प्रथमाह्निक
49लक्षितं स्वार्थमनुमानमिदानीं क्रमप्राप्तं परार्थमनुमानं लक्षयति--
यथोक्त563साधनाभिधानजः परार्थम् ॥ १ ॥
यथोक्त564म् स्वनिश्चितसाध्याविनाभावैकलक्षणं यत् साधनम् तस्याभिधानम् ।
अभिधीयते परस्मै प्रतिपाद्यते अनेनेति अभिधानम् वचनम्, तस्माज्जातः सम्यगर्थ
निर्णयः परार्थम् अनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः ॥ १ ॥
ननु वचनं परार्थमनुमानमित्याहुस्तत्कथमित्याह--
वचनमुपचारात् ॥ २ ॥
अचेतनं हि वचनं न साक्षात्प्रमितिफलहेतुरिति न निरुपचरितप्रमाण
भावभाजनम्, मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्र565तां प्रतिपद्यते । उपचार
श्चात्र कारणे कार्यस्य । यथोक्तसाधनाभिधानात् तद्विषया स्मृतिरुत्पद्यते, स्मृतेश्चानुमा
नम्, तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणम्, तस्मिन् कारणे वचने
कार्यस्यानुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमान
शब्देनोच्यते । कार्ये वा प्रतिपादकानुमानजन्ये वचने कारणस्यानुमानस्योपचारः ।
वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः ।
इह च मुख्यार्थबाधे प्रयोजने निमित्ते चोप566चारः प्रवर्तते । तत्र मुख्यो
ऽर्थः साक्षात्प्रमितिफलः सम्यगर्थनिर्णयः प्रमाणश567ब्दसमानाधिकरणस्य परार्थानुमान
शब्दस्य, तस्य568 बाधा, वचनस्य निर्णयत्वानुपपत्तेः । प्रयोजनम् अनुमानावयवाः प्रति
ज्ञादय इति शास्त्रे व्यवहार एव, निर्ण569यात्मन्यनंशे त570द्व्यवहारानुपपत्तेः । निमि571त्तं तु निर्ण
यात्मकानुमानहेतुत्वं वचनस्येति ॥ २ ॥
तद् द्वेधा ॥ ३ ॥
तद् वचनात्मकं परार्थानुमानं द्वेधा द्विप्रकारम् ॥ ३ ॥
प्रकारभेदमाह--
तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥ ४ ॥
तथा साध्ये सत्येव उपपत्तिः साधनस्येत्येकः प्रकारः । अन्यथा साध्या
भावे अनुपपत्तिःचेति द्वितीयः प्रकारः । यथा अग्निमानयं पर्वतः त572थैव धूमवत्त्वोपपत्तेः,
अन्यथा धूमवत्त्वानुपपत्तेर्वा । एतावन्मात्रकृतः परार्थानुमानस्य भेदो न पारमार्थिकः573
स इति भेदपदेन दर्शयति ॥ ४ ॥
एतदेवाह--
नानयोस्तात्पर्ये भेदः ॥ ५ ॥
न574 अनयोःतथोपपत्त्यन्यथानुपपत्तिरूपयोः प्रयोगप्रकारयोः तात्प575र्ये
य576त्परः शब्दः स श577ब्दार्थः इत्येवंलक्षणे तत्परत्वे, भेदः विशेषः । एतदुक्तं भवति
अन्यद578भिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते,
प्रकाश्यं त्वभिन्नम्, अन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि
साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि ।
नहि पीनो देवदत्तो दिवा न भुङ्क्ते, पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोर
भिधेयभेदोऽस्तीति तात्पर्येणापि भेत्त580व्यमिति भा582वः ॥ ५ ॥
तात्पर्याभेदस्यैव फलमाह--
अत एव नोभयोः प्रयोगः ॥ ६ ॥
यत एव नानयोस्तात्पर्ये भेदः अत एव नोभयोः तथोपपत्त्यन्यथानुपप
त्त्योर्युगपत् प्रयोगः युक्तः । व्याप्त्युपदर्शनाय हि तथोपपत्त्यन्यथानुपपत्तिभ्यां हेतोः
प्रयोगः क्रियते । व्याप्त्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः । यदाह--
ननु यद्येकेनैव प्रयोगेण हेतोर्व्याप्त्युपदर्शनं कृतमिति कृतं विफलेन
द्वितीयप्रयोगेण; तर्हि प्रतिज्ञाया अपि मा भूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात्
क583श्चिदर्थं प्रतिपद्यते, तथा584 सति हि विप्रतिपत्तिरेव न स्यादित्याह--
विष585योपदर्शनार्थं तु प्रतिज्ञा ॥ ७ ॥
विषयः यत्र तथोपपत्त्यान्यथानुपपत्त्या वा हेतुः स्व586साध्यसाधनाय
प्रार्थ्यते, तस्य उपदर्शनम् परप्रतीतावारोपणं तदर्थं पुनः प्रतिज्ञा प्रयोक्तव्येति शेषः ।
अयमर्थः--परप्रत्यायनाय वचनमुच्चारयता प्रेक्षावता तदेव परे बोधयि
तव्या यद्बुभुत्सन्ते । तथासत्यनेन बुभुत्सिताभिधायिना परे बोधिता भवन्ति । न
खल्वश्वान् पृष्टो गवयान् ब्रुवाणः प्रष्टुरवधेयवचनो भवति । अनवधेयवचनश्च कथं प्रति
पादको नाम ? । यथा च शैक्षो भिक्षुणाचचक्षे--भोः शैक्ष, पिण्ड587पा588तमाहरेति । स--एवमाच
रा589मीत्यनभिधाय यदा त590दर्थं प्रयतते तदाऽस्मै क्रुध्यति भिक्षुः--आः शिष्याभास भिक्षुखे
ट, अस्मानवधीरयसीति591 विब्रुवा592णः । एवमनित्यं शब्दं षुभुत्समानाय अनित्यः शब्द इति
विषय593मनुपदर्श्य यदेव किञ्चिदुच्यते--कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा,
कृतकत्वस्य तथैवोपपत्तेरिति वा, कृतकत्वस्यान्यथानुपपत्तेरिति वा, तत् सर्वमस्या594नपेक्षि
तमापा595ततोऽसम्बद्धाभिधानबुद्ध्या; तथा चानव596हितो न बोद्धुमर्हतीति ।
यत् कृतकं तत् सर्वमनित्यं यथा घटः, कृतकश्च शब्द इति वचनमर्थसामर्थ्ये
नैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत्; न, परस्पराश्रयात् । अवधाने हि
सत्य597तोऽ598र्थनिश्चयः, तस्मा599च्चावधानमिति । न च पर्षत्प्रतिवादिनौ प्रमाणीकृतवा600दिनौ
यदेत601द्वचनसम्बन्धाय प्रयतिष्येते । तथास602ति न हेत्वाद्यपेक्षेया603ताम्, त604दवच605नादेव तदर्थनि
श्चयात् । अनित्यः शब्द इति त्वपेक्षिते उक्ते कुत इत्याशङ्कायां कृतकत्वस्य तथैवोपपत्तेः
कृतकत्वस्यान्यथानुपपत्तेर्वेत्युपतिष्ठते, तदिदं विषयोपदर्शनार्थत्वं प्रतिज्ञाया इति ॥ ७ ॥
ननु यत् कृतकं तदनित्यं यथा घटः, कृतकश्च शब्द इत्युक्ते गम्यत
एतद् अनित्यः शब्द इति, तस्य सामर्थ्यलब्धत्वात्, तथापि तद्वचने पुनरुक्तत्वप्रसङ्गात्,
अ606र्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम् न्यायसू॰ ५. २. १५ । आह च-
डिण्डिक607रागं परित्यज्याक्षिणी608 निमील्य चिन्तय ताबत् किमियता609 प्र610तीतिः
स्यान्नवेति, भा611वे किं प्रपञ्चमालया हेतु॰ परि॰ १ इत्याह--
गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि
पक्षधर्मोपसंहारवत् तदुपपत्तिः ॥ ८ ॥
साध्यमेव धर्मस्तस्याधारस्तस्य सन्देहस्तदपनोदाय--यः कृतकः सोऽनित्य
इत्युक्तेऽपि धर्मिविषयसन्देह एव--किमनित्यः शब्दो घटो वेति ?, तन्निराकरणाय गम्य
मानस्यापि साध्यस्य612 निर्देशो युक्तः, साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोप
52 संहारवचनवत् । य613था हि साध्यव्याप्तसाधनदर्शनेन त614दाधारावगतावपि नियतधर्मिसम्ब
न्धिताप्रदर्शनार्थम्--कृतकश्च शब्द इति पक्षधर्मोपसंहारवचनं तथा साध्यस्य विशिष्ट
धर्मिसम्बन्धितावबोधनाय प्रतिज्ञाव616चनमप्युपपद्यत एवेति ॥ ८ ॥
ननु प्रयोगं प्रति विप्रतिपद्यन्ते वादिनः, तथाहि--प्रतिज्ञाहेतूदाहरणानीति
त्र्यवयवमनुमानमिति साङ्ख्याः । सहोपनयेन चतुरवयवमिति मीमांसकाः । सह
निगमनेन पञ्चावयवमिति नैयायिकाः । तदेवं विप्रतिपत्तौ कीदृशोऽनुमानप्रयोग
इत्याह--
एतावान् प्रेक्षप्रयोगः ॥ ९ ॥
एतावान् एव यदुत तथोपपत्त्यान्यथानुपपत्त्या वा युक्तं साधनं प्रतिज्ञा च ।
प्रेक्षाय प्रेक्षावते प्रतिपाद्याय तदवबोधनार्थः प्रयोगः न त्वधिको य617थाहुः साङ्ख्यादयः,
नापि हीनो यथाहुः सौगताः618--विदुषां वाच्यो हेतुरेव हि केवलः प्रमाणवा॰
१. २८ इति ॥ ९ ॥
ननु परार्थप्रवृत्तैः कारुणिकैर्यथाकथञ्चित् प619रे प्रतिबोधयितव्या नासद्व्य
वस्थोपन्यासैरमीषां620 प्र621तिभाभङ्गः करणीयः, तत्किमुच्यते एतावा622न् प्रेक्षप्रयोगः ?, इत्या
शङ्क्य द्वितीयमपि प्रयोगक्रममुपदर्शयति--
बोध्यानुरोधात्प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥ १० ॥
बोध्यः शिष्यस्तस्य अनुरोधः तदवबोधनप्रतिज्ञापारतन्त्र्यं तस्मात्, प्रति
ज्ञादीनि पञ्चापि प्रयोक्तव्यानि । एतानि चावयवसञ्ज्ञया प्रोच्यन्ते । यदक्षपादः--प्रतिज्ञा
हेतूदाहरणोपनयनिगमनान्यवयवाः न्यायसू॰ १. १. ३२ इति । अपि शब्दात् प्रति
ज्ञादीनां शुद्धयश्च पञ्च बोध्यानुरोधात् प्रयोक्तव्याः । यच्छ्रीभद्रबाहुस्वामिपूज्यपादाः--
तत्र प्रतिज्ञाया लक्षणमाह--
साध्यनिर्देशः प्रतिज्ञा ॥ ११ ॥
साध्यं सिषाधयिषितधर्मविशिष्टो धर्मी, निर्दिश्यते अनेनेति निर्देशो वचनम्,
साध्यस्य निर्देशः साध्यनिर्देशः प्रतिज्ञा प्रतिज्ञायतेऽनयेति कृत्वा, यथा अयं प्रदेशो
ऽग्निमानिति ॥ ११ ॥
हेतुं लक्षयति--
साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥ १२ ॥
साधनत्वाभिव्यञ्जिका विभक्तिः पञ्चमी तृतीया वा त623दन्तम्, साधनस्य
उक्तलक्षणस्य वचनम् हेतुः । धूम इत्यादिरूपस्य हेतुत्वनिराकरणाय प्रथमं पदम् ।
अव्या624प्तवचन625हेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोपपत्त्यन्यथानुपपत्तिभ्याम्,
तद्यथा धूमस्य तथैवोपपत्तेर्धूमस्यान्यथानुपपत्तेर्वेति ॥ १२ ॥
उदाहरणं लक्षयति--
दृष्टान्तवचनमुदाहरणम् ॥ १३ ॥
दृष्टान्तः उक्तलक्षणस्तत्प्रतिपादकं वचनम् उदाहरणम् तदपि द्विविधं
दृष्टान्तभेदात् । साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधर्म्यो
दाहरणम्, यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः । साध्यधर्मनिवृत्ति
प्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्यदृष्टान्तस्तस्य वचनं वैधर्म्योदाहरणम्, यथा
योऽग्निनिवृत्तिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ॥ १३ ॥
उपनयलक्षणमाह--
धर्मिणि साधनस्योपसंहार उपनयः ॥ १४ ॥
दृष्टान्तधर्मिणि 626विसृ627तस्य साधनधर्मस्य साध्यधर्मिणि यः उपसंहारः सः
उपनयः उप628संह्रियतेऽनेनोपनीय629तेऽनेनेति वचनरूपः, यथा धूमवांश्चायमिति ॥ १४ ॥
निगमनं लक्षयति--
साध्यस्य निगमनम् ॥ १५ ॥
साध्यधर्मस्य धर्मिण्युपसंहारो निगम्य631ते पूर्वेषामवयवानाम632र्थोऽनेनेति
निगमनम्, यथा तस्मादग्निमानिति ।
एते ना633न्तरीयक635त्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः । एतेषामेव
शुद्धयः पञ्च । यतो न श636ङ्कितसमारोपितदोषाः पञ्चाप्यवयवाः स्वां स्वामनादीनवामर्थ
विषयां धियमाधातुमल637मिति प्रतिज्ञादीनां तं तं दोषमाशङ्क्य त638त्परिहाररूपाः पञ्चैव
शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति ॥ १५ ॥
इह शास्त्रे येषां लक्षणमुक्तं639 ते तल्लक्षणाभावे तदाभासाः सुप्रसिद्धा एव ।
यथा प्रमाणसामान्यलक्षणाभावे संशयविपर्ययानध्यवसायाः प्रमाणाभासाः, संशयादिल
क्षणाभावे संशयाद्याभासाः, प्रत्यक्षलक्षणाभावे प्रत्यक्षाभास640म्, परोक्षान्तर्गतानां स्मृत्या
