(५) प्रत्यभिज्ञानिरासः
1093ननु विकल्पोपि स्पष्टावभासी प्रत्यभिज्ञानाख्यप्रत्यक्षप्रत्ययः परैरिष्यते । इष्यतां न
तु तथा । तथाहि ।
इन्द्रियविज्ञानस्य पूर्व्वापररूपग्रहणसमर्थस्याभावात्कल्पने च स्पष्टावभासवती प्रत्य
क्षमिति यो मन्यते प्रत्यक्षतया सोपि वारितः । तथाहि । न कल्पना स्पष्टावभासा तस्याः
कुतः प्रत्यक्षता । न स्पष्टावभासित्वेपि प्रमाणता व्यभिचारात् । तथा हि ।
अध्यक्षस्य तत्र बाधितत्वादनध्यक्षता । केन बाध्यतेऽन्तरा विच्छेदेन । इहापि
पूर्व्वापररूपाप्रतिभासनलक्षणो विच्छे(दो)स्त्येव ।
प्रमाणत्वाभावादतो य आह ।
तस्यापि वचनमात्रमेतन्न प्रमाणं प्रत्यभिज्ञेति प्रतिपादनात् । अपि च । न प्रत्यक्ष
मक्षजं प्रत्य (भि) ज्ञा । तथाहि ।
न पूर्व्वानुभवमन्तरेण स्मरणं न स्मरणमन्तरेण स एवायमित्येवं रूपं प्रत्यभिज्ञानं ।
पूर्व्वानुभूतैकत्वग्रहणरूपा हि प्र त्य भि ज्ञे दानीमनुभूयमानस्य । न च स्मरणमन्तरेण पूर्व्व
रूपताग्रहः । न च स्मरणविषयोर्थः प्रत्यक्षगोचरोऽन्यथा सकलमेव पूर्व्वानुभूतं प्रत्यक्षमिति
किमिदमक्षव्यापारेण । अथ कदाचित्पूर्व्वदृष्टं मृतनष्टमपि स्यादत इदानीमक्षव्यापारोपेक्ष्यते ।
यद्येवमक्षव्यापारस्तत्रैवास्तु किन्तद्देशगमनेन । योग्यदेशतां विना नाक्षं समर्थमिति चेत् ।
यद्येवं देशान्तरदृष्ट इह प्रत्यभिज्ञानाभावः । नहि देशान्तरसम्बन्धि रूपं योग्यदेशावस्थायि ।
उभयदेशसम्बन्ध्येकमेव तेन स एव योग्यदेशस्ततोयमदोषः । एवं तर्हि स्मरणमन्तरेणैव
कस्मान्न तथा प्रतीयते । तत्सम्ब धस्यापगमान्न प्रतीतिः । स्मरणेपि तर्हि कथं स एवा
यमिति स्यात् । व्यपगतस्यापि स्मरणमित्यदोषः । न प्रमाणम्प्रत्यभिज्ञा । सम्बन्धोपगतो
न सम्बन्धीति चेत् । तस्य तर्हि पूर्व्वदेशकालसम्बन्धाभावे इदानीन्तनमेव रूपमिति भेद एव
पूर्व्वापरयोः । अतः स एवायमिति प्रतीतिर्न्न भेदः ।
ननु सैव केन प्रतीतिरिति विचार्यमिदमेव । नहि प्रतीतिमात्रं प्रमाणमन्यथा किं
1094 454प्रत्यक्षत्वसाधननिर्ब्बन्धेन । पूर्व्वकालादिसम्बन्धे चाप्रतीयमाने यदि नित्यत्वमुच्यते सर्व्वपदार्था
नामेव नित्त्यता भवेत् तदोत्पत्तिमतामपि ।
यद्यपि तस्य पूर्व्वता नोत्पन्ना तथाप्यस्त्येव । अनुत्पन्ना कथमस्ति विनष्टा कथमस्ती
ति समानं चोद्यम् । न च प्रागभावप्रध्वंसाभावयोर्व्विशेषः । अयमस्ति विशेषः प्रध्वस्तं
स्मर्यते । प्रागभूतमपि सम्भवानुमानेन प्रतीयते । भावितया प्रतीयते न पूर्व्वतया ।
ननु भाविता प्रतीयत इति भाविप्रत्यक्षं भविष्यतीत्यर्थः । तेन तदा नास्ति पश्चाद्
भविष्यतीति । इहापि भूततया प्रतीयते प्रत्यक्षमभूदिति नेदानीमस्तीति (।) भवतु कथमि
दानीमप्यस्ति । इदानीमपि प्रतीतेरिदानीमस्तीति । मध्ये तर्ह्यस्तीति कथं इदानीमेव दर्शनात् ।
नहि पूर्व्वमसदिदानीमुपलभ्यते । न तर्हि प्रत्यक्षमेतत् न चानुमानमपि तस्य पूर्व्वास्तितया
सम्बन्धाग्रहणात् । निरन्तरदर्शने सम्बन्धग्रहणमिति चेत् । न(।) निरन्तरदर्शने प्रमाणाभावात् ।
