458

अपि च ।

मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ।। ५२३ ।।

मनोविज्ञानस्य हि समनन्तरप्रत्ययमात्रमेव हेतुः । तस्याहेतुतायामहेतुकत्वात् युगप
दुदयो भवेत् । तस्मात्पूर्व्वविज्ञानकारणमेवोत्तरं विज्ञानमिति पूर्व्वविज्ञानशक्त्यभावे न
किञ्चिद् भवेत् ।

एकत्वान्मनसोन्यस्मिन्सक्तस्यान्या (ऽ)गतेर्यदि ।
ज्ञानान्तरस्यानुदयो न कदाचित्सहोदयात् ।। ५२४ ।।

यद्येकत्वं मनसस्तस्य चैकत्र गतेरन्यत्रागतिरिति पूर्व्वकं विज्ञानमकारणमेव ।

तदप्ययुक्तं । यतस्तदपि मनःपूर्व्वकं विज्ञानमेव न तदपरं प्रमाणप्रसिद्धं । युगपद्वि
ज्ञानानुदयेन हि तत्साध्यते स च पूर्व्वविज्ञानान्यासक्तिविगुणत्वादेव सहोदयश्च कदाचिदुप
लब्धः ।

समवृत्तौ च तुल्यत्वात्सर्व्वदान्यागतिर्भवेत् ।

यस्य तु मनस एकत्वकृतो विज्ञानान्तरानुदयस्तस्य समवृत्तौ चान्यदा च सर्व्वदानुदयः ।
स्यात् ।

अस्माकन्तु समवृत्तावुदयोऽन्यदा चानुदय इति नहि किञ्चिद्व्याहतं ।

नन्वन्तरेण मनः कथं क्रमः । विज्ञानवैगुण्यादिति प्रतिपादितं ।

जन्म चात्ममनोयोगमात्रजानां सकृद् भवेत् ।। ५२५ ।।

न हि तत्र विषयान्तरगतिरस्ति । यतः क्रमो भवेत् । सुखादिबुद्धीनामात्ममनः
संयोगमात्रत्वात् इति प्रतिपादितं ।

अथैकत्वान्मनस एकैव बुद्धिक्रिया भवेत् ।

तदसत् । यतः ।

एकैव चेत्क्रियैकः1099 स्यात्किन्दीपोनेकदर्शनः ।

यथैव प्रदीप एकोप्यनेकदर्शनजनकः । तथा मनोपि । तथानेकद्रष्दृवशाद त्राप्यनेक
ग्राह्यवशादिति समानम् । न च मनसः कारणत्वं विज्ञानस्यैव वासनानियमात् । तथात्वं
मनसस्तु नित्यत्वात् ।

क्रमेणापि न शक्तं स्यात्पश्चादप्यविशेषतः1100 ।। ५२६ ।।

नहि नित्त्यस्य विशेषाधानं । कुतश्चिद्विशेषस्य तत्त्वान्यथाभ्यासयोगात् । यतः ।

तदात्मान विशेषःस्यादन्यश्चेत्तस्य किम्भवेत् । तत्सम्बन्धेपि तस्यासौ नैव स्यादेकरूपता ।। ११५२ ।।
अनेन देह पुरुषावुक्तौ संस्कारतो यदि ।
नियमः स कुतः पश्चाद् बुद्धेश्चेदस्तु सम्मतं ।। ५२७ ।।
  1. १ B. क्रियैकस्मात्

  2. २ T. ऽदि-लुस् स्‌क्येस्-बु ब्‌शद्-प यिन् । गल्-ते ऽदु-ब्येद्
    लस्‌ङेस्-न । दे-फ्यिस् गङ्-लस् ब्‌लो-ञिद्-लस् । शे-न यिन् मोद् ऽदोद्-प ञिद् ।