दीनां स्वस्वलक्षणाभावे तत्तदाभासतेत्यादि । एवं हेतूनामपि स्वलक्षणाभावे हेत्वाभासता
54
सुज्ञानैव । केवलं हेत्वाभासानां सङ्ख्यानियमः प्रतिव्यक्तिनियतं लक्षणं च नेषत्क641रप्रति
पत्तीति तल्लक्षणार्थमाह--
असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥ १६ ॥
अहेतवो हेतुवदाभासमानाः हेत्वाभासाः असिद्धादयः । यद्यपि साधनदोषा
एवैते अदुष्टे साधने तदभावात् तथापि साधनाभिधायके हेतावुपचारात् पूर्वाचार्यैरभि
हितास्ततस्त642त्प्रसिद्धिबाधामनाश्रयद्भिरस्माभिरपि हेतुदोषत्वेनैवोच्यन्त इति ।
त्रयः इति सङ्ख्यान्तरव्यवच्छेदार्थम् । तेन कालातीत-प्रकरणसमयोर्व्यव
च्छेदः । तत्र काला643तीतस्य पक्षदोषेष्वन्तर्भावः । प्रत्यक्षागमबाधि644तकर्मनिर्देशान
न्तरप्रयुक्तः कालात्ययापदिष्टः इति हि तस्य लक्षणमिति, यथा अनुष्णस्तेजोऽवयवी
कृतकत्वाद् घटवदिति । प्रकरणसमस्तु न सम्भवत्येव; नह्यस्ति सम्भवो यथोक्तलक्षणे
ऽनुमाने प्रयुक्तेऽदूषिते वा645ऽनुमानान्तरस्य । यत्तूदाहरणम्--अनित्यःशब्दः पक्षसपक्षयोरन्य
तरत्वात् इत्येकेनोक्ते द्वितीय आह--नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादिति । तदती
वासाम्प्रतम् । को हि चतुरङ्गसभायां वादी प्रतिवादी646 वैवंविधमसम्बद्धमनुन्मत्तोऽभि
दधीतेति ? ॥ १६ ॥
तत्रासिद्धस्य लक्षणमाह--
नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ
सन्देहे वाऽसिद्धः ॥ १७ ॥
असन् अविद्यमानो नान्यथानुपपन्नः इति सत्त्वस्या647सिद्धौ असिद्धः
हेत्वाभासः स्वरूपासिद्ध इत्यर्थः । यथा अनित्यः शब्दश्चाक्षुषत्वादिति । अपक्षधर्मत्वा
दयमसिद्ध इति न मन्तव्यमित्या648ह--नान्यथानुपपन्नः इति । अन्यथानुपपत्तिरूपहेतु
लक्षणविरहादयमसिद्धो नापक्षधर्मत्वात् । नहि पक्षधर्मत्वं हेतोर्लक्षणं तदभावेऽप्यन्य
थानुपपत्तिबलाद्धेतुत्वोपपत्तेरित्युक्तप्रायम् । भट्टोऽप्याह--
तथा अनिश्चितसत्त्वः सन्दिग्धसत्त्वः नान्यथानुपपन्नः इति सत्त्वस्य सन्देहे
प्यसिद्धो हेत्वाभासः सन्दिग्धासिद्ध इत्यर्थः । यथा बाष्पादिभावेन सन्दिह्यमाना धूम
55
लताग्निसिद्धावुपदिश्यमाना, य650था चात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोपलभ्य
मा651नगुणत्व652म्, प्रमाणाभावादिति ॥ १७ ॥
असिद्धप्रभेदानाह--
वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः ॥ १८ ॥
वादी पूर्वपक्षस्थितः प्रतिवादी उत्तरपक्षस्थितः उभयं द्वावेव वादिप्रतिवा
दिनौ । तद्भेदादसिद्धस्य भेदः । तत्र वाद्यसिद्धो यथा परिणामी शब्द उत्पत्तिमत्त्वात् ।
अयं साङ्ख्यस्य स्वयं वादिनोऽसिद्धः, तन्मते उत्पत्तिमत्त्वस्यानभ्युपेतत्वात्, नासदुत्प
द्यते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तत्सिद्धान्ता653त् ।
चेतनास्तरवः सर्वत्वगपहरणे मरणात् । अत्र मरणं विज्ञानेन्द्रियायुर्निरोधलक्षणं तरुषु
बौद्धस्य प्रतिवादिनोऽसिद्धम् । उभयासिद्धस्तु चाक्षुषत्वमुक्तमेव । एवं सन्दि654ग्धासिद्धो
ऽपि वादिप्रतिवाद्युभयभेदात् त्रिविधो बोद्धव्यः ॥ १८ ॥
नन्वन्येऽपि विशेष्यासिद्धादयो हेत्वाभासाः कैश्चिदिष्यन्ते ते कस्मान्नोक्ता
इत्याह--
विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥ १९ ॥
एष्वेव वादिप्रतिवाद्युभयासिद्धेष्वेव । तत्र विशेष्यासिद्धादय उदाह्रियन्ते ।
विशेष्या655सिद्धो यथा अनित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वात् । विशेषणासिद्धो
यथा अनित्यः श656ब्दश्चाक्षुषत्वे सति सामान्यविशेषवत्त्वात् । भागा657सिद्धो यथा अनित्यः
शब्दः प्रयत्नानन्तरीयकत्वात् । आश्रयासिद्धो यथा अस्ति प्रधा658नं विश्वपरिणामित्वात् ।
आश्रयैकदेशासि659द्धो यथा नित्याः प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो
यथा अनित्यः शब्दः कृतकत्वे सति सामान्यवत्त्वात् । व्यर्थविशेषणासिद्धो यथा अनित्यः
शब्दः सामान्य660वत्त्वे सति कृतकत्वात् । सन्दिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः
कपिलः पुरु661षत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा अद्यापि
रागादियुक्तः कपिलः सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वादित्यादि । एतेऽसिद्धभेदा
यदान्यतरवाद्यसिद्धत्वेन विवक्ष्यन्ते तदा वाद्यसिद्धाः प्रतिवाद्यसिद्धा वा भवन्ति । यदो
भयवाद्यसिद्धत्वेन विवक्ष्यन्ते तदोभयासिद्धा भवन्ति ॥ १९ ॥
विरुद्धस्य लक्षणमाह--
विपरीतनियमोऽन्यथैवोप662पद्यमानो विरुद्धः ॥ २० ॥
विपरीतः य663थोक्ताद्विप664र्यस्तो नियमः अविनाभावो यस्य स तथा, तस्यैवो
पदर्शनम् अन्यथैवोपपद्यमानः इति । यथा नित्यः शब्दः कार्यत्वात्, परा665र्थाश्चक्षुरादयः
सङ्घातत्वाच्छयना666शनाद्यङ्गवदित्यत्रासंहतपारार्थ्ये साध्ये चक्षुरादीनां संह667तत्वं विरु668द्धम् ।
बुद्धिमत्पूर्वकं क्षित्यादि कार्यत्वादित्यत्राशरीरसर्वज्ञकर्तृपूर्वकत्वे साध्ये कार्यत्वं विरुद्ध
साधनाद्विरुद्धम् ।
अनेन येऽन्यैरन्ये विरुद्धा उदाहृतास्तेऽपि सङ्गृहीताः । यथा सति सपक्षे
चत्वारो भेदाः । पक्षविपक्षव्यापको यथा नित्यः शब्दः कार्य669त्वात् । पक्षव्यापको वि670प
क्षैकदेशवृत्तिर्यथा नित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् । पक्षै
कदेशवृत्तिर्विपक्षव्यापको यथा नित्याअनित्या पृथ्वी671 कृतकत्वात् । पक्षविप672क्षैकदेशवृत्तिर्यथा
नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । असति सपक्षे चत्वारो विरुद्धाः । पक्षविप674क्ष
व्यापको यथा आकाशविशेषगुणः शब्दः प्रमेयत्वात् । पक्षव्यापको विपक्षैकदेशवृत्ति
र्यथा आकाशविशेषगुणः शब्दो बा675ह्येन्द्रियग्राह्यत्वात् । पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा
आकाशविशेषगुणः शब्दोऽप676दात्मकत्वात् । पक्षविप677क्षैकदेशवृत्तिर्यथा आकाशविशेषगुणः
शब्दः प्रयत्नानन्तरीयकत्वात् । एषु च चतुर्षु विरुद्धता, पक्षैकदेशवृत्तिषु चतुर्षु पुनर
सि678द्धता विरुद्ध679ता चेत्युभयसमावेश680 इति ॥ २० ॥
अनैकान्तिकस्य लक्षणमाह--
नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपप681द्यमानोऽनैकान्तिकः ॥ २१ ॥
निय683मः अविनाभावस्तस्य असिद्धौ अनैकान्तिकः यथा अनित्यः शब्दः
प्रमेयत्वा684त्, प्रमेयत्वं नित्येऽप्याकाशादावस्तीति । सन्देहे यथा असर्वज्ञः कश्चिद् रागादिमान्
वा वक्तृत्वात् । स्वभावविप्रकृष्टाभ्यां हि सर्वज्ञत्ववीतरागत्वाभ्यां न वक्तृत्वस्य विरोधः
सिद्धः, न च रागादिकार्यं वचनमिति सन्दिग्धोऽन्वयः । ये चान्येऽन्यैरनैकान्तिकभेदा
उदाहृतास्त उक्तलक्षण एवान्तर्भवन्ति । पक्षत्रयव्यापको यथा अनित्यः शब्दः प्रमेयत्वात्
57
पक्षसपक्षव्यापको विप685क्षैकदेशवृत्तिर्यथा गौरयं विषा686णित्वात् । पक्षविपक्षव्यापकः सप
क्षैकदेशवृत्तिर्यथा687 नायं गौः विषाणित्वात् । पक्षव्यापकः सपक्ष688विप689क्षैकदेशवृत्तिर्यथा अनित्यः
शब्दः प्रत्यक्षत्वात् । पक्षैकदेशवृत्तिः सपक्षविपक्ष690व्यापको यथा न द्रव्याण्याकाश
कालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । पक्षविपक्षैक691देशवृत्तिः सपक्षव्यापी
यथा न द्रव्याणि दिक्कालमनांसि अमूर्तत्वात् । पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापी यथा
द्रव्याणि दिक्कालमनांसि अमूर्तत्वात् । पक्षत्रयैकदेशवृत्तिर्यथा अनित्या पृथ्वी प्रत्य692क्षत्वा
दिति ॥ २१ ॥
उदाहरणदोषानाह--
साधर्म्यवैधर्म्याभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥ २२ ॥
परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात् तु दृष्टान्तदोषा
इत्युच्यन्ते । दृष्टान्तस्य च साधर्म्यवैधर्म्यभेदेन द्विविधत्वात् प्रत्येकम् अष्टावष्टौ दृष्टान्त
वदाभासमानाः दृष्टान्ताभासाः भवन्ति ॥ २२ ॥
तानेवोदाहरति विभजति च--
अमूर्तत्वेन नित्ये शब्दे साध्ये कर्म-परमाणु-घटाः
साध्यसाधनोभयविकलाः ॥ २३ ॥
नित्यः शब्दः अमूर्तत्वादित्यस्मिन् प्रयोगे कर्मादयो यथासङ्ख्यं साध्यादि
विकलाः । तत्र कर्मवदिति साध्यविकलः, अनित्यत्वात् कर्मणः । परमाणुवदिति साधन
विकलः, मूर्तत्वात् परमाणूनाम् । घटवदिति साध्यसाधनोभयविकलः, अनित्यत्वान्मूर्त
त्वाच्च घटस्येति । इति त्र693यः साधर्म्यदृष्टान्ताभासाः ॥ २३ ॥
वैधर्म्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ॥ २४ ॥
नित्यः शब्दः अमूर्त्तत्वादित्यस्मिन्नेव प्रयोगे परमाणुकर्माकाशाः साध्यसा
धनोभयाव्यतिरेकिणो दृष्टान्ताभासा भवन्ति । यन्नित्यं न भवति तदमूर्तमपि न भवति
यथा परमाणुरिति साध्याव्यतिरेकी, नित्यत्वात् परमाणूनाम् । यथा कर्मेति साधनाव्या
वृत्तः, अमूर्तत्वात् कर्मणः । यथाकाशमित्युभयाव्यावृत्तः, नित्यत्वादमूर्त्तत्वाच्चाकाशस्येति
त्रय एव वैधर्म्यदृष्टान्ताभासाः ॥ २४ ॥
तथा--
वचनाद्रागे रागान्मरणध694र्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वय
व्यतिरेका रथ्यापुरुषादयः ॥ २५ ॥
सन्दिग्धसाध्यसाधनोभयान्वयाः सन्दिग्धसाध्यसाधनोभयव्यतिरेकाश्च त्रय
स्त्रयो दृष्टान्ताभासा भवन्ति । के इत्याह--रथ्यापुरुषादयः । कस्मिन् साध्ये ? । रागे
मरणधर्मकिञ्चिज्ज्ञ695त्वयोः च । कस्मादित्याह--वच696नात् रागात् च । तत्र सन्दिग्ध
साध्यधर्मान्वयो यथा विवक्षितः पुरुषविशेषो रागी वचनाद् रथ्यापुरुषवत् । सन्दिग्ध
साधनधर्मान्वयो यथा मरणधर्माऽयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयधर्मान्वयो
यथा किञ्चिज्ज्ञोऽयं रागात् रथ्यापुरुषवदिति । एषु परचेतोवृत्तीनां दुरधिगमत्वेन साध
र्म्यदृष्टान्ते रथ्यापुरुषे रागकिञ्चिज्ज्ञत्वयोः सत्त्वं सन्दिग्धम् । तथा सन्दिग्धसाध्य
व्यतिरेको यथा रागी697 वचनात् रथ्यापुरुषवत् । सन्दिग्धसाधनव्यतिरेको यथा मरण698
धर्माऽयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयव्यतिरेको यथा किञ्चिज्ज्ञोऽयं रागात् रथ्या
पुरुषवत् । एषु699 पूर्ववत् परचेतोवृत्तेर्दुरन्वयत्वाद्वैधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिञ्चिज्ज्ञत्व
योरसत्त्वं सन्दिग्धमिति ॥ २५ ॥
तथा--
विपरीतान्वयव्यतिरेकौ ॥ २६ ॥
विपरीतान्वयः विपरीतव्यतिरेकः च दृष्टान्ताभासौ भवतः । तत्र
विपरीतान्वयो यथा यत् कृतकं तदनित्यमिति वक्तव्ये यदनित्यं तत् कृतकं यथा घट
