अनेन देहपुरुषावुक्तौ । योपि मन्यते देहपुरुषयोरेकत्वादेकैव क्रिया । तदप्यनेनैव
गतं । किं दीपोनेकदर्शनः ।
क्रमेणापि न शक्तिरविशेषादिति । अथ विशेषः । तदा विज्ञानमेव शक्त्यतिशय
समन्वितं तत्क्रमकारणमिति वृथा देहपुरुषयोः कारणत्वोपगमः । संस्कारतो यदि (।) नियमः
स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतं । संस्कारोपि स्थित एव । ततो न नियमः । अथ
पश्चादुत्पत्तिमान् स कुतः । ज्ञानजो ज्ञानहेतुश्च संस्कार इति बुद्धेरेव संस्कारः । यद्येवं
सम्मतमेवैतदस्माकं बुद्धिजनितः संस्कारो वासनापरनामा ततो नियमः पूर्व्वबुद्धेरेवान्यत्र
प्रमाणाभावात् । नहि बुद्धिमन्तरेणान्या वासना नाम । अथापि स्यात् (।) ज्ञानान्तर
जननमेव केवलं न ग्राह्यता तेन जनिकापि पूर्व्विका बुद्धिरग्राह्यतो विषयान्तरसञ्चारः ।
तदसत्त्यं । यतः (।)
ग्राह्ये हि पदार्थे ज्ञानजननमेव ग्राह्यलक्षणम् ।
यतः (।)
नालोकः कथञ्चिद्विज्ञानं जनयत्यग्राह्यतया । ग्राह्यं हि सकलमेव दृष्टं । अथा
लोकः सावयवत्वात्परभागादिना जनकोपि न ग्राह्यः । नानङ्गस्य विज्ञानस्याङ्गाभावात् ।
आलोको हि साङ्ग इति तथा युक्तः ।
तदयुक्तं । यतः
पारम्पर्येण हि ग्राह्यमप्यग्राह्यतया भवेदुपकारकं बुद्धेः । साक्षात्तु नान्यथेति जनिका
ग्राह्यैव बुद्धिः ।
—इति अन्तरश्लोकः ।
तस्मान्नाग्राह्या बुद्धिः । यस्मात् ।
चेतसो हि ग्राहिणी विज्ञाने तदुपादानभावः । सम्वेदनता च ग्राह्यता नापरमत्र
सूक्ष्मतादिकमिति नाग्राह्यता । यद्युपादानभाव एव ग्राह्यता स चोपादानभावः स्वबुद्धेरेव ।
अन्यथा परबुद्धेरपि सम्वेदनप्रसङ्गः । परचित्ताग्रहणन्त्वनुपादानभावात् । रूपस्य चाग्रहणं
दूरसूक्ष्मादिभावादिन्द्रियस्य ग्राहिविज्ञानानुपादानादिति विषयविभागः । यदि तु बुद्धेरप्यग्रा
ह्यता सापि चक्षुरादिवदेव ग्राह्या न भवेत् । अथार्थापत्त्या प्रतीयते बुद्धिस्तेन स्मरणम् ।
-
१ ॰द्यनंशके—इति हे. पुस्तके ।
↩