457

तत्रार्थ एव वेद्येत न सम्वेदनमिति सम्वेदनस्मरणन्न स्यात् । अथ न व्याघातकारी तथा
सति चिन्ताचिन्तादिसन्तानवेदनमेवार्थचिन्तनमुत्सीदेदेव । अथापि स्यात् । शक्तिरस्ति का
चिद्ययात्मनि ज्ञानं जनयति (।) तस्याः क्षये क्रमेणोपजाते विषयान्तरे भवेत्सञ्चार इति ।

तदप्ययुक्तं । यतः ।

आत्मनि ज्ञानजनने शक्तिसंक्षयतः शनैः ।
विषयान्तरसंचारो यदि; सैवार्थधीः कुतः ।। ५२० ।।

यदि शक्तिविकलापूर्व्वबुद्धिर्बुद्धिग्रहणंप्रति शक्तिविरहे साप्यर्थधीर्व्विषयान्तरसञ्चार
वतीत्वेनाभिमता न भवेत् । तस्मात् ।

1098 शक्तिक्षये पूर्वधियः;

नार्थान्तरसञ्चारः । यतः ।

नहि धीः प्राग्धिया विना ।

किं कारणं ।

अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः ।। ५२१ ।।
(आलयविज्ञानम्-)

यदि तु पूर्व्वबुद्धेः कारणत्वं न स्यादर्थान्तरासक्तिवैगुण्येप्युदयो भवेत् बुद्ध्यन्तरस्य ।
नह्यकारणस्य वैगुण्यमवैगुण्यम्वा व्याघातमितरद्वा विदधीत । त मात् पूर्व्वबुद्धिः कारणमेव ।
तदशक्तत्वादर्थधीरपि न स्यादेवेति सुतरां विषयान्तरसञ्चाराभावः । आलयविज्ञानम् ।
यस्य तर्हि । आ ल य वि ज्ञा नं सकलप्रवृत्तिविज्ञानजनकम् (।) तस्य पूर्व्वविज्ञानकारणत्वं
नास्ति (।) तत एव सकृदालयविज्ञानात् प्रवृत्तिविज्ञानोदयात् । ततोस्माकमपि न तत्कारणं ।)
पूर्व्वप्रवृत्तिविज्ञानकारणत्वे तु तदन्वयव्यतिरेकानुविधायि कार्यमिति न स्यादालयविज्ञानस्य
कारणत्वं । अत्रोच्यते ।

सकृद्विजातीयजातावप्येकेन पटीयसा ।
चित्तेनाहितवैगुण्यादालयान्नान्यसम्भवः ।। ५२२ ।।

यस्याप्यालयविज्ञानं कारणन्तस्यापि । यतः । कदाचित् सकृद्विजातीयविज्ञानोदयेपि
पुनरालयान्नान्यसम्भव एकेन पटीयसा पूर्व्वकप्रवृत्तिज्ञानेनार्थान्तरासक्तिविगुणाहितवैगुण्यादतः (।)
स एव तत्रापि स म न न्त रप्रत्य यः । तत एव तर्हि विगुणाद्विज्ञानोदयानुदयौ किमालय
विज्ञानेन । आस्तामियमालयविज्ञानचिन्ता । वासनाधारतया वा परिकल्पितन्तदिति न
दोषः । यदि तु पूर्व्वविज्ञानस्य कारणता नेष्यते यदा ।

नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोन्तरं ।

पूर्व्विकाया हि मनोवृत्तेर्मनोन्तरं साम्यमपेक्षेत यदि सा कारणमकारणस्यापेक्षणीयता
योगात् । तस्मादपेक्षत्वात्कारणमेवासाविति युक्तिमानेव निर्णयः ।

  1. १ T. स्‌ङर्-ग्यि ब्‌लो नि नुस्-सद्-न । दोन्-ल ऽफो-व मि-ऽग्युर्-ते । (= पूर्वधीश
    क्तिनाशे हि नार्थे संक्रमणं भवेत्)