इत्याह । विपरीतव्यतिरेको यथा अनित्यत्वाभावे न भवत्येव कृतकत्वमिति वक्तव्ये
कृतकत्वाभावे न भवत्येवानित्यत्वं यथाकाश इत्याह । साधनधर्मानुवादेन साध्यधर्मस्य
विधानमित्यन्वयः । साध्यधर्मव्यावृत्त्यनुवादेन साधनधर्मव्यावृत्तिविधानमिति व्यति
रेकः । तयोरन्यथाभा700वे विपरीतत्वम् । यदाह--
अप्रदर्शितान्वयव्यतिरेकौ ॥ २७ ॥
अप्रदर्शितान्वयः अप्रदर्शितव्यतिरेकः च दृष्टान्ताभासौ । एतौ च
59
प्रमाण704स्यानुपदर्शनाद्भवतो न तु वीप्सा705सर्वा706वधा707रणपदानामप्रयोगात्, सत्स्वपि तेष्व
सति प्रमाणे त708योरसिद्धेरिति । साध्यविकलसाधनविकलोभयविक709लाः, सन्दिग्धसाध्या
न्वयसन्दिग्धसाधनान्वयसन्दिग्धोभयान्वयाः, विपरीतान्वयः, अप्रदर्शितान्वयश्चेत्यष्टौ
साधर्म्यदृष्टान्ताभासाः । साध्याव्यावृत्तसाधनाव्यावृत्तोभयाव्यावृत्ताः, सन्दिग्धसाध्यव्या
वृत्तिसन्दिग्धसाधनव्यावृत्तिसन्दिग्धोभयव्यावृत्तयः, विपरीतव्यतिरेकः, अप्रदर्शितव्य
तिरेकश्चेत्यष्टावेव वैधर्म्यदृष्टान्ताभासा भवन्ति ।
नन्वनन्वयाव्यतिरेकावपि कैश्चिद् दृष्टान्ताभासावुक्तौ, यथा रागादिमानयं
वचनात् । अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये, वैधर्म्यदृष्टान्ते
चोपलखण्डे सत्यामपि सह निवृत्तौ प्रतिब710न्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्व
याव्यतिरेकौ । तौ कस्मादिह नोक्तौ ? । उच्यते--ताभ्यां पूर्वे न भिद्यन्त इति साध
र्म्यवैधर्म्याभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति । यदाहुः--
अवसितं परार्थानुमानमिदानीं तन्नान्तरीयकं दूषणं लक्षयति--
साधनदोषोद्भावनं दूषणम् ॥ २८ ॥
साधनस्य परार्थानुमानस्य ये असिद्धविरुद्धादयो दोषाः पूर्वमुक्तास्ते
षामुद्भाव्यते प्रकाश्यतेऽनेनेति उद्भावनम् साधनदोषोद्भावकं वचनं दूषणम् । उत्तर
त्राभूतग्रहणादिह भू711तदोषोद्भावना दूषणेति सिद्धम् ॥ २८ ॥
दूषणलक्षणे दूषणाभासलक्षणं सुज्ञानमेव भेदप्रतिपादनार्थं तु तल्लक्षणमाह--
अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥ २९ ॥
अविद्यमानानां साधनदोषाणां प्रतिपादनान्यदूषणान्यपि दूषणवदाभास
मानानि दूषणा712भासाः । तानि च जात्युत्तराणि । जातिशब्दः सादृश्यवचनः । उत्तर
सदृशानि जात्युत्तराणि उत्तरस्थानप्रयुक्तत्वात् । उत्तरसदृशानि जात्युत्तराणि । जात्या
सादृश्येनोत्तराणि जात्युत्तराणि । तानि च सम्यग्घेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति
तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायाणि प्रत्यवस्थानान्यनन्तत्वात्परिसङ्ख्यातुं न
शक्यन्ते, तथाप्यक्षपाददर्शितदिशा साधर्म्यादिप्रत्यवस्थानभेदेन साधर्म्यवैधर्म्यो
त्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्व-
र्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यका713र्यसमरूपतया चतुर्विंशतिरुपदर्श्यन्ते ।
तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमा जातिः । यथा अनित्यः शब्दः कृत
कत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्--नित्यः शब्दो निरवय
वत्वादाकाशवत् । न चास्ति विशेष714हेतुर्घटसाधर्म्यात् कृतकत्वादनित्यः शब्दो न पुन
राकाशसाधर्म्यान्निरवयवत्वान्नित्य इति १ । वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः ।
यथा अनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव प्रतिहेतुर्वैधर्म्येण प्रयुज्यते-
नित्यः शब्दो निरवयवत्वात्; अनित्यं हि साव715यवं दृष्टं घटादीति । न चास्ति विशेष
हेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधर्म्यान्निरवयवत्वान्नित्य इति २ ।
उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती । तत्रैव प्रयोगे दृष्टान्तधर्मं कञ्चित्
साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते--यदि घटवत् कृतकत्वादनित्यः शब्दो
घटवदेव मूर्तोऽपि भवतु । न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरो
त्कर्षमापादयति ३ । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोप्यस्तु । नो चेद्
घटवदनित्योऽपि माभूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति ४ । वर्ण्यावर्ण्याभ्यां
प्रत्यवस्थानं वर्ण्यावर्ण्यसमे जाती । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यः । तावेतौ
वर्ण्यावर्ण्यौ साध्यदृष्टान्तधर्मौ विप716र्यस्यन् वर्ण्या717वर्ण्य718समे जाती प्रयुङ्क्ते--यथाविधः
शब्दधर्मः कृतकत्वादिर्न तादृग्घटधर्मो या719दृग्घटधर्मो न तादृक् शब्दधर्म इति ५--६ ।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किञ्चिन्मृदु दृष्टं राङ्क
वशय्यादि, किञ्चित्कठिनं कुठारादि, एवं कृतकं किञ्चिदनित्यं भविष्यति घटादि किञ्चि
न्नित्यं शब्दादीति ७ । साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः । यथा--यदि
यथा घटस्तथा शब्दः, प्राप्तं तर्हि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि
साध्यो भवतु । ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्या
त्सुतरामदृष्टान्त इति ८ । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती ।
यथा यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत्किं प्राप्य साधयत्यप्राप्य वा ? । प्राप्य चेत्;
द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति, न सदसतोरिति । द्वयोश्च सत्त्वात् किं कस्य साध्यं साधनं
वा ? ९ । अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति १० । अतिप्रसङ्गापादनेन प्रत्यवस्थानं
प्रसङ्गसमा जातिः । यथा यद्यनित्यत्वे कृतकत्वं साधनं कृतकत्व इदानीं किं साधनम् ? ।
तत्साधनेऽपि किं साधनमिति ? ११ । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः ।
यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदित्युक्ते जातिवाद्याह--यथा घटः प्रय
त्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टम्,
कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनम्, भङ्ग्यन्तरेण प्रत्य
61
वस्थानात् १२ । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । यथा अनुत्पन्ने शब्दाख्ये
धर्मिणि कृतकत्वं धर्मः क्व वर्तते ? । तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति १३ । साध
र्म्यसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सैव संशयेनोपसंहियमाणा संशयसमा
जातिर्भवति । यथा किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाश
साधर्म्याद्वा निरवयवत्वान्नित्य इति ? १४ । द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना
सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति । त720त्रैव अनित्यः शब्दः कृत
कत्वाद् घटवदिति प्रयोगे--नित्यः शब्दः श्रावणत्वाच्छब्द721त्ववदिति उद्भा722वनप्रकारभेद
मात्रे सति नानात्वं द्रष्टव्यम् १५ । त्रैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानमहेतुसमा
जातिः । यथा हेतुः साधनम् । तत् साध्यात्पूर्वं पश्चात् सह वा भवेत् ? । यदि पूर्वम्; असति
साध्ये तत् कस्य साधनम् ? । अथ पश्चात्साधनम्; पूर्वं तर्हि साध्यम्, त723स्मिंश्च पूर्वसिद्धे
किं साधनेन ? । अथ युगपत्साध्यसाधने; तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाध
नभाव एव न भवेदिति १६ । अर्थापत्त्या प्रत्यवस्थानमर्थापत्तिसमा जातिः । यद्यनि
त्यसाधर्म्यात्कृतकत्वादनित्यः शब्दः, अर्थादापद्यते नित्यसाधर्म्यान्नित्य इति । अस्ति
चास्य नित्येनाकाशादिना साधर्म्यं निरवयवत्वमित्युद्भा724वनप्रकारभेद एवायमिति725 १७ ।
अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दघटयोरेको धर्मः
कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रस
ज्यत इति १८ । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । यथा यदि कृतकत्वोप
पत्त्या शब्दस्यानित्यत्वम्, निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवति ? । पक्षद्वयोप
पत्त्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ । उपल
ब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वा
दिति प्रयुक्ते प्रत्यवतिष्ठते--न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम्; साधनं हि
तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि
विद्युदादावनित्यत्वम् । शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० ।
अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयक
त्वहेतावुपन्यस्ते सत्याह जातिवादी--न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्ये726वासावाव
रणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भान्नास्त्येव शब्द इति चेत्727; न,
आवरणानुपलम्भेप्यनुपलम्भसद्भावात् । आवरणानुपलब्धेश्चानुपलम्भादभावः । तदभावे
चावरणोपलब्धेर्भावो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृत
मेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्यत्वाभावान्नित्यः शब्द इति728 २१ । साध्य
62
धर्मनित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिः । यथा अनित्यः शब्द
इति प्रतिज्ञाते जातिवादी विकल्पयति--येयमनित्यता शब्दस्योच्यते सा किमनित्या
नित्या वेति ? । यद्यनित्या; तदियमवश्यमपायिनीत्यनित्यताया अपायान्नित्यः शब्दः ।
अथानित्यता नित्यै731व; तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रय
भूतः शब्दोऽपि नित्यो भवेत्, तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि नित्यः
शब्द इति732 २२ । सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः । यथा घटेन
साधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते, तद् घटेन सर्वपदार्था
नामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथा
भावेऽपि नानित्यत्वम्; तर्हि शब्दस्यापि तन्मा भूदिति । अनित्यत्वमात्रापादनपूर्वकविशे
षोद्भावनाच्चाविशेषसमातो भि733न्नेयं जातिः २३ । प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं
कार्यसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह-
