नोतुम्, येनासिद्धो गेहाभावो न हेतुः स्यात्; गेहाभावेन वा
सत्त्वमपह्नूयते येन सत्त्वमेवानुपपद्यमानं न स्वात्मानं1633 बहिरवस्थापयेत् । तथा हि
सत्त्वमात्रं वा विरुध्यते चैत्रस्य गेहाभावेन गेहसत्त्वं वा चैत्रस्य न तावद् यत्र क्वचन
सत्त्वस्यास्ति विरोधो गेहेऽसत्तया समानविषयत्वाभावात् । देशसामान्येन
गृहविशेषाक्षेपोऽपि पाक्षिक इति समानविषयतया विरोध इति चेत्—न,
प्रमाणविनिश्चितस्य सांशयिकेन प्रतिक्षेपायोगात् । नापि प्रमाणविनिश्चितमेवा
सत्त्वं1634 पाक्षिकं तस्य गृहसत्त्वं प्रतिक्षिपन् सत्त्वमपि प्रतिक्षेप्तुं सांशयिकत्वं
वापनेतुमर्हतीति युक्तम्, गृहावच्छिन्नाभावेन गृहसत्त्वं विरुद्धत्वात् प्रतिषिध्यते, न
तु सत्त्वमात्रं तत्र तस्यौदासीन्यात् । तस्माद् गृहाभावेन सिद्धेन सतो बहिर्भा
वोऽनुमीयत इति युक्तम् । एतेन विरुद्धयोः प्रमाणयोरविरोधापादनं विषयव्यवस्थया
अर्थापत्तेर्विषयः परास्तः, अवच्छिन्नानवच्छिन्नयोरविरोधात् । तस्मात् नानुमानात्
प्रमाणात् प्रमाणान्तरमर्थापत्तिरिति स्थितम् ॥ ६ ॥


नाभावप्रामाण्यं प्रमेयासिद्धेः ॥ २ । २ । ७ ॥


नाभावज्ञानं प्रमाणम् । कस्मात् ? प्रमेयस्याभावस्यासिद्धेः । नो खलु
393 सर्वोपाख्यारहितं प्रमाणज्ञानविषयभावमनुभवति, केवलं काल्पनिकोऽयमभाव—
व्यवहारो लौकिकानामिति पूर्वपक्षः ।


सिद्धान्तमाह—अभावस्य भूयसीति । सर्वजनीनौ तावदभावप्रत्ययव्यवहारौ
न काल्पनिकौ भवितुमर्हतः । न च कल्पनापि सर्वोपाख्यारहितं गोचरयितुमर्हतीत्युक्तं
विपरीतख्यातिसाधनावसरे1635 । क्षणभङ्गभङ्गावसरे च तस्योपाख्येयत्वमुपपादयिष्यते ।
तस्मादस्य प्रामाण्याद् युक्तः प्रमाणान्तर्भावः ।


तदेतत् सर्वं वार्त्तिककारो व्याचष्टे—नाभावः प्रमाणमिति । यथोक्तं
दूषयति—कश्चैवमाहेति । अभावो हि प्रमेयमुच्यते । न तत् स्वरूपेण प्रमाणम्,
अपि तु तद्विषया प्रतिपत्तिः । सा च प्रत्यक्षफलमप्युपादानादिबुद्धौ प्रमाणं यथा अग्रे
तथा वक्ष्यते । वर्षाभावप्रत्ययस्तु वाय्वभ्रसंयोगेऽनुमानमुक्तम्1636 ॥ ७ ॥


लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥
२ । २ । ८ ॥


प्रतिपद्य चानयतीति लक्षणाभावेन विशेषणेनावच्छिन्नान्यानेतव्यत्वेन
प्रतिपद्यानयति । एतदुक्तं भवति, लक्षणाभावज्ञानं विशिष्टे वाससि प्रत्ययं जनयत्
साधकतमत्वाद् भवति प्रमाणमिति ॥ ८ ॥


