(आलयविज्ञानम्-)

यदि तु पूर्व्वबुद्धेः कारणत्वं न स्यादर्थान्तरासक्तिवैगुण्येप्युदयो भवेत् बुद्ध्यन्तरस्य ।
नह्यकारणस्य वैगुण्यमवैगुण्यम्वा व्याघातमितरद्वा विदधीत । त मात् पूर्व्वबुद्धिः कारणमेव ।
तदशक्तत्वादर्थधीरपि न स्यादेवेति सुतरां विषयान्तरसञ्चाराभावः । आलयविज्ञानम् ।
यस्य तर्हि । आ ल य वि ज्ञा नं सकलप्रवृत्तिविज्ञानजनकम् (।) तस्य पूर्व्वविज्ञानकारणत्वं
नास्ति (।) तत एव सकृदालयविज्ञानात् प्रवृत्तिविज्ञानोदयात् । ततोस्माकमपि न तत्कारणं ।)
पूर्व्वप्रवृत्तिविज्ञानकारणत्वे तु तदन्वयव्यतिरेकानुविधायि कार्यमिति न स्यादालयविज्ञानस्य
कारणत्वं । अत्रोच्यते ।

सकृद्विजातीयजातावप्येकेन पटीयसा ।
चित्तेनाहितवैगुण्यादालयान्नान्यसम्भवः ।। ५२२ ।।

यस्याप्यालयविज्ञानं कारणन्तस्यापि । यतः । कदाचित् सकृद्विजातीयविज्ञानोदयेपि
पुनरालयान्नान्यसम्भव एकेन पटीयसा पूर्व्वकप्रवृत्तिज्ञानेनार्थान्तरासक्तिविगुणाहितवैगुण्यादतः (।)
स एव तत्रापि स म न न्त रप्रत्य यः । तत एव तर्हि विगुणाद्विज्ञानोदयानुदयौ किमालय
विज्ञानेन । आस्तामियमालयविज्ञानचिन्ता । वासनाधारतया वा परिकल्पितन्तदिति न
दोषः । यदि तु पूर्व्वविज्ञानस्य कारणता नेष्यते यदा ।

नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोन्तरं ।

पूर्व्विकाया हि मनोवृत्तेर्मनोन्तरं साम्यमपेक्षेत यदि सा कारणमकारणस्यापेक्षणीयता
योगात् । तस्मादपेक्षत्वात्कारणमेवासाविति युक्तिमानेव निर्णयः ।

458

अपि च ।

मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ।। ५२३ ।।

मनोविज्ञानस्य हि समनन्तरप्रत्ययमात्रमेव हेतुः । तस्याहेतुतायामहेतुकत्वात् युगप
दुदयो भवेत् । तस्मात्पूर्व्वविज्ञानकारणमेवोत्तरं विज्ञानमिति पूर्व्वविज्ञानशक्त्यभावे न
किञ्चिद् भवेत् ।

एकत्वान्मनसोन्यस्मिन्सक्तस्यान्या (ऽ)गतेर्यदि ।
ज्ञानान्तरस्यानुदयो न कदाचित्सहोदयात् ।। ५२४ ।।

यद्येकत्वं मनसस्तस्य चैकत्र गतेरन्यत्रागतिरिति पूर्व्वकं विज्ञानमकारणमेव ।

तदप्ययुक्तं । यतस्तदपि मनःपूर्व्वकं विज्ञानमेव न तदपरं प्रमाणप्रसिद्धं । युगपद्वि
ज्ञानानुदयेन हि तत्साध्यते स च पूर्व्वविज्ञानान्यासक्तिविगुणत्वादेव सहोदयश्च कदाचिदुप
लब्धः ।

समवृत्तौ च तुल्यत्वात्सर्व्वदान्यागतिर्भवेत् ।

यस्य तु मनस एकत्वकृतो विज्ञानान्तरानुदयस्तस्य समवृत्तौ चान्यदा च सर्व्वदानुदयः ।
स्यात् ।

अस्माकन्तु समवृत्तावुदयोऽन्यदा चानुदय इति नहि किञ्चिद्व्याहतं ।

नन्वन्तरेण मनः कथं क्रमः । विज्ञानवैगुण्यादिति प्रतिपादितं ।

जन्म चात्ममनोयोगमात्रजानां सकृद् भवेत् ।। ५२५ ।।

न हि तत्र विषयान्तरगतिरस्ति । यतः क्रमो भवेत् । सुखादिबुद्धीनामात्ममनः
संयोगमात्रत्वात् इति प्रतिपादितं ।