प्रयत्नस्य द्वैरूप्यं दृष्टम्--किञ्चिदसदेव तेन जन्यते यथा घटादि, किञ्चित्सदेवावरणव्युदा
सादिनाऽभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन
शब्दो व्यज्यते जन्यते वेति संशय इति । संशयापादनप्रकारभेदाच्च संशयसमातः कार्य
समा जातिर्भिद्यते २४ ।
तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्येऽप्यसङ्कीर्णोदाहरणविव
क्षया चतुर्विंशतिर्जातिभेदा एते दर्शिताः । प्रतिसमाधानं तु सर्वजातीनामन्यथानुप
पत्तिलक्षणानुमानलक्ष736णपरीक्षणमेव । न ह्यविप्लुतलक्षणे हेतावेवंप्रायाः पांशुपाताः
प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृढप्रतिबन्धत्वान्नावरणादिकृतं शब्दानुपल
म्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यं न
प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमञ्जस्य प्रसङ्गादिति ।
छलमपि च सम्यगुत्तरत्वाभावाज्जात्युत्तरमेव737 । उक्तं ह्येतदुद्भावनप्रकार
भेदेनानन्तानि जात्युत्तराणीति । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघात
श्छलम् । तत्त्रिधा वाक्छलं सामान्यच्छलमुपचारच्छलं चेति । तत्र साधारणे शब्दे प्रयुक्ते
वक्तुरभिप्रेता738दर्थादर्थान्तरकल्पनया तन्निषेधो वाक्छलम् । यथा नवकम्बलोऽयं माण
वक इति नूतनविवक्षया कथिते परः सङ्ख्यामारोप्य निषेधति--कुतोऽस्य नव कम्बला
इति ? । सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामा
न्यच्छलम् । यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति ब्राह्मणस्तुतिप्रसङ्गे
कश्चिद्वदति--सम्भवति ब्राह्मणे विद्याचरणसम्पदिति । तत् छलवादी ब्राह्मणत्वस्य हेतुता
मारोप्य निराकुर्वन्नभियुङ्क्ते--यदि ब्राह्मणे विद्याचरणसम्पद् भवति, व्रात्येऽपि सा भवेत्
63
व्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचार
च्छलम् । यथा मञ्चाः क्रोशन्तीति उक्ते परः प्रत्यवतिष्ठते--कथमचेतनाः मञ्चाः क्रोशन्ति
मञ्चस्थास्तु पुरुषाः क्रोशन्तीति । तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्धशब्दसामर्थ्य
परीक्षणमेव समाधानं वेदितव्यमिति ॥ २९ ॥
साधनदूषणाद्यभिधानं च प्रायो वादे भवतीति वादस्य लक्षणमाह--
तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं
वादः ॥ ३० ॥
स्वपक्षसिद्धये वादिनः साधनम् तत्प्रतिषेधाय प्रतिवादिनो दूषणम् ।
प्रतिवादिनोऽपि स्वपक्षसिद्धये साधनम् तत्प्रतिषेधाय वादिनो दूषणम् । तदेवं वादिनः
साधनदूषणे प्रतिवादिनोऽपि साधनदूष739णे द्वयोर्वादिप्रतिवादिभ्याम् वदनम् अभिधानम्
वादः । कथमित्याह--प्राश्निकादिसमक्षम् । प्राश्निकाः सभ्याः-
इ740त्येवंलक्षणाः । आदिग्रहणेन सभापतिवादिप्रतिवादिपरिग्रहः, सेयं चतुरङ्गा कथा,
एकस्याप्यङ्गस्य वैकल्ये कथात्वानुपपत्तेः । नहि वर्णाश्रमपालनक्षमं न्यायान्यायव्य
वस्थापकं पक्षपातरहितत्वेन समदृष्टिं सभापतिं यथोक्तलक्षणांश्च प्राश्निकान् विना
वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ । नापि दुःशिक्षि
तकुतर्कलेशवाचालबालिशजनविप्लावितो गतानुगतिको जनः सन्मार्गं प्रतिपद्येतेति ।
तस्य फलमाह--तत्त्वसंरक्षणार्थम् । तत्त्वशब्देन तत्त्वनिश्चयः साधुजनहृदयविपरिवर्ती
गृह्यते, तस्य रक्षणं दुर्विदग्धजनजनितविकल्पकल्पनात इति ।
ननु तत्त्वरक्षणं जल्पस्य वितण्डाया वा प्रयोजनम् । यदाह--तत्त्वा
ध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखा
परिचरणवत् न्यायसू॰ ४. २. ५० इति; न, वादस्यापि निग्रहस्थानवत्त्वेन
तत्त्वसंरक्षणार्थत्वात् । न चास्य निग्रहस्थानवत्त्वमसिद्धम् । प्रमाणतर्कसाधनो
पालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः
न्यायसू॰ १. २. १ इति वादलक्षणे सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तस्य, पञ्चावयवोप
पन्न इत्यनेन न्यूनाधिकयोर्हेत्वाभासपञ्चकस्य चेत्यष्टानां निग्रहस्थानानामनुज्ञानात्, तेषां
च निग्रहस्थानान्तरोपलक्षणत्वात् । अत एव न जल्पवितण्डे कथे, वादस्यैव तत्त्वसंर
क्षणार्थत्वात् ।
ननु यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः
64
न्या॰ १. २. २, स प्रतिपक्षस्थापनाहीनो741 वितण्डा न्या॰ १. २. ३ इति लक्षणे
भेदाज्जल्पवितण्डे अपि कथे विद्येते एव; न; प्रतिपक्षस्थापनाहीनाया वितण्डायाः
कथात्वायोगात् । वै742तण्डिको743हि स्व744पक्षमभ्युपगम्यास्थापयन् य745त्किंचिद्वादेन परपक्ष
मेव दूषयन् कथमवधेयवचनः ? । जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनो
पालम्भसम्भावनया कथात्वं लभते तथापि न वादादर्थान्तरम्, वादेनैव चरितार्थत्वात् ।
छलजातिनिग्रहस्थानभूयस्त्वयोगादचरितार्थ इति चेत्; न, छलजातिप्रयोगस्य दूषणा
भासत्वेनाप्रयोज्यत्वात्, निग्रहस्थानानां च वादेप्यविरुद्धत्वात् । न खलु खट746चपेटा
मुखबन्धादयोऽनुचिता निग्रहा जल्पेऽप्युपयुज्यन्ते । उचितानां च निग्रहस्थानानां
वादेऽपि न विरोधोऽस्ति । तन्न वादात् जल्पस्य कश्चिद् विशेषोऽस्ति । लाभपूजा
ख्यातिकामितादीनि तु प्रयोजनानि तत्त्वाध्यवसायसंरक्षणलक्षणप्रधानफलानु747बन्धीनि
पुरुषधर्मत्वाद्वादेऽपि न निवारयितुं पार्यन्ते ।
ननु छलजातिप्रयोगोऽसदुत्तरत्वाद्वादे न भवति, जल्पे तु तस्यानु
ज्ञानादस्ति वादजल्पयोर्विशेषः । यदाह-
नैवम् । असदुत्तरैः परप्रतिक्षेपस्य कर्तुमयुक्तत्वात्; न ह्यन्यायेन जयं यशो धनं
वा महात्मानः समीहन्ते । अथ प्रबलप्रतिवादिदर्शनात् तज्ज749ये धर्मध्वंससम्भावनात्,
प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादसदुत्तरैरपि पांशुभिरिवावकिरन्नेकान्तपराजयाद्वरं
सन्देह इति धिया न दोषमावहतीति चेत्750; न, अस्यापवादिकस्य जात्युत्तरप्रयोगस्य
कथान्तरसमर्थनसामर्थ्याभावात् । वाद एव द्रव्यक्षेत्रकालभावानुसारेण यद्यसदुत्तरं कथं
चन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत ? । तस्माज्जल्पवितण्डानिराकरणेन वाद
एवैकः कथाप्रथां लभत इति स्थितम् ॥ ३० ॥
वादश्च जयपराजयावसानो भवतीति जयपराजययोर्लक्षणमाह--
स्वपक्षस्य सिद्धिर्जयः ॥ ३१ ॥
वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा जयः । सा च स्वपक्षसा
धनदोषपरिहारेण परपक्षसाधनदोषोद्भावनेन च751 भवति । स्वपक्षे साधनमब्रुवन्नपि प्रति
65
वादी वादिसाधनस्य विरुद्धतामुद्भावयन् वादिनं जयति, विरुद्धतोद्भावनेनैव स्वपक्षे
साधनस्योक्तत्वात् । यदाह--बिरु752द्धं हेतुमुद्भाव्य वादिनं जयतीतरः इति ॥ ३१ ॥
असिद्धिः पराजयः ॥ ३२ ॥
वादिनः प्रतिवादिनो वा या स्वपक्षस्य असिद्धिः सा पराजयः । सा च
साधनाभासाभिधानात्, सम्यक्साधनेऽपि वा परोक्तदूषणानुद्धरणाद्भवति ॥ ३२ ॥
ननु यद्यसिद्धिः पराजयः, स तर्हि कीदृशो निग्रहः ?, निग्रहान्ता
हि कथा भवतीत्याह--
स निग्रहो वादिप्रतिवादिनोः753 ॥ ३३ ॥
सः पराजय एव वादिप्रतिवादिनोः निग्रहः न वधबन्धा754दिः । अथवा
स एव स्वपक्षासिद्धिरू755पः पराजयो निग्रहहेतुत्वान्निग्रहो ना756न्यो यथाहुः प757रे--विप्रति
पत्तिरप्रतिपत्तिश्च निग्रहस्थानम् न्यायसू॰ १. २. १९ इति ॥ ३३ ॥
तत्राह--
न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥ ३४ ॥
विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिः विप्रतिपत्तिः--साधनाभासे
साधनबुद्धिर्दूषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्त्वारम्भविषयेऽनारम्भः । स च साधने
दूषणं दूषणे चोद्धरणं तयोरकरणम् अप्रतिपत्तिः । द्विधा हि वादी पराजीयते--यथाकर्तव्य
मप्रतिपद्यमानो विपरीतं वा प्रतिपद्य758मान इति । विप्रतिपत्त्यप्रतिपत्ती एव विप्रतिपत्त्य
प्रतिपत्तिमात्रम् न पराजयहेतुः किन्तु स्वपक्षस्यासिद्धिरेवेति । विप्रतिपत्त्यप्रतिपत्त्योश्च
निग्रहस्थानत्वनिरासात् तद्भेदानामपि निग्रहस्थानत्वं निरस्तम् ।
ते च द्वाविंशतिर्भवन्ति । तद्यथा--१ प्रतिज्ञाहानिः, २ प्रतिज्ञान्तरम्,
३ प्रतिज्ञाविरोधः, ४ प्रतिज्ञासंन्यासः, ५ हेत्वन्तरम्, ६ अर्थान्तरम्, ७ निरर्थकम्,
८ अविज्ञातार्थम्, ९ अपार्थकम्, १० अप्राप्तकालम्, ११ न्यूनम्, १२ अधिकम्,
१३ पुनरुक्तम्, १४ अननुभाषणम्, १५ अज्ञानम्, १६ अप्रतिभा, १७ विक्षेपः,
१८ मतानुज्ञा, १९ पर्यनुयोज्योपेक्षणम्, २० निरनुयोज्यानुयोगः, २१ अपसिद्धान्तः,
२२ हेत्वाभासाश्चेति । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्य
प्रतिपत्तिप्रकाराः । शेषा विप्रतिपत्तिभेदाः ।
तत्र प्रतिज्ञाहानेर्लक्षणम्--प्रतिदृ759ष्टान्तध760र्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञा
66
हानिः न्यायसू॰ ५. २. २. इति सूत्रम् । अस्य भास्य761कारीयं व्याख्यानम्--सा762ध्यधर्म
प्रत्यनीकेन धर्मेण प्रत्यवस्थि763तः प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽनुजानन् प्रतिज्ञां
जहा764तीति प्रतिज्ञाहानिः । यथा अनित्यः शब्दः ऐन्द्रियकत्वाद् घटवदित्युक्ते
परः प्रत्यवतिष्ठते--सामान्यमैन्द्रियकं नित्यं दृष्टं कस्मान्न तथा शब्दोऽपीत्येवं
स्वप्रयु765क्तहेतोराभासता766मवस्यन्नपि कथावसानमकृत्वा प्रतिज्ञात्यागं करोति-
यद्यैन्द्रियकं सामान्यं नित्यम्, कामं घटोऽपि नित्योऽस्त्विति । स खल्वयं
साधनस्य दृष्टान्तस्य नित्यत्वं प्रस767जन् निगमनान्तमेव प768क्षं जहाति ।
पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षस्येति
न्यायभा॰ ५. २. २ । तदेतदसङ्गतमेव, साक्षाद् दृष्टान्तहानिरूपत्वात् तस्याः769 तत्रैव770 धर्म
परित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागः, दृष्टान्ता771साधुत्वे तेषाम
प्यसाधुत्वात् । तथा च प्रतिज्ञाहानिरेवेत्यसङ्गतमेव । वार्त्तिककारस्तु व्याचष्टे--दृ772ष्ट
श्चासावन्ते773 स्थितत्वादन्तश्चेति दृ774ष्टान्तः पक्षः । स्वदृष्टान्तः स्वपक्षः । प्रति
दृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धर्मं स्वपक्षेऽभ्यनुजानन् प्रतिज्ञां जहाति-
यदि सामान्यमैन्द्रियकम् नित्यं शब्दोऽप्येवमस्त्विति न्यायवा॰ ५. २. २ ।
तदेतदपि व्याख्यानमसङ्गतम्, इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात् । न खलु
प्रतिपक्षस्य धर्मं स्वपक्षेऽभ्यनुजानत एव प्रतिज्ञात्यागो येनायमेक एव प्रकारः प्रतिज्ञा
हानौ स्यात्, अधिक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा
निमित्ता775त् किञ्चित् साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानानस्याप्युपलम्भात् पुरुष
भ्रान्तेरनेकका776रणकत्वोपपत्तेरिति १ ।
प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिद
धतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते
तथैव सामान्येन व्यभिचारे नोदिते यदि ब्रूयात्--युक्तं सामान्यमैन्द्रियकं नित्यं तद्धि
67
सर्वगतमसर्वगतस्तु शब्द इति । सोऽयम् अनित्यः शब्दः इति पू777र्वप्रतिज्ञातः प्रतिज्ञान्तरम्
असर्वगतः शब्दः इति कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । एतदपि प्रतिज्ञाहानिवन्न
युक्तम्, तस्याप्यनेकनिमित्त778त्वोपप779त्तेः । प्रतिज्ञाहानितश्चास्य कथं भेदः, पक्षत्यागस्योभय
त्राविशेषात् ? । यथैव हि प्रतिदृष्टान्तधर्मस्य स्वदृष्टान्तेऽभ्यनुज्ञानात् पक्षत्यागस्तथा प्रति
ज्ञान्तरादपि । यथा च स्वपक्षसिद्ध्यर्थं प्रतिज्ञान्तरं विधीयते तथा शब्दानित्यत्वसि
द्ध्यर्थं भ्रान्तिव781शात् तद्वच्छब्दोऽपि नित्योऽस्तु इत्यनुज्ञानम्, यथा चाभ्रान्तस्येदं विरुद्ध्यते
तथा प्रतिज्ञान्तरमपि । निमित्तभेदाच्च तद्भेदे अनिष्टनिग्रहस्थानान्तराणामप्यनु782षङ्गः स्यात् ।
तेषां च तत्रान्तर्भावे प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति २ ।
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधःन्यायसू॰ ५. २. ४ नाम निग्रह
स्थानं भवति । यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति । सोऽयं
प्रतिज्ञाहेत्वोर्विरोधः--यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः ?,
अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति ?, तदयं प्रतिज्ञा
विरुद्धाभिधानात् पराजीयते । तदेतदसङ्गतम् । यतो हेतुना प्रतिज्ञायाः प्रतिज्ञात्वे निरस्ते
प्रकारान्तरतः प्रतिज्ञाहानिरेवेयमुक्ता स्यात्, हेतुदोषो वा विरुद्धतालक्षणः, न प्रतिज्ञा
दोष इति ३ ।
पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निह्नुवानस्य प्रति
ज्ञासंन्यासो नाम निग्रहस्थानं भवति । यथा अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते
तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात्--क एवमाह--अनित्यः शब्द
इ783ति--स प्रतिज्ञासंन्यासात् पराजितो भवतीति । एतदपि प्रतिज्ञाहानितो न भिद्यते,
हेतोरनैकान्तिकत्वोपलम्भेनात्रापि प्रतिज्ञायाः परित्यागाविशेषात् ४ ।
अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम
निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्य784स्य व्यभिचारेण दूषिते--जातिमत्त्वे
सति इ785त्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । इदमप्यतिप्रसृतम्,
यतोऽविशेषोक्ते दृष्टान्ते उपनये निगमने वा प्रतिषिद्धे विशेषमिच्छतो दृष्टान्ताद्यन्तरमपि
निग्रहस्थानान्तरमनुषज्येत, तत्राप्याक्षेपसमाधानानां समानत्वादिति ५ ।
प्र786कृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं
भवति । यथा अनित्यः शब्दः । कृतकत्वादिति हेतुः । हेतुरिति हिनोतेर्धातोस्तुप्रत्यये
कृदन्तं पदम् । प787दं च नामाख्यातनिपातोपसर्गा इति प्र788स्तुत्य नामादीनि व्याचक्षाणो
ऽर्थान्तरेण निगृह्यते । एतदप्यर्थान्तरं निग्रहस्थानं समर्थे साधने दूषणे वा प्रोक्ते
68
निग्रहाय कल्पेत, असमर्थे वा ? । न तावत्समर्थे; स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावा
ल्लोकवत् । असमर्थेऽपि प्रतिवादिनः पक्षसिद्धौ त789त् निग्रहाय स्यादसिद्धौ वा ? ।
प्रथमपक्षे तत्पक्षसि791द्धेरेवास्य निग्रहो न त्व792तो निग्रहस्थानात् । द्वितीयपक्षेऽप्यतो न
निग्रहः, पक्षसिद्धेरुभयोरप्यभावादिति ६ ।
अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति ।
यथा अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदिति । एतदपि सर्वथार्थ
शून्यत्वान्निग्रहाय कल्पेत, साध्यानुपयोगाद्वा ? । तत्राद्यविकल्पोऽयुक्तः, सर्वथार्थशून्य
शब्दस्यैवासम्भवात्, वर्णक्रमनिर्देशस्याप्यनुकार्येणार्थेनार्थवत्त्वोपपत्तेः । द्वितीयविकल्पे
तु सर्वमेव निग्रहस्थानं निरर्थकं स्यात् साध्यसिद्धावनुपयोगित्वाविशेषात् । किञ्चि
द्विशेषमात्रेण 793भेदे वा खाट्कृत-हस्तास्फालन-कक्षापिट्टितादेरपि साध्यानुपयोगिनो निग्रह
स्थानान्तरत्वानुषङ्ग इति ७ ।
यत् साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि परिषत्प्रतिवादिभ्यां बोद्धुं
न शक्यते तत् अविज्ञातार्थं नाम निग्रहस्थानं भवति । अत्रेदमुच्यते--वादिना त्रिरभि
हितमपि वाक्यं परिषत्प्रतिवादिभ्यां मन्दमतित्वादविज्ञातम्, गूढा794भिधानतो वा, द्रुतोच्चा
राद्वा ? । प्रथमपक्षे सत्साधनवादिनोऽप्येतन्निग्रहस्थानं स्यात्, तत्रा795प्यनयोर्मन्दमतित्वेना
विज्ञातत्वसम्भवात् । द्वितीयपक्षे तु पत्रवाक्यप्रयोगेऽपि त796त्प्रसङ्गः, गू797ढाभिधानतया
परिषत्प्रतिवादिनोर्महाप्राज्ञयोरप्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येत798त् वादी
व्याचष्टे; गूढोपन्यास799मप्यात्मनः स एव व्याचष्टाम्, अव्याख्याने तु जयाभाव एवास्य,
न पुनर्निग्रहः, परस्य पक्षसिद्धेरभावात् । द्रुतोच्चारेप्यनयोः कथञ्चित् ज्ञानं सम्भवत्येव,
सि800द्धान्तद्वयवेदित्वात् । साध्या801नुपयोगिनि तु वादिनः प्रलापमात्रे त803योरविज्ञा805नं नावि
ज्ञातार्थं वर्णक्रमनिर्देशवत् । ततो नेदमविज्ञातार्थं निरर्थकाद्भिद्यत इति ८ ।
पूर्वापरासङ्गतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं
भवति । यथा दश दाडिमानि षडपूपा इत्यादि । एतदपि निरर्थकान्न भिद्यते । यथैव
हि गजडदबादौ वर्णानां नैरर्थक्यं तथा806त्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्ण
नैरर्थक्यादन्यत्वान्निग्रहस्थानान्तरं तर्हि वाक्यनैरर्थक्यस्याप्याभ्या807मन्यत्वान्निग्रहस्थाना
न्तरत्वं स्यात् पदवत्पौर्वापर्येणाऽप्रयुज्यमानानां वाक्यानामप्यनेकधोपलभ्यात्-
इत्यादिवत् ।
यदि पुनः पद808नैरर्थक्यमेव वाक्यनैरर्थक्यं पदसमुदायात्मकत्वात् तस्य;
तर्हि वर्णनैरर्थक्यमेव पदनैरर्थक्यं स्यात् वर्णसमुदायात्मकत्वात् तस्य । वर्णानां सर्वत्र निर
र्थकत्वात् पदस्यापि तत्प्रसङ्गश्चेत्; तर्हि पदस्यापि निरर्थकत्वात् तत्समुदायात्मनो वाक्य
स्यापि नैरर्थक्यानुषङ्गः । पदस्यार्थवत्त्वेन810 पदार्थापेक्ष811या; वर्णार्थापेक्षया वर्ण
स्यापि तद812स्तु प्रकृतिप्रत्ययादिवत्; न खलु प्रकृतिः केवला पदं प्रत्ययो वा । नाप्यन813योर
नर्थकत्वम् । अभिव्यक्तार्थाभावादनर्थकत्वे; पदस्यापि तत् स्यात् । यथैव हि प्रकृत्यर्थः
प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या तयोः केवलयोरप्रयोगात् तथा देवदत्तस्तिष्ठती
त्यादिप्रयोगेस्याद्यन्तपदार्थस्य त्याद्यन्तपदार्थस्य च814 स्त्याद्यन्तपदेनाभिव्यक्तेः केवलस्या
प्रयोगः । पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य
च प्रकृत्यादिवर्णस्य समानमिति ९ ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लङ्घ्यावयवविपर्यासेन प्रयुज्य
मानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने
परार्थानुमाने क्रमस्याप्यङ्गत्वात् । एतदप्यपेशलम्, प्रेक्षावतां प्रतिपत्तॄणामवयवक्रमनियमं
विनाप्यर्थप्रतिपत्त्युपलम्भात् । ननु य815थापशब्दाच्छ्रुताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति
शब्दादेवार्थप्रत्ययः परम्परया तथा प्रतिज्ञाद्यवयवव्युत्क्रमात् तत्क्रमस्मरणं ततो वाक्या
र्थप्रत्ययो न पुनस्तद्व्युत्क्रमात्; इत्यप्यसारम्, एवंविधप्रतीत्यभावात् । यस्माद्धि शब्दा
दुच्चरितात् यत्रार्थे प्रतीतिः स एव तस्य वाचको नान्यः, अन्यथा शब्दात्तत्क्रमाच्चापशब्दे
तद्व्यतिक्रमे च स्मरणं ततोऽर्थप्रतीतिरित्यपि वक्तुं शक्येत । एवं शब्दान्वाख्यानवै
यर्थ्यमिति चेत्; नैवम्, वा816दिनोऽनिष्टमात्रापादनात् अपशब्देऽपि चान्वाख्या
नस्योपलम्भात् । संस्कृताच्छब्दात्स817त्यात् धर्मोऽन्यस्मादधर्म इति नियमे चान्यधर्मा
धर्मोपायानुष्ठानवैयर्थ्यं धर्माधर्मयोश्चाप्रतिनियमप्रसङ्गः, अ818धार्मिके च धार्मिके च तच्छ
ब्दोपलम्भात् । भवतु वा तत्क्रमादर्थप्रतीतिस्तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन
व्युत्क्रम्यते तन्निरर्थकं न त्वप्राप्तकालमिति १० ।
पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं न्यूनं नाम
निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धेरभावात्, प्रतिज्ञादीनां च पञ्चानामपि साध
नत्वात्; इत्यप्यसमीचीनम्, पञ्चावयवप्रयोगमन्तरेणापि साध्यसिद्धेरभिधानात् प्रतिज्ञा
हेतुप्रयोगमन्तरेणैव तत्सिद्धेरभावात् । अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ११ ।
एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा
वदतोऽधिकं नाम निग्रहस्थानं भवति निष्प्रयोजनाभिधानात् । एतदप्ययुक्तम्, तथा
70
विधा819द्वाक्या820त् पक्षसिद्धौ पराजयायोगात् । कथं चैवं प्रमाणसंप्लवोऽभ्युप821गम्यते ? । अभ्युपगमे
वाऽधिकन्निग्रहाय जायेत । प्रतिपत्तिदार्ढ्यसंवादसिद्धिप्रयोजनसद्भावान्न निग्रहः; इत्यन्य
त्रापि समानम्, हेतुनोदाहरणेन चै822केन प्रसाधितेऽप्यर्थे द्वितीयस्य हेतोरुदाहरणस्य वा
नानर्थक्यम्, तत्प्रयोजनसद्भावात् । न चैवमनवस्था, कस्यचित् क्वचिन्निराकाङ्क्षतोपपत्तेः
प्रमाणान्तरवत् । कथं चास्य कृतकत्वादौ स्वार्थिककप्रत्ययस्य वचनम्, यत्कृतकं तद
नित्यमिति व्याप्तौ यत्तद्वच823नम्, वृ824त्तिपदप्रयोगादेव चार्थप्रतिपत्तौ वाक्यप्रयोगः अधिकत्वा
न्निग्रहस्थानं न स्यात् ? । तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तन्नेति चेत्; कथ
मनेकस्य हेतोरुदाहरणस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् ? । निरर्थकस्य तु
वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति १२ ।
शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवत्यन्यत्रानुवादात् ।
शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते । यथा अनित्यः शब्दः अनित्यः शब्द
इति । अर्थपुनरुक्तं825 तु यत्र सोऽर्थः प्रथममन्येन शब्देनोक्तः पुनः पर्यायान्तरेणोच्यते ।