असत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्तेः ॥ २ । २ । ९ ॥


भावाधीननिरूपणत्वात् प्राप्तिपूर्वकत्वाच्च प्रध्वंस एवाभावः । तस्य
भावपूर्वकत्वात् नान्योऽस्त्यभाव इति मन्वानस्य पूर्वपक्षः । नापरिज्ञानादिति ।
प्रत्यक्षं हि प्रमाणं 1637प्रमेयाभावं व्यवस्थापयति । तच्च प्रध्वंस इव प्रागभावेऽपि तुल्यम् ।
394 प्रतियन्ति हि लौकिका दध्नि क्षीराभावमिव क्षीरे दध्यभावम् । ननु सूत्रं अन्येषु वा
सः सु लक्षणानां
भावरूपाम् उपपत्तिं सद्भावमाह 1638त्वं त्वभावोपलब्धिं ब्रूषे । तत्
कुतो न विरोध इत्यत आह—अत उक्तार्थं सूत्रमिति । व्यतिरेकमुखेणास्य
सूत्रस्योक्तोऽर्थः । अत एवाह भाष्यकारः—नैवमलक्षितेष्विति । लक्षणादर्शनेन हि
लक्षणाभावदर्शनमुपलक्षितम् ॥ ९ ॥


तत्सिद्धेरलक्षितेष्वहेतुः ॥ २ । २ । १० ॥


यानि तानि लक्षितेष्विति । न कस्यचित् लक्षितस्य न सन्ति । 1639सन्ति
चेत्—तेषामभावो व्याहतः । एतदुक्तं भवति, यत्र लक्षणानि सन्ति तत्र तेषामभावो
व्याहतः । यत्र च न सन्ति तत्राप्यभावोऽनुपपन्नः, तस्य भावाधीननिरूपणस्य
तदभावेऽशक्यनिरूपणत्वादिति । परिहरति—नापरिज्ञानादिति । भावज्ञानाधीन
निरूपणो भवत्यभावो न तु भावाधीननिरूपणः । प्रागभावोऽपि च शक्यो
भविष्यद्भावज्ञानेनान्यत्रावस्थितभावज्ञानेन वा निरूपयितुमिति न प्रागभावाभाव
इत्यर्थः ॥ १० ॥


न लक्षणावस्थितापेक्षसिद्धेः ॥ २ । २ । ११ ॥


प्रागुत्पत्तेरभावोपपत्तेश्च ॥ २ । २ । १२ ॥


अभावद्वैतमिति प्रकृतापेक्षम् । प्रकृतं प्रध्वंसमात्रवादिनं प्रति प्रागभाव
प्रतिपादनम् । परमार्थतस्तु प्रथममभावे द्वैतम्, तादात्म्याभावः संसर्गाभावश्चेति ।
संसर्गाभावोऽपि प्राक्प्रध्वंसात्यन्ताभावभेदेन त्रिविध इति चतस्त्रो विधा अभावस्येति ॥
395 असत्यर्थे नाभावः1640
तत्सिद्धेरलक्षितेष्वहेतुः
इति चोभे अप्येते छलसूत्रे
इति । यो योऽभावः स सर्वः सत्यर्थे भवति यथा
प्रध्वंसः । न च तथा लक्षणाभाव इति सामान्यच्छलम् । तत्सिद्धेरिति तु वाक्छलम् ।
यानि लक्षणानि भवन्ति कथं तान्येव न भवन्तीति हि तस्यार्थः ॥ १२ ॥


इति प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्

  1. °स्त्वर्थलभ्य इति पक्षमभिप्रेत्योक्तम्C

  2. उपात्तस्यC

  3. यत्तोय°C

  4. धानास्त्रयःC

  5. °देश इति शब्दलक्षणान्नाति°C

  6. °मुदाहरतिC

  7. अपि तु दिवाC

  8. आसनादिक्रियाC

  9. भोजना
    क्षेपात्
    C

  10. °निषेधाः निषेधस्यC

  11. °न्तरप्रतिषेधनिवृत्ते°C

  12. अपि तु सत्सु भवतीति J

  13. प्रमाणेऽस्ति VarJ; प्रामाण्यप्रमाणत्वप्रतिषेधेऽस्तिVarC

  14. °भावदर्शनेनC

  15. °मानमात्मानंJ

  16. °श्चितोऽभाव एवC

  17. ता. टी. १. १. २

  18. ता. टी. २. २. १

  19. अभावप्रमेयमवस्था°J

  20. न त्वभावोपलब्धिं ब्रूतेC

  21. यानि च सन्ति तेषा°C

  22. वर्तयन्ना°C