अनेकशक्तिता च भावानामनेककार्यजननादेवावधार्यते । अन्यथा नानेककार्यप्रसवः (।) तदपि
यत् किञ्चिद्यतः ।
प्रकृतिरेषा भावानां कारणपराधीनजन्मनां पर्यनुयोगमर्हति (।) कथमेतदिति ।
स्वकारणादुदयमासादयतां प्रतिनियमेन कस्तस्य निषेद्धा । अन्यथा सापि शक्तिरीदृशी
कुतः(।) इति न पर्यनुयोगान्मुक्तिः । स्वकारणाच्चेत् तत्किमिदानीमनया प्रकृत्यैव परिस
माप्तिरस्तु किमर्थान्तरकल्पनया । ननु स्वकारणाधीना शक्तिरियमिति लोकस्य प्रतीतिः ।
अस्तीयं प्रतीतिर्न्न व्यतिरिवतशक्तिप्रतीतिः । स्वभावभूतधर्मभेदारोपमात्रेण प्रतीतेः । कथमे
तदिति चेत् । शक्तावप्यपरशक्तिप्रत्ययदर्शनात् । तथा हि ।
शक्तियोगात्पदार्थश्चेत् कारणं कार्यजन्मनि ।
तस्मात्कल्पनामात्रमेव शक्तिरन्यापोहेन व्यवस्थाप्यमानत्वात् ।
ननु शक्तिमन्तरेण नानाभूता भावा एकतः कथम्भवन्ति । शक्तिभेदे सति भवन्तीति
युक्तं । अत्राह ।
सामग्रीसम्भवे हि प्रायशः कार्याणां सम्भवः किञ्चिदेकमेकस्मादुत्पत्तिमत् ।
तथानेकमनेकस्मादनेकञ्चैकस्मात् । यादृश्येव यस्य सामग्री तत एव तदेकमनेकम्वा
भवेत् । एष प्रायशः प्रपञ्चः । तथाहि । स्वकारणादेवम्भूतमनेकमेकम्वा भवति ।
येनैकमनेकम्वा कार्य जनयति । न शक्तिभेदः क्वचिदुपयुज्यते । शक्तयोपि तत उपकार
भागिन्यः तस्य ता इति व्यपदेशवत्यः । न ह्यन्यथा शक्तयः । पदार्थान्तरभूता हि तदाभाः
स्युः । पदार्थान्तरत्वे च तथा दर्शनप्रसङ्गः । अथवा न किञ्चिदस्ति यदेकमेकस्मात्साग्र्या
एवानेककार्योदयः । कथन्तर्ह्यनेकमेकस्मादित्युच्यते । सामग्रीद्वयान्तर्भ्तमेकमेकं कार्य
जनयतीति तथा व्यपदेशः । यदा प्रदीप एक एवानेकस्य दर्शनस्य जनकः । अनेकपुरुषानेक
समनन्तरसामग्रीसङ्गतत्वात् । यथा चैकस्यानेकशक्तियोगस्तथानेककार्