यथा अनित्यः शब्दो विनाशी ध्वनिरिति । अनुवादे तु पौनरु826क्त्यमदोषो यथा-
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् न्यायसू॰ १. १. ३९ इति ।
अत्रार्थपुनरुक्तमेवानुपपन्नं न शब्दपुनरुक्तम्, अर्थभेदेन शब्दसाम्येऽप्यस्या827सम्भवात् यथा-
इत्यादि । ततः स्पष्टार्थवाचकैस्तैरेवान्यैर्वा शब्दैः सभ्याः प्रतिपादनीयाः । तदप्रतिपादक
शब्दानां तु सकृत् पुनः पुनर्वाभिधानं निरर्थकं न तु पुनरुक्तमिति । यदपि अर्था
दापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तमुक्तं यथा असत्सु मेघेषु वृष्टिर्न भवतीत्युक्ते अर्था
दापद्यते सत्सु भवतीति तत् कण्ठेन कथ्यमानं पुनरुक्तं भवति, अर्थगत्यर्थे हि शब्दप्रयोगे
प्रतीतेऽर्थे किं तेनेति ? । एतदपि प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यान्निग्रहस्थानं
नान्यथा । तथा चेदं निरर्थकान्न 829विशिष्येतेति १३ ।
पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणं
नाम निग्रहस्थानं भवति, अप्रत्युच्चारयत्830 किमाश्रयं दूषणमभिदधतीति831 ।
अत्रापि किं सर्वस्य वादिनोक्तस्याननुभाषणम् उत832 यन्नान्तरीयिका साध्यसिद्धिस्तस्येति ? ।
तत्राद्यः पक्षोऽयुक्तः, परोक्तमशेषमप्रत्युच्चारयतोऽपि दूषणवचनाव्याघातात् । यथा सर्वम
नित्यं सत्त्वादित्युक्ते--सत्त्वादित्ययं हेतुर्विरुद्ध इति हेतुमेवोच्चार्य विरुद्धतोद्भाव्यते--क्षण
71
क्षयाद्येकान्ते सर्वथार्थक्रियाविरोधात् सत्त्वानुपपत्तेरिति च समर्थ्यते । ता833वता च परोक्त
हेतोर्दूषणात्किमन्योच्चारणेन ? । अतो यन्नान्तरीयिका साध्यसिद्धिस्तस्यैवाप्रत्युच्चारणमन
नुभाषणं प्रतिपत्तव्यम् । अथैवं दूषयितुमसमर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्वात्;
तदायमुत्तराप्रतिपत्तेरेव तिरस्क्रियते न पुनरननुभाषणादिति १४ ।
पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञानं नाम
निग्रहस्थानं भवति । अविदितोत्तरविषयो हि क्वोत्तरं ब्रूयात् ? । न चाननुभाषणमेवेदम्,
ज्ञातेऽपि वस्तुन्यनुभाषणासामर्थ्यदर्शनात् । एतदप्यसाम्प्रतम्, प्रतिज्ञाहान्यादिनिग्रहस्था
नानां भेदा834भावानुषङ्गात्, तत्राप्यज्ञानस्यैव सम्भवात् । तेषां तत्प्रभेदत्वे वा निग्रहस्थान
प्रतिनियमाभावप्रसङ्गः, परोक्तस्याऽर्धाऽज्ञानादिभेदेन निग्रहस्थानानेकत्वप्रसङ्गात् १५ ।
परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभा नाम निग्रह
स्थानं भवति । एषाप्यज्ञानान्न भिद्यते १६ ।
कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपःन्यायसू॰ ५. २. १९ नाम
निग्रहस्थानं भवति । सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्ति-
इदं मे करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्धः इत्याद्यभिधाय कथां विच्छिन्दन्
विक्षेपेण पराजीयते । एतदप्यज्ञान835तो नार्थान्तरमिति १७ ।
स्वपक्षे परापादितदोषमनुद्धृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुज्ञा
नाम निग्रहस्थानं भवति । चौरो भवान् पुरुषत्वात् प्रसिद्धचौरवदित्युक्ते--भवानपि चोरः
पुरुषत्वादिति ब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया
निगृह्यते । इदमप्यज्ञानान्न भिद्यते । अनैकान्तिकता वात्र हेतोः; स ह्यात्मीयहेतोरा836त्मनैवा
नैकान्तिकतां दृष्ट्वा प्राह--भवत्पक्षेऽप्ययं दोषः समानस्त्वमपि पु837रुषोऽसीत्यनैकान्तिकत्व
मेवोद्भावयतीति १८ ।
निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति । पर्य
नुयोज्यो नाम निग्रहोपपत्त्यावश्यं नोदनीयः इदं ते निग्रहस्थानमुपनतमतो निगृहीतो
ऽसि इत्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते । एतच्च
कस्य निग्रहः इत्यनुयुक्तया परिषदोद्भावनीयं न त्वसावात्मनो दोषं विवृणुयात् अहं
निग्राह्यस्त्वयोपेक्षितः इति । एतदप्यज्ञानान्न भिद्यते १९ ।
अनिग्रहस्थाने निग्रहस्था838नानुयोगो निरनुयोज्यानुयोगः
न्यायसू॰ ५. २. २२ नाम निग्रहस्थानं भवति । उपपन्नवादिनमप्रमादिनमनिग्रहार्हमपि
निगृहीतोऽसि इति यो ब्रूयात्स एवाभूतदोषोद्भावनान्निगृह्यते । एतदपि नाज्ञानाद्व्यति
रिच्यते २० ।
सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तःन्यायसू॰ ५.
२. २३ नाम निग्रहस्थानं भवति । यः प्रथमं कञ्चित् सिद्धान्तमभ्युपगम्य कथामुप
क्रमते । तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भाय वा सिद्धान्तविरुद्धमभिधत्ते
सोऽपसिद्धान्तेन निगृह्यते । एतदपि प्रतिवादिनः प्रतिपक्षसाधने सत्येव निग्रहस्थानं
नान्यथेति २१ ।
हेत्वाभासाश्च यथोक्ताःन्यायसू॰ ५. २. २४ असिद्धविरुद्धादयो
निग्रहस्थानम् । अत्रापि विरुद्धहेतूद्भावनेन प्रतिपक्षसिद्धेर्निग्रहाधिकरणत्वं युक्तम्, असि
द्धाद्युद्भावने तु प्रतिवादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति २२ ॥ ३४ ॥
तदेवमक्षपादोपदिष्टं पराजयाधिकरणं परीक्ष्य सौगतागमितं839 तत् परीक्ष्यते--
स्वपक्षस्यासिद्धिरेव पराजयो न असाधनाङ्गवचनम् अदोषोद्भावनम्
च । यथाह धर्मकीर्त्तिः-
अत्र हि स्वपक्षं साधयन् असाधयन् वा वादिप्रतिवादिनोरन्यतरोऽसाध
नाङ्गवचनाददोषोद्भावनाद्वा परं निगृह्णाति ? । प्रथमपक्षे स्वपक्षसिद्ध्यैवास्य पराजया
दन्योद्भावनं व्यर्थम् । द्वितीयपक्षे असाधनाङ्गवचनाद्युद्भावनेपि842 न कस्यचिज्जयः, पक्ष
सिद्धेरुभयोरभावात् ।
यच्चास्य व्याख्यानम्--साधनं सिद्धिस्तदङ्गं त्रिरूपं लिङ्गं तस्यावचनम्-
तूष्णीम्भावो यत्किञ्चिद्भाषणं वा, साधनस्य वा त्रिरूपलिङ्गस्याङ्गं समर्थनं
विपक्षे बाधकप्रमाणोपदर्शनरूपं तस्यावचनं वादिनो निग्रहस्थानमिति--तत् पञ्चावयव
प्रयोगवादिनोऽपि समानम् । शक्यं हि तेनाप्येवं वक्तुं सिद्ध्यङ्गस्य पञ्चावयवप्रयोग
स्यावचनात् सौगतस्य वादिनो निग्रहः । ननु चास्य तदवचनेऽपि843 न निग्रहः,
प्रतिज्ञानिगमनयोः प844क्षधर्मोपसंहारसामर्थ्येन गम्यमानत्वात्, गम्यमानयोश्च वचने
पुनरुक्तत्वानुषङ्गात्, तत्प्रयोगेऽपि हेतु845प्रयोगमन्तरेण साध्यार्थाप्रसिद्धेः; इत्यप्यसत्,
पक्षधर्मोपसंहारस्याप्येव846मवचनानुषङ्गात् । अथ सामर्थ्याद्गम्यमानस्यापि यत् सत् तत् सर्वं
क्षणिकं यथा घटः, संश्च शब्द इति पक्षधर्मोपसंहारस्य व847चनं हेतोरपक्ष848धर्मत्वेना
73
सिद्धत्वव्यवच्छेदार्थम्; तर्हि साध्याधारसन्देहापनोदार्थं गम्यमानाया अपि
प्रतिज्ञायाः, प्रतिज्ञाहेतूदाहरणोपनयानामेका849र्थत्वप्रदर्शनार्थं निगमनस्य वचनं किं
न स्यात् ? । नहि प्रतिज्ञादीनामेकार्थत्वोपदर्शनमन्तरेण सङ्गतत्वं घटते, भिन्नविषय
प्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात्, अन्यथा
नास्याः साधनाङ्गतेति चेत्; तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः
स्यात्, अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोर्व्याप्तिप्रदर्शनार्थ
त्वात् नानर्थको दृष्टान्तः, तत्र तदप्रदर्शने हेतोरगमकत्वात्; इत्यप्ययुक्तम्, सर्वानित्यत्व
साधने सत्त्वादेर्दृष्टान्तासम्भवतोऽगमकत्वानुषङ्गात् । विपक्षव्यावृत्त्या सत्त्वादेर्गमकत्वे
वा सर्वत्रापि हेतौ तथैव गमकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एव स्यात् । विपक्षव्यावृत्त्या
च हेतुं समर्थयन् कथं प्रतिज्ञां प्रतिक्षिपेत् ? । तस्याश्चानभिधाने क्व हेतुः साध्यं वा
वर्तते ? । गम्यमाने प्रतिज्ञाविषय एवेति चेत्; तर्हि गम्यमानस्यैव हेतोरपि समर्थनं
स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम्; तथा प्रतिज्ञा
वचने कोऽपरितोषः ? ।
यच्चेदमसाधनाङ्गमित्यस्य व्याख्यानान्तरम्--साधर्म्येण हेतोर्वचने वैधर्म्य
वचनम्, वैधर्म्येण च प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तमतो न साधनाङ्गम्;
इत्यप्यसाम्प्रतम्, यतः सम्यक्साधनसामर्थ्येन स्वपक्षं साधयतो वादिनो निग्रहः
स्यात्, असाधयतो वा ? । प्रथमपक्षे न साध्यसिद्ध्यप्रतिबन्धिवचनाधिक्योपालम्भमात्रे
णास्य निग्रहः, अविरोधात् । नन्वेवं नाटकादिघोषणतोऽप्यस्य निग्रहो न स्यात्; सत्य
मेतत्, स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत्, अन्यथा ताम्बूलभक्षण
भ्रूक्षेप-खाट्कृत-हस्तास्फालनादिभ्योऽपि सत्यसाधनवादिनोऽपि निग्रहः स्यात् । अथ
स्वपक्षमप्रसाधयतोऽस्य ततो निग्रहः; नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिते
वादिनो वचनाधिक्योपालम्भो निग्रहो लक्ष्येत, असाधिते वा ? । प्रथमपक्षे स्वपक्षसिद्ध्यै
वास्य निग्रहाद्वचनाधिक्योद्भावनमनर्थकम्, तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जया
योगात् । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा स्यात्,
स्वपक्षसिद्धेरभावाविशेषात् ।
ननु न स्वपक्षसिद्ध्यसिद्धिनिबन्धनौ जयपराजयौ, तयोर्ज्ञानाज्ञाननिबन्धन
त्वात् । साधनवादिना हि साधुसाधनं ज्ञात्वा वक्तव्यम्, दूषणवादिना च दूषणम् । तत्र
सा850धर्म्यवचनाद्वैधर्म्यवचनाद्वाऽर्थस्य प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभा
यामसाधनाङ्गवचनस्योद्भावनात् साधुसाधनाज्ञानसिद्धेः पराजयः । प्रतिवादिनस्तु तद्दू
षणज्ञाननिर्णयाज्जयः स्यात्; इत्यप्यविचारितरमणीयम्, यतः स प्रतिवादी सत्साधन
वादिनः साधनाभासवादिनो वा वचनाधिक्यदोषमुद्भावयेत् ? । तत्राद्यपक्षे वादिनः कथं
साधुसाधनाज्ञानम्, तद्वचनेयत्ताज्ञानस्यैवाभावात् ? । द्वितीयपक्षे तु न प्रतिवादिनो
दूषणज्ञानमवतिष्ठते साधनाभासस्यानुद्भावनात् । त851द्वचनाधिक्यदोषस्य ज्ञानात् दूषणज्ञो
74
ऽसाविति चेत्; साधनाभासाज्ञानाददूषणज्ञोऽपीति नैका852न्ततो वादिनं जयेत्, तददोषो
द्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः । अथ वचनाधिक्यदोषोद्भावनादेव
प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम्; नन्वेवं साधनाभासानुद्भावना
त्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्पेत ? । अथ वचनाधिक्यं
साधनाभा853सं वोद्भावयतः प्रतिवादिनो ज854यः; कथमेवं साधर्म्यवचने वैधर्म्यवचनं
वैधर्म्यवचने वा साधर्म्यवचनं पराजयाय प्रभवेत् ? । कथं चैवं वादिप्रतिवादिनोः पक्षप्रति
पक्षपरिग्रहवैयर्थ्यं न स्यात्, क्वचिदेकत्रापि पक्षे साधनसामर्थ्यज्ञानाज्ञानयोः सम्भवात् ?
