तदयुक्तं । सर्व्वदात्वापत्तेरसम्भवात् ।
नहि त्वरितं गणयतोस्यार्थापत्तेरुदयः । अथार्थापत्तिरपि तत्र व्यापारवती न
व्यापाराप्रतीतेः ।
अर्थादेव यदि सम्वेदनं गम्यते सम्वेदनमात्रं गम्येत नात्मसम्वेदनम् । अथार्थसम्वेदनात् ।
ननु तदेवार्थसम्वेदनमर्थापत्त्यावगम्यते । तत एव कथमर्थापत्तिरितरेतराश्रयदोषात् ।
यतो दृष्टोऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थपरिकल्पनमर्थापत्तिः । न चार्थसम्वेदनं दृष्टमिति
कुतोर्थापत्तिः । न चोभयस्य दर्शनमत एव न ह्येकस्य दर्शनमुभयदर्शनं तस्मात्स्वसम्वे
दनमेव वेदनमन्यथासिद्धेः । अतः परेण बुद्ध्यन्तरेण प्रत्यक्षात्मना वेद्यत इत्युपगतं । तत्र
सकलपूर्व्वबुद्धिग्रहणे न विषयान्तरसंचारः । यद्युपादानतया बुद्धेर्व्वेदनमसूक्ष्मादितया च
रूपादेः । तदा योगिनां परबुद्धिसूक्ष्मादिरूपादिवेदनं कथं । न दोष एष । यतः ।
दूरसूक्ष्मादिपरचित्तवेदनं हि कथं योगिनामिति न चिन्त्यत एवेदानीमेतत् । अर्व्वा
ग्दशेनापेक्षया ग्राह्यलक्षणमिदमुक्तमस्माभिः । परिशुद्धबुद्धिसन्ततयस्तु योगीश्वराः कथमिति
किमनेन चिन्तितेनेत्यास्तामेतत् । यथा चेदन्तथा चिन्तितमेव लेशतः । नन्वात्मीया
बुद्धिर्यदि गृह्यते सर्वं गृह्येतेति कुत एतत् । न गृह्यत इति तु विषयान्तरसञ्चारादेव
गम्यते । तदपि न युक्तिमत् । यतः ।
न खलु तस्याः सूक्ष्मदूरादिभावो यः प्राङ् नासीत् । असम्भवेपि विशेषस्य यदि
ग्रहणविभागस्य तर्हि न सहेतुक इति न विभागवान्भवेत् ।
—इति (अन्तरश्लोकः)
(६) हेतुसामग्रीवादः
ननु हेतुतैव ग्राह्यतेति न युक्तमेतत् अनेकशक्तित्वाद् भावानां । ततोन्या ग्राह्यश
क्तिर्यापगता विषयान्तरसंचारकालेऽअन्या च जननमात्रशक्तिर्यत्प्रभावादुत्तरज्ञानोदयोर्थविषयः ।
-
१ M. सैवानन्तर॰
↩