नहि निरन्तरं मम दर्शनमिति स्मरणादपरं प्रमाणं । इयमेव प्रत्यभिज्ञेति चेत् । न ।
प्रमाणत्वस्य चिन्त्यत्वात् । अविसम्वादात्प्रमाणमिति चेत् । न नित्त्यतायामविसम्वादा
भावात् । तस्मादयमविसम्वादोर्थक्रियामात्रे तादृशा च पदार्थेन तादृशी क्रियतेर्थक्रिया । न
तेनैव । प्रमाणाभावात् । अन्यथा सर्व्वदार्थक्रियासम्बद्ध इति तदैवार्थक्रियानुभूयेत ।
अभावादर्थक्रियाया इति चेत् । कथमिदानीमर्थक्रियासम्बद्धेतरयोर्न भेदः । पश्चात्तत्रैवार्थ
क्रियानुभूयत इति न सङ्गतम् । अनवस्थाप्रसङ्गात् । यतः । तत्रापि परोऽर्थक्रियाऽविसम्वादो
ऽभ्युपगन्तव्यस्तत्राप्यपर इति न व्यवतिष्ठेत । तस्मादप्रमाणमेव प्रत्वभिज्ञेति स्थितमेतत् ।
तस्माद्व्यवहितत्वान्मात्राग्रहणस्य नैरन्तर्याभावान्न दीर्घादिग्रहणं ।
अथ युगपद्विज्ञानसम्भव इष्यते तदप्ययुक्तं । यतः ।
युगपज्ज्ञानानुत्पत्तिर्मनसोलिङ्ग मिति (न्या॰सू॰१।१।१६) वचनात् । न
चार्थावभासि ज्ञानमर्थश्च केवलः प्रतिभासमान उपलभ्यते । स्वसम्विदितरूपतया बाह्य
एव नीलादिप्रतिभास उपलभ्यते । नापरमपि तत्र । अर्थैकाकारतया तयोरनुपलक्षणं ।
यथा सुखतत्सम्वित्त्योः (।)
तदप्यसत् (।) यतः ।
यदि सुखादीनान्तन्मतेश्चैकाकारता तदा तत्राप्यभेद एव । न भेदावभासमन्तरेण
भेदः । सुखसम्वेदनमेव केवलमिति युक्तं तथा नीलादिकमिति च । तस्मात् सुखादिनीलादि
व्यतिरिक्तमपरमिह जगति सम्वेदनं नास्तीति सुखादिवत् स्वसम्वेदनं नीलादिकमपीति युक्त
एष निर्ण्णयः ।
अथ यदि नाम सम्वेदनपरमिह न लक्ष्यते परिस्फुटेन भेदेन । तथापि तदस्त्येव ।
यथाहि रूपादौ नियत आलोकः ।
तदप्यसत् । तथाहि ।
आलोकोपि यदि किमपि भेदग्राहकमस्य नास्ति प्रमाणं नास्त्येव पृथक् । भेदोपलक्षणे
हि सम्वेदनेन चिन्त्येत भेदः । न च तथा (।) तस्मान्न पृथक् सम्वेदनं नीलात् । आलोकस्तु
कदाचित्केवल उपलभ्यते । रूपं वा कैश्चित् । ततश्च यथा केवलं रूपं केवल आलोकः
सालोकं रूपं तथा केवलं विज्ञानं केवलोर्थः समंवेदनोर्थ इति स्यात् । प्रतिभासद्वयं भवेत ।
यथा युगपत्सम्वेदनाभ्युपगमे अर्थार्थप्रतिभासद्वयप्रसङ्ग इति दुरुद्धरो दोषः । तथा
क्रमेणापि । तथाहि (।)
अर्थवेदनं हि वेदनान्तरेण वेद्यमानमर्थवेदनरूपतयैव वेदितव्यम् । तथा द्विरर्थावभासन
प्रसङ्गः । अन्यथा तदर्थस्य वेदनमिति कथं वेदनान्तरं वेदयेत् । तस्मादुत्तरकालमप्यर्थावभासेन
भाव्यं । न चैवं । तथाहि ।
अत्र विचार्यते । किं युगपज्ज्ञानपक्ष एव दोषः किम्वा क्रमज्ञानपक्षे । यदि युगपत् ।
तदस्त । युगपन्न द्वयं सम्वेद्यते नीलाकारः सम्वेदनञ्च । तथा च प्रतिपादितं । अथ क्रमेण
(।) तदापि न सम्वेदनमात्रं पश्चाल्लक्ष्यते । स्मरणेन सनीलस्यैवोपलक्षणात् । तदयमदोषः ।
न दोषः । अयमस्यार्थः । नीलाद्याकार एकः सम्वेदनेन । एकञ्च सम्वेदनं नीलाकारेण ।
न तु नीलाभे सम्वेदने सम्वेदनमपरमर्थव्यतिरिक्तं लक्षयामः । अथवा नीलाद्याकार एक
एकञ्च सम्वेदनं सुखादिरूपं सम्वेदयामो नापरं सुखादिसम्वेदने ग्राहकं तत्राप्यपरमित्यन