न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य वा परीक्षायामेकस्य साधनसामर्थ्ये ज्ञानमन्यस्य
चाज्ञानं जयस्य पराजयस्य855 वा निबन्धनं न भवति । युगपत्साधनासामर्थ्यज्ञाने च
वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यादविशेषात् ? । न कस्यचिदिति चेत्; तर्हि
साधनवादिनो वचनाधिक्यकारिणः साधनसामर्थ्याज्ञानसिद्धेः प्रतिवादिनश्च वचना
धिक्यदोषोद्भावनात्तद्दोषमा856त्रज्ञानसिद्धेर्न कस्यचिज्जयः पराजयो वा स्यात् । नहि यो
यद्दोषं वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्तौ वेदनेऽपि 857विषद्रव्यस्य कुष्ठापनयन
शक्तौ संवेदनानुदयात् । तन्न तत्सामर्थ्यज्ञानाज्ञाननिबन्धनौ जयपराजयौ व्यवस्थाप
यितुं शक्यौ, यथोक्तदोषानुषङ्गात् । स्वपक्षसिद्ध्यसिद्धिनिबन्धनौ तु तौ निरवद्यौ पक्ष
प्रतिपक्षपरिग्रहवैयर्थ्याभावात् । कस्यचित् कुतश्चित् स्वपक्षसिद्धौ858 सुनिश्चितायां परस्य
तत्सिद्ध्यभावतः सकृज्जयपराजयप्रसङ्गात् ।
यच्चेदमदोषोद्भावनमित्यस्य व्याख्यानम्--प्रसज्यप्रतिषेधे दोषोद्भावनाभाव
मात्रम्-अदोषोद्भावनम्, पर्युदासे तु दोषाभासानामन्यदोषाणां चोद्भावनं प्रतिवादिनो निग्रह
स्थानमिति--तत् वादिनाऽदोषवति साधने प्रयुक्ते सत्यनुमतमेव यदि वादी स्वपक्षं साध
येन्नान्यथा । वचनाधिक्यं तु दोषः प्रागेव प्रतिविहितः । यथैव हि पञ्चावयवप्रयोगे
वचनाधिक्यं859 निग्रहस्थानं तथा त्र्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् । प्रतिज्ञा
दीनि हि पञ्चाप्यनुमाना860ङ्गम्--प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः
न्यायसू॰ १. १. ३२ इत्यभिधानात् । तेषां मध्येऽन्यतमस्याप्यनभिधाने न्यूनताख्यो दोषो
ऽनुषज्यत एव हीनमन्यतमेनापि न्यूनम् न्यायसू॰ ५. २. १२ इति वचनात् ।
ततो जयेतरव्यवस्थायां नान्यन्निमित्तमुक्तान्निमित्तादित्यलं प्रसङ्गेन ॥ ३५ ॥
अयं च प्रागुक्तश्चतुरङ्गो वादः कदाचित्पत्रालम्बनमप्यपेक्षतेऽतस्तल्लक्षण
मत्रावश्याभिधातव्यं यतो नाविज्ञातस्वरूपस्यास्यावलम्बनं जयाय प्रभवति न चावि
ज्ञातस्वरूपं परपत्रं भेत्तुं शक्यमित्याह861--
-
प्रथमं द्वितीयं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते ।
↩ -
यथा उक्तम् ।
↩ -
अनुमानशब्दवाच्यताम् ।
↩ -
मुख्यार्थस्योपचारः ।
↩ -
--॰शब्दः समा--॰डे॰ ।
↩ -
अग्निर्माणवक इव
↩
इत्यत्र मुख्यार्थो दाहकत्वम्, वर्जनीयत्वबुद्धिः प्रयोजनम्, शाब्दप्रवृत्तौ निमित्तमुपतापकत्वम् । -
परार्थानुमाने ।
↩ -
पूर्वोक्त॰ ।
↩ -
प्रवृत्तौ ।
↩ -
अग्निमत्त्वे सत्येव ।
↩ -
--॰क इति ॰--डे॰ ।
↩ -
डे॰ प्रतौ न नास्ति ।
↩ -
यः शब्दस्य परार्थस्तत् ता
↩
त्पर्यमिति भावः । -
यः परः प्रकृष्टोऽर्थोऽस्य ।
↩ -
शब्दस्यार्थः--ता॰ ।
↩ -
- ?↩
यस्तथोपपत्त्या विधिर्वाच्यः
अन्यथानुपपत्त्या तु निषेधः ।↩ - ?↩
-
निति580
- ?↩
शेषः ।↩ - ?↩
-
सूत्रार्थस्य ।
↩ -
क्वचिदर्थं--ता॰ ।
↩ -
प्रतिज्ञामात्राद
↩
र्थप्रतिपत्तेः । -
विषयप्रद॰--ता--मू॰ ।
↩ -
स्वसाध॰--डे॰ ।
↩ -
भैक्षान्नम् ।
↩ -
--॰पानमा॰--डे॰ ।
↩ -
करोमि ।
↩ -
पिण्डपानार्थम् ।
↩ -
--॰ति ब्रुवा॰--ता॰ ।
↩ -
निन्दन् ।
↩ -
शब्दलक्षणम् ।
↩ -
प्रतिपाद्यस्य ।
↩ -
प्रथमतः ।
↩ -
असावधानः ।
↩ -
वचनात् ।
↩ -
--॰ऽर्थे नि॰--डे॰ ।
↩ -
अर्थनिश्चयात् ।
↩ -
प्रमाणीकृतो वादी यकाभ्याम् ।
↩ -
वादि॰ ।
↩ -
प्रमाणीकृतवादित्वेऽपि सति ।
↩ -
पर्षत्प्रतिवादिनौ ।
↩ -
तच्छब्देन वादी ।
↩ -
तद्वचना॰--ता॰ ।
↩ -
सामर्थ्यात् ।
↩ -
डिण्डिको नाम
↩
रक्तवर्णो मूषकविशेषः । तद्वत् रागं रक्तिमानं नेत्रगतां परित्यज्य नेत्रे विमलीकृत्येत्यर्थः--मु--टि॰ । डिण्डिका
हि प्रथमनामलिखने विवादं कुर्वन्ति । -
निर्मील्य--डे॰ ।
↩ -
--॰यता मदुक्तेन प्र॰--डे॰ ।
↩ -
अनित्यत्वस्य ।
↩ -
प्रतीतिभावे ।
↩ -
सिषाधयिषितधर्मविशिष्टस्य धर्मिणः ।
↩ -
तथाहि--डे॰ ।
↩ -
सामान्यतः साधनधर्माधारावव614
- ग↩
तिः ।↩ - ग↩
-
--॰ज्ञानवच॰--डे॰ ।
↩ -
यदाहुः--डे॰ ।
↩ -
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते ।
↩ -
परे बोध॰--डे॰ ।
↩ -
परेषाम् ।
↩ - ↩
-
--॰वान् प्रयो॰--ता॰ ।
↩ -
तदन्तसा॰--डे॰ ।
↩ -
अव्याप्तस्य हेतोर्वचनं तस्य हेतुत्वम् ।
↩ -
--॰चने हे॰--डे॰ ।
↩ -
विस्तृतस्य ।
↩ -
विप्रसृतस्य--डे॰ ।
↩ -
प्रस्तुते धर्मिणि ढौक्यते साधनधर्मः ।
↩ -
उपसंहारव्य629
- व्यु↩
त्पत्तिरुपनयव्यु
त्पत्तिः ।↩ - व्यु↩
-
निश्चीयते ।
↩ -
प्रयोजनम् ।
↩ -
सा633
- ना↩
न्तरीयकोऽविनाभावी साधनलक्षणोऽर्थः ।↩ - ना↩
-
--॰कत्वं
↩
प्रति॰--डे॰ । -
शङ्किताः सन्दिग्धाः समारोपिताश्च दोषा एषाम् ।
↩ -
समर्थाः ।
↩ -
तत्तत्प॰--डे॰ ।
↩ -
--॰क्तं तल्ल॰--डे॰ ।
↩ -
--॰भासः परो॰--मु॰ ।
↩ -
ईषत्करा सुकरा प्रतीतिर्यस्य ।
↩ -
पूर्वाचार्य॰ ।
↩ -
कालमतीतोऽतिकान्तः ।
↩ -
--॰धितधर्मिनि॰--डे॰ ।
↩ -
--॰षिते चानु॰--ता॰ ।
↩ -
॰दी चैवं॰--डे॰ ।
↩ -
॰स्यासिद्धावपि सिद्धो हे॰--ता॰ ।
↩ -
पक्षधर्मतां विनाप्यन्यथानु
↩
पपन्नत्वेनैव हेतुर्भवति । यथा पर्वतस्योपरि वृष्टो मेघो नदीपूरान्यथानुपपत्तेरित्यादावित्याशङ्क्याह । -
अयं
↩
पुत्रो ब्राह्मणः पित्रोर्ब्राह्मणत्वादिति पुत्रे ब्राह्मणताया अनुमानम् । -
यथा वात्म॰--डे ।
↩ -
आत्मा सर्वगतः सर्वत्रोपलभ्यमानगुणत्वात् ।
↩ -
--॰गुणत्वं सन्दिग्धम् ।
↩ -
--॰न्ताच्च । चेत॰--डे॰ ।
↩ -
न केवलं स्वरूपासिद्धो ।
↩ -
आहिताग्न्यादिषु हैमश ३. १. १५३
↩ -
आत्मा व्यवच्छिन्नः ।
↩ -
भागे एकदेशे असिद्धः प्रयत्नानन्तरीयकत्वस्य गर्जिते अभावात् ।
↩ -
सामान्यं
↩
व्यवच्छिन्नम् । -
नैयायिकस्य ।
↩ -
ननु सामान्यवत्त्वे सतीति विशेषणं प्रध्वंसाभावव्यवच्छेदार्थं भविष्य
↩
तीति, नैवम्, बौद्धमीमांसकौ वादिप्रतिवादिनौ स्तस्तयोश्च मतेऽभाव एव नास्तीति । -
दृषदादिव्यवच्छेदाय
↩
पुरुषत्वे सतीत्युक्तम् । -
साध्यं विनैवोपपद्यमानो विपरीतनियमत्वात् ।
↩ -
साध्याविनाभावलक्षणात् ।
↩ -
साध्यविरुद्धेनाविनाभावात् ।
↩ -
आत्मार्थाः ।
↩ -
--॰नासना॰--डे॰ ।
↩ -
सङ्घातत्वम् ।
↩ -
संहतपरार्थस्यैव साधकत्वादस्य ।
↩ -
कार्यत्वं हि पक्षे शब्दे विपक्षे चानित्ये घटादौ
↩
दृष्टम् । -
अनित्येषु घटादिषु हेतुरस्ति द्व्यणुकादिषु सुखदुःखादिषु नास्ति इति ।
↩ -
परमाणुरूपायां
↩
पृथिव्यां कृतकत्वं नास्ति कार्यरूपायां अस्ति इति पक्षैकदेशवृत्तिता । -
देशशब्दो672
- दे↩
ऽप्रयत्नानन्तरी
यकविद्युति प्रयत्नानन्तरीयकत्वं नास्ति इति पक्षैकदेशः ।↩ - दे↩
-
शब्दमन्तरेणान्यस्य विशेषगुणस्या
↩
ऽसम्भवात् सपक्षाभावः । -
संयोगादयः सामान्यगुणाः । आकाशसंयोगादिषु बाह्येन्द्रियग्राह्यत्व
↩
मस्ति न महत्त्वादिषु । -
मेघादिध्वनीनामपदात्मकत्वमिति पक्षैकदेशवृत्तिता, संयोगादिषु अपदात्मकतैव ।
↩ -
विपक्षे संयोगादौ प्रयत्नानन्तरीयकत्वमस्ति महत्त्वे तु नास्ति ।
↩ -
पक्षैकदेशे विद्यमानत्वात् ।
↩ -
--॰ता
↩
वेत्यु॰--ता॰ । -
--॰मादेश --ता॰ ।
↩ -
न केवलं साध्ये सति साध्यं विनाऽषित्पापरर्थः681
- वि नापि इत्यपेरर्थः↩
↩ - वि नापि इत्यपेरर्थः↩
-
साध्येन सह ।
↩ -
प्रमाणपरिच्छेद्यत्वात् ।
↩ -
अश्वादौ विषाणित्वं नास्ति महिषादौ त्वस्ति इति विपक्षैकदेशवृत्तित्वम् ।
↩ -
शृङ्गवत्त्वात् ।
↩ -
अजं दृष्ट्वा
↩
वक्ति । महिषादावस्ति अश्वादौ तु नास्ति । -
द्व्यणुकादि न प्रत्यक्षं घटादिकं तु प्रत्यक्षम् ।
↩ -
नित्यं सामान्यं
↩
प्रत्यक्षमाकाशं तु न । -
आत्माकाशौ सुखशब्दादिक्षणिकविशेषगुणयुक्तौ, विपक्षाः पृथिव्यादयः । भुवो
↩
गन्धः अपां स्नेहोऽक्षणिकविशेषगुणौ । -
आकाशोऽमूर्तः पृथिवी मूर्ता ।
↩ -
परमाणुरूपा पृथिवी न प्रत्यक्षा
↩
कार्यरूपा तु प्रत्यक्षेति पक्षैकदेशः, अप्तेजोद्व्यणुकेषु सपक्षेषु प्रत्यक्षत्वाभावः, नित्येषु सामान्यादिषु
प्रत्यक्षत्वम्, खे तु न । -
त्रयोऽपि सा॰--मु--पा॰ ।
↩ -
--॰धर्मत्वकि॰--डे॰ ।