अथैकत्वान्मनस एकैव बुद्धिक्रिया भवेत् ।

तदसत् । यतः ।

एकैव चेत्क्रियैकः1099 स्यात्किन्दीपोनेकदर्शनः ।

यथैव प्रदीप एकोप्यनेकदर्शनजनकः । तथा मनोपि । तथानेकद्रष्दृवशाद त्राप्यनेक
ग्राह्यवशादिति समानम् । न च मनसः कारणत्वं विज्ञानस्यैव वासनानियमात् । तथात्वं
मनसस्तु नित्यत्वात् ।

क्रमेणापि न शक्तं स्यात्पश्चादप्यविशेषतः1100 ।। ५२६ ।।

नहि नित्त्यस्य विशेषाधानं । कुतश्चिद्विशेषस्य तत्त्वान्यथाभ्यासयोगात् । यतः ।

तदात्मान विशेषःस्यादन्यश्चेत्तस्य किम्भवेत् । तत्सम्बन्धेपि तस्यासौ नैव स्यादेकरूपता ।। ११५२ ।।
अनेन देह पुरुषावुक्तौ संस्कारतो यदि ।
नियमः स कुतः पश्चाद् बुद्धेश्चेदस्तु सम्मतं ।। ५२७ ।।
459

अनेन देहपुरुषावुक्तौ । योपि मन्यते देहपुरुषयोरेकत्वादेकैव क्रिया । तदप्यनेनैव
गतं । किं दीपोनेकदर्शनः ।

क्रमेणापि न शक्तिरविशेषादिति । अथ विशेषः । तदा विज्ञानमेव शक्त्यतिशय
समन्वितं तत्क्रमकारणमिति वृथा देहपुरुषयोः कारणत्वोपगमः । संस्कारतो यदि (।) नियमः
स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतं ।
संस्कारोपि स्थित एव । ततो न नियमः । अथ
पश्चादुत्पत्तिमान् स कुतः । ज्ञानजो ज्ञानहेतुश्च संस्कार इति बुद्धेरेव संस्कारः । यद्येवं
सम्मतमेवैतदस्माकं बुद्धिजनितः संस्कारो वासनापरनामा ततो नियमः पूर्व्वबुद्धेरेवान्यत्र
प्रमाणाभावात् । नहि बुद्धिमन्तरेणान्या वासना नाम । अथापि स्यात् (।) ज्ञानान्तर
जननमेव केवलं न ग्राह्यता तेन जनिकापि पूर्व्विका बुद्धिरग्राह्यतो विषयान्तरसञ्चारः ।

तदसत्त्यं । यतः (।)

न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणं ।

ग्राह्ये हि पदार्थे ज्ञानजननमेव ग्राह्यलक्षणम् ।

यतः (।)

अग्राह्यं नहि तेजोस्ति; न च सौक्ष्म्याद्यनंशके1101 ।। ५२८ ।।

नालोकः कथञ्चिद्विज्ञानं जनयत्यग्राह्यतया । ग्राह्यं हि सकलमेव दृष्टं । अथा
लोकः सावयवत्वात्परभागादिना जनकोपि न ग्राह्यः । नानङ्गस्य विज्ञानस्याङ्गाभावात् ।
आलोको हि साङ्ग इति तथा युक्तः ।

ग्राह्यताशक्तिहानिः स्यान्नान्यस्य जननात्मनः ।

तदयुक्तं । यतः

ग्राह्यताया न खल्वन्यज्जननं ग्राह्यलक्षणे ।। ५२९ ।।
साक्षान्नह्यन्यथा बुद्धे रूपादिरुपकारकः ।

पारम्पर्येण हि ग्राह्यमप्यग्राह्यतया भवेदुपकारकं बुद्धेः । साक्षात्तु नान्यथेति जनिका
ग्राह्यैव बुद्धिः ।

ग्राह्यतालक्षणादन्यस्त्तद्भावनियमोस्य कः ।। ५३० ।।
बुद्धेरपि तदस्तीति सापि तत्त्वे व्यवस्थितेति ।

—इति अन्तरश्लोकः ।

तस्मान्नाग्राह्या बुद्धिः । यस्मात् ।

ग्राह्योपादानसंवित्ती चेतसो ग्राह्यलक्षणाम् ।। ५३१ ।।

चेतसो हि ग्राहिणी विज्ञाने तदुपादानभावः । सम्वेदनता च ग्राह्यता नापरमत्र
सूक्ष्मतादिकमिति नाग्राह्यता । यद्युपादानभाव एव ग्राह्यता स चोपादानभावः स्वबुद्धेरेव ।
अन्यथा परबुद्धेरपि सम्वेदनप्रसङ्गः । परचित्ताग्रहणन्त्वनुपादानभावात् । रूपस्य चाग्रहणं
दूरसूक्ष्मादिभावादिन्द्रियस्य ग्राहिविज्ञानानुपादानादिति विषयविभागः । यदि तु बुद्धेरप्यग्रा
ह्यता सापि चक्षुरादिवदेव ग्राह्या न भवेत् । अथार्थापत्त्या प्रतीयते बुद्धिस्तेन स्मरणम् ।