न्ताकारसम्वेदनानुभवः ।
इदानीं प्रकृतमेवानुबध्नाति ।
यदि ज्ञानस्य ज्ञानान्तरेणानुभवः । स कथं ज्ञातव्यः । तत्रापि स्मृतिर्दृष्टेति । तद्वेद-
456नन्तर्हि ज्ञानान्तरेणेति तत्रापि स्मृतिरेव प्रमाणम् । तदा चेमां मालां ज्ञानतद्वेदनानां को
हेतुरनुबन्धवतीं जनयेत् ।
पूर्व्व पूर्व्वा बुद्धिरेवोत्तरोत्तरया ग्राह्या न नीलादिको विषय इति तद्ग्रहणन्न स्यादेव । यतः ।
यदि बुद्धिः स्वसम्वेदनरूपासत्यर्थं गृह्णीयात्ततो यथा सन्निहितस्यार्थस्य ग्रहणमिति
विषयसंचारो भवेत् । यदा तु बुद्धिर्बुद्ध्यन्तरेण गृह्यते तदा तां ग्राह्यलक्षणप्राप्तां सतीमगृही
त्त्वोत्तरं ज्ञानं पूर्व्विकां बुद्धिं कथन्नीलादिकं गृह्णीयात् । नहि प्रत्यासन्नमात्मसम्बद्धत्वेन
ग्राह्यं मुक्त्त्वा परग्रहणे सामर्थ्ययोगः । अथ बाह्योर्थः सन्निहितः सविबन्धक इति विषया
न्तरसञ्चारः ।
तदसत् । यतः ।
तथा च स्मरणन्न स्यात् । अथ विबन्धकाभावे भवेत् ।
तदसत्त्यं । यतः ।
अर्थ इत्येव स्मर्येत नानुभूत इति । अथार्थापत्यानुभूतोऽर्थः स्वानुभवं कल्पयेत् ।
तदप्यसत् । अर्थानुभव एव यदा सन्ततो जातस्तद नार्थापत्तिरपि । अर्थापत्तिर्यदा
स्मर्यते तदापरार्थापत्तिरिति सैवानवस्था । तस्मादनुभूतोऽनुभवः स्मर्यते नान्यथा । ततोऽर्थ
कृतव्याघातान्नानुभवो न च स्मरणं । न च सत्तामात्रकादर्थानुभवः । इन्द्रियसम्बन्धात् सोपि
कुतो ज्ञातव्यः । अपरेन्द्रियसम्बन्धादित्यनवस्था ।
अतीतादिविकल्पानां नेन्द्रियसम्बन्धोऽतः कथमनुभूतत्वनिश्चयः । ततोर्थचिन्ता न स्यात् ।
चिन्ताचिन्तानवस्था भवेत् । अथ तत्राप्यर्थ एव देशकालान्यथात्मको भवेत् । तदा तर्हि तेन
सर्व्वदा व्याघातकृता भवितव्यं । तथा च संचारो न भवेदेव । तेनैवापकृतत्वात् ।
इन्द्रियविज्ञाने हि सन्निहित एवार्थो व्याघातकारी । ततः कदाचित् बुद्धितद्वेदनानां प्रबन्धवि
च्छेदो भवेत् कदाचिदन्यथा । चिन्तासन्ताने तु व्यवहिऽतोप्यर्थो विषयत्वात्सर्व्वदा व्याघातकारीति
तत्रार्थ एव वेद्येत न सम्वेदनमिति सम्वेदनस्मरणन्न स्यात् । अथ न व्याघातकारी तथा
सति चिन्ताचिन्तादिसन्तानवेदनमेवार्थचिन्तनमुत्सीदेदेव । अथापि स्यात् । शक्तिरस्ति का
चिद्ययात्मनि ज्ञानं जनयति (।) तस्याः क्षये क्रमेणोपजाते विषयान्तरे भवेत्सञ्चार इति ।
तदप्ययुक्तं । यतः ।
यदि शक्तिविकलापूर्व्वबुद्धिर्बुद्धिग्रहणंप्रति शक्तिविरहे साप्यर्थधीर्व्विषयान्तरसञ्चार
वतीत्वेनाभिमता न भवेत् । तस्मात् ।
नार्थान्तरसञ्चारः । यतः ।
किं कारणं ।
- According to table of contents, this heading could be number 4, in continuation of 3 स्वसंवेदनचिन्ता, if one takes 4 स्वसंवित्तिसिद्धिः as continuing 3 अर्थप्रकशनं विज्ञानरूपेण.↩
-
१ B. ॰त्स निवारितः
↩ -
१ M. ॰सौ द्वौ
↩ -
१ B. पृथक्
↩ -
१ B पुस्तके नास्तीयं कारिका
↩ -
१ T. स्ङर्-ग्यि ब्लो नि नुस्-सद्-न । दोन्-ल ऽफो-व मि-ऽग्युर्-ते । (= पूर्वधीश
↩
क्तिनाशे हि नार्थे संक्रमणं भवेत्)