↩ -
साध्ययोः ।
↩ -
यथासंख्येन ।
↩ -
यो यो रागी न भवति स स वक्तापि न भवति । रथ्यानरे
↩
केनाऽपि प्रकारेण मूर्तत्वादिना वचनाभावे निश्चिते रागित्वं सन्दिह्यते । -
मरणापवादिनं साङ्ख्यं प्रति जैनो
↩
वक्ति । -
प्रयोगेषु ।
↩ -
--॰भावो वि॰--डे॰ ।
↩ -
--॰न्वये वि॰--ता॰ ।
↩ -
कथयति ।
↩ -
--॰पर्यय इ॰--डे॰ ।
↩ -
व्याप्तिग्राहकस्य ऊहाख्यस्य ।
↩ -
यत् यत् कृतकम् ।
↩ -
यत्कृतकं तत्सर्वम् ।
↩ -
यत् कृतकं
↩
तदनित्यमेव । -
अन्वयव्यतिरेकयोः ।
↩ -
--॰कलसन्दि॰--डे॰ ।
↩ -
तादात्म्यतदुत्पत्तिलक्षणसम्बन्धाभावेन
↩ -
भूतादोष॰--डे॰ ।
↩ -
संज्ञाशब्दोऽयम् ।
↩ -
--॰कार्यसरूप॰--ता॰ ।
↩ -
जैनः उत्तरं ब्रूते निरवयवत्वं पक्षासिद्धं साधनविकलश्च दृष्टान्तः, ज्ञानेनानैकान्तिकोऽपि ।
↩ -
अत्रापि ज्ञानेनानैकान्तिकः ।
↩ -
साध्यधर्मदृष्टान्तधर्मयोर्वैधर्म्यमापादयन् ।
↩ -
वर्ण्येन साध्यधर्मेण
↩
दृष्टान्तस्यावर्ण्यभूतस्य समताख्यापने न दृष्टान्तत्वं स्यादिति वर्ण्यसमा जातिः । -
अवर्ण्यरूपदृष्टान्तावष्टम्मेन
↩
साधनस्याऽवर्ण्यरूपत्वमायातमित्यवर्ण्यसमा जातिः । -
यादृक् च घ॰--मु--पा॰ ।
↩ -
तथैवानि॰--डे॰ ।
↩ -
जैनं प्रति दृष्टान्तः साध्यविकलस्तेन हि शब्दत्वस्य नित्यानित्यत्वस्याभ्युपेतत्वात्
↩
व्याप्तिरप्यसिद्धा । -
उद्भावनं प्र॰--ता॰ ।
↩ -
तस्मिन् पूर्वं सिद्धे--डे॰ ।
↩ -
--॰द्भावनं प्र॰--डे॰ ।
↩ -
अत्र
↩
पूर्वोक्तमेवोत्तरम् । -
--॰त्येवावर॰--डे॰ ।
↩ -
चेत् आ॰--डे॰ ।
↩ -
अत्रोत्तरम्--प्रत्ययभेदभेदित्वात् अ728
- ?↩
प्रयत्नानन्तरीयकत्वं विवक्षितशब्दस्य सिद्धमेव द्रव्यत्व729- ?↩
प्रयत्नेन शब्दो विवक्षितो जन्यत एव न तु व्यज्यते ।↩ - ?↩
- ?↩
-
--॰त्यैव न तथा॰ --डे॰ ।
↩ -
विनश्वरस्वभावायामनित्यतायां नित्यानित्यत्वविकल्पना न घटत एव
↩
अन्यथा कृतकत्वस्याऽपि कृतकत्वं पृच्छ्यताम् । -
जैनं प्रति733
- ?↩
साध्यता नैयायिकं प्रत्यनित्यत्वस्य शब्दकृतकत्वेन
व्याप्तिर्दृष्टा व्यभिचारात्734- ?↩
।↩ - ?↩
- ?↩
-
--॰क्षणहेतुपरी॰--डे॰ ।
↩ -
--॰मेव च ।--डे॰ ।
↩ -
--॰प्रेतादर्थान्तर॰--डे॰ ।
↩ -
--॰षणे तयोर्वा--॰डे॰ ।
↩ -
इत्येवंत्वल॰--डे॰ ।
↩ -
--॰हीना वि॰--डे॰ ।
↩ -
प्रयोजनम्प्रयोनम्हैमश॰ ६. ४. ११७ इतीकण् ।
↩ -
--॰कोऽपि स्व॰--ता॰ ।
↩ -
प्रत्यपि ।
↩ -
यच्च तत् किञ्चिच्च तस्य वादः ।
↩ -
तृणविशेष॰ ।
↩ -
अनुसारीणि ।
↩ -
छलादीन् विना ।
↩ -
तस्य
↩
प्रतिवादिनो जये । -
चेत् अस्या॰--ता॰ ।
↩ -
परिहारोद्भावनाभ्यां समस्ताभ्यां न व्यस्ताभ्याम् इति चार्थः ।
↩ -
विरुद्धहे॰--डे॰ ।
↩ -
त्रयस्त्रिंशत्तमं चतुस्त्रिंशत्तमं च सूत्रद्वयं सहैव लिखितं सं-मू॰ प्रतौ ।
↩ -
--॰न्धादि । अ॰--डे॰ ।
↩ -
--॰रूपप॰--डे॰ ।
↩ -
देशताडनादि ।
↩ -
परो--डे॰ ।
↩ -
आरभमाणः ।
↩ -
प्रतिदृष्टान्तस्य सामान्यस्य धर्मो नित्यत्वम् ।
↩ -
--॰धर्माभ्यनुज्ञा--मु॰ ।
↩ -
वात्स्यायनम् ।
↩ -
वात्स्यायनभाष्ये तु--साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्मं
↩
स्वदृष्टान्तेऽभ्यनुजानन्प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनम्--ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृतेऽपर
आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्द इति प्रत्यवस्थिते इदमाह--यद्यैन्द्रियकं सामान्यं नित्यं
कामं घटो नित्योस्त्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं जहाति । पक्षं
जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति ।--न्यायभा॰ ५. २. २-मु-टि॰ । -
प्रतिवादिना पर्यनुयोजितः ।
↩ -
वादी ।
↩ -
--॰युक्तस्य हेतो॰--डे॰ ।
↩ -
अनैकान्तिकत्वेन ।
↩ - ↩
-
अभ्युपगतं
↩
पक्षम् । -
तस्याः प्रतिज्ञाहानेः ।
↩ -
दृष्टान्ते ।
↩ -
--॰न्तसाधुत्वे॰--ता॰ ।
↩ -
न्यायवार्तिके तु--दृष्टश्चा
↩
सावन्ते व्यवस्थित इति दृष्टान्तः स्वश्चासौ दृष्टान्तश्चेति स्वदृष्टान्तशब्देन पक्ष एवाभिधीयते ।
प्रतिदृष्टान्तशब्देन च प्रतिपक्षः प्रतिपक्षश्चासौ दृष्टान्तश्चेति । एतदुक्तं भवति । परपक्षस्य यो धर्मस्तं
स्वपक्ष एवानुजानातीति यथा अनित्यः शब्दः ऐन्द्रियकत्वादिति द्वितीयपक्षवादिनि सामान्येन प्रत्यवस्थिते
इदमाह--यदि सामान्यमैन्द्रियकं नित्यं दृष्टमिति शब्दोऽप्येवं भवत्विति ।--न्यायवा॰ ५. २. २--मु--टि॰ । -
अन्तो निगमनम् तत्र च स्थितः एकः पक्षः प्रतिज्ञायाः पुनर्वचनम् ।
↩ -
दृष्टान्तः स पक्षः प्रतिदृष्टान्तः--डे॰ ।
↩ -
निमित्तत्वात्--डे॰ ।
↩ -
--॰कारणत्वो॰--डे॰ ।
↩ -
पूर्वं प्रति॰--डे॰ ।
↩ -
--॰त्ततोप॰--डे॰ ।
↩ -
यदा प्रतिवादिना अकृतेऽपि प्रतिज्ञातार्थप्रतिषेधे
आशङ्क्य779- यै↩
वोच्यतेऽसर्वगतस्तु शब्द इति तदा अन्यनिमित्तकत्वं प्रतिज्ञान्तरस्य ।↩ - यै↩
-
--॰वशात्तच्छब्दो॰--डे॰ ।
↩ -
--॰नुष्वङ्गः--डे॰ ।
↩ -
इति प्रति॰--डे॰ ।
↩ -
--॰न्यव्य॰--ता॰ ।
↩ -
इति हेत्वन्तरम् ।
↩ -
प्रकृतार्थादर्था
↩
न्तरम्--डे॰ । -
पदं नाम--ता॰ ।
↩ -
प्रत्ययनामा॰--डे॰ ।
↩ -
पक्षान्तरम् 789
- ?↩
अर्थान्तरम् ।↩ - ?↩
-
--॰सिद्धिरेव--डे॰ ।
↩ -
अर्थान्तरात् ।
↩ -
भेदेन खाट्॰--डे॰
↩
भेदे वा षट्कृत--मु--पा॰ । -
गूढानां शब्दानामभिधानम् ।
↩ -
सत्साधनेपि ।
↩ -
अविज्ञातत्वप्रसङ्गः ।
↩ -
प्रहेलिकादिकम् ।
↩ -
पत्रवाक्यम् ।
↩ -
साध्यवाक्यम् ।
↩ -
सिद्धान्तवेदि॰--डे॰ ।
↩ -
अथ निग्रहवादी
एवं ब्रूयात् वादिनः प्रलापमात्रम् अविज्ञातस्य लक्षणम् इत्याशङ्कायामाह 801- ?↩
।↩ - ?↩
-
कर्तरि षष्ठी न 803
- ?↩
।↩ - ?↩
-
--॰ज्ञातं ना॰--ता॰ ।
↩ -
साध्यानुपयोगित्वात् ।
↩ -
वर्णपदनैरर्थक्याभ्याम् ।
↩ -
दश दाडिमानि षडपूपा इत्यत्र तु पदानामेव नैरर्थक्यम् न वाक्यस्य क्रियाया अश्रावणत्वात्
808- अश्रवणात्↩
।↩ - अश्रवणात्↩
- वत्त्वे च↩
-
--॰क्षया तस्यापि--डे॰ ।
↩ -
अर्थवत्त्वम् ।
↩ -
प्रकृतिप्रत्यययोः ।
↩ -
च स्तूपद्यन्त॰--ता॰ ।
↩ -
यथापि शब्दा॰--डे॰ ।
↩ -
क्रमवादिनः ।
↩ -
सत्याधर्मो--डे॰ ।
↩ -
अधार्मिके धार्मि॰--डे॰ ।
↩ -
--॰विधाद्वा वाक्या॰--ता॰ ।
↩ -
हेत्वन्तरयुक्तात् ।
↩ -
--॰पगम्यते वाधिकान्नि॰--डे॰ ।
↩ - वै↩
-
--॰चनवृ॰--डे॰ ।
↩ -
कृतकानित्यमिति वृत्तिपदम् ।
↩ -
--॰क्तं यत्र॰--डे॰ ।
↩ -
--॰रुक्तम॰ डे॰ ।
↩ -
--॰ स्य सम्भ॰--डे॰ ।
↩ -
दोषोपेतम्--डे॰ ।
↩ -
विशेष्ये॰--डे॰ ।
↩ - न्↩
- ॰दधीतेति↩
- ↩
-
तावता परो॰--डे॰ ।
↩ -
भेदमा॰--डे॰ ।
↩ -
--॰नतो न भिद्यते । स्व॰--मु--पा॰ ।
↩ -
--॰रा
↩
त्मीयेनैव--डे॰ । -
पुरुषो भवसी॰--डे॰ ।
↩ -
--॰स्थानाभियो॰--मु--पा॰ ।
↩ -
--॰मितं परी॰--ता॰ ।
↩ -
नासाध॰--ता--मू॰ ।
↩ -
इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमी
↩
मांसायां द्वितीयस्याध्यायस्य कियन्ति सूत्राणि ॥ श्रीवामातनयाय नमः ॥ शुभं भवतु लेखकपाठकाय
सदा ॥ छ ॥--सं-मू॰ । -
--॰पि कस्य॰--ता॰ ।
↩ -
--॰पि निग्र॰--डे॰ ।
↩ - ↩
-
हेतुना प्रयो॰--ता॰ ।
↩ -
--॰प्येवं वच॰--डे॰ ।
↩ -
वचनहे॰--डे॰ ।
↩ -
--॰क्षधर्मत्वे त्वसि॰--डे॰ ।
↩ -
--॰कार्थप्रतिप्रद॰--मु । ॰कार्थप्रतिज्ञाप्रद॰--डे॰ ।
↩ -
साधर्म्यवचनाद्वार्थस्य--डे॰ ।
↩ -
--॰तदव॰--डे॰ ।
↩ -
नैकान्ततो जयेत्--डे॰ ।
↩ -
--॰भासं चोद्भा॰--डे॰ ।
↩ -
जयति कथम्--डे॰ ।
↩ -
--॰स्य निब॰--ता॰ ।
↩ -
--॰मात्रे ज्ञा॰--ता॰ ।
↩ -
विषयद्र॰--ता॰ ।
↩ -
--॰सिद्धो निश्चि॰--डे॰ ।
↩ -
--॰क्यं
↩
यथा नि॰--डे॰ । -
--॰मानं प्र॰--डे॰ ।
↩ -
॥ छ ॥ श्रीः ॥ छ ॥ मङ्गलम् ॥ महाश्रीः ॥ छ ॥ श्री ॥--ता॰ ।
↩
--॰ मित्याहुः । इत्याचार्यश्री ५ श्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च द्वितीयस्याध्यायस्य प्रथमाह्निकं
समाप्तम् ॥ श्री ॥ संवत् १७०७ वर्षे मार्गशीर्षमासे कृष्णतृतीयायां पुण्यतिथौ रविवासरे श्रीअणहिल्लपुरपत्तनमध्ये
पुस्तकं लिखितमिदं ॥ छ ॥ शुभं भवतु ॥ श्रीकल्याणमस्तु ॥ १ ॥ श्री ॥ १ ॥ छ ॥ छ ॥ १ ॥--डे॰ ।