460

तदयुक्तं । सर्व्वदात्वापत्तेरसम्भवात् ।

यदा स्तम्भघटादीनां सत्वरं गणयेदयं । प्रपञ्चमतिबाहुल्यं नार्थापत्युदयस्ततः ।। ११५३ ।।

नहि त्वरितं गणयतोस्यार्थापत्तेरुदयः । अथार्थापत्तिरपि तत्र व्यापारवती न
व्यापाराप्रतीतेः ।

न चार्थापत्तिसद्भावो वेद्यते व्यवहारिभिः । अर्थादर्थविदोवेयं जायेतोभयतोथवा ।। ११५४ ।।
न तावदर्थादर्थाद्धि सर्व्वधीप्रतिपद् भवेत् । अर्थवित्तेरपि ममेत्येवं नैवार्थधीर्गति (ः) ।। ११५५ ।।
उभयस्मादपि गतिन्नति एव प्रसिध्यतिं । स्ववेदनादेव तस्मादात्मसम्वेदनस्थितिः ।। ११५६ ।।

अर्थादेव यदि सम्वेदनं गम्यते सम्वेदनमात्रं गम्येत नात्मसम्वेदनम् । अथार्थसम्वेदनात् ।

ननु तदेवार्थसम्वेदनमर्थापत्त्यावगम्यते । तत एव कथमर्थापत्तिरितरेतराश्रयदोषात् ।
यतो दृष्टोऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थपरिकल्पनमर्थापत्तिः । न चार्थसम्वेदनं दृष्टमिति
कुतोर्थापत्तिः । न चोभयस्य दर्शनमत एव न ह्येकस्य दर्शनमुभयदर्शनं तस्मात्स्वसम्वे
दनमेव वेदनमन्यथासिद्धेः । अतः परेण बुद्ध्यन्तरेण प्रत्यक्षात्मना वेद्यत इत्युपगतं । तत्र
सकलपूर्व्वबुद्धिग्रहणे न विषयान्तरसंचारः । यद्युपादानतया बुद्धेर्व्वेदनमसूक्ष्मादितया च
रूपादेः । तदा योगिनां परबुद्धिसूक्ष्मादिरूपादिवेदनं कथं । न दोष एष । यतः ।

रूपादेः चेतसश्चैवमविशुद्धधियं प्रति ।
ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनाङ्गतिः ।। ५३० ।।

दूरसूक्ष्मादिपरचित्तवेदनं हि कथं योगिनामिति न चिन्त्यत एवेदानीमेतत् । अर्व्वा
ग्दशेनापेक्षया ग्राह्यलक्षणमिदमुक्तमस्माभिः । परिशुद्धबुद्धिसन्ततयस्तु योगीश्वराः कथमिति
किमनेन चिन्तितेनेत्यास्तामेतत् । यथा चेदन्तथा चिन्तितमेव लेशतः । नन्वात्मीया
बुद्धिर्यदि गृह्यते सर्वं गृह्येतेति कुत एतत् । न गृह्यत इति तु विषयान्तरसञ्चारादेव
गम्यते । तदपि न युक्तिमत् । यतः ।

तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां ब्रजेत् ।
रूपादिबुद्धेः किं जातं पश्चाद्यत् प्राङ् न विद्यते ।। ५३३ ।।

न खलु तस्याः सूक्ष्मदूरादिभावो यः प्राङ् नासीत् । असम्भवेपि विशेषस्य यदि
ग्रहणविभागस्य तर्हि न सहेतुक इति न विभागवान्भवेत् ।

सति स्वधीग्रहे तस्मात् यैवानन्तरहेतुता1102 ।
चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः ।। ५३४ ।।

—इति (अन्तरश्लोकः)

  1. १ B. क्रियैकस्मात्

  2. २ T. ऽदि-लुस् स्‌क्येस्-बु ब्‌शद्-प यिन् । गल्-ते ऽदु-ब्येद्
    लस्‌ङेस्-न । दे-फ्यिस् गङ्-लस् ब्‌लो-ञिद्-लस् । शे-न यिन् मोद् ऽदोद्-प ञिद् ।

  3. १ ॰द्यनंशके—इति हे. पुस्तके ।

  4. १ M. सैवानन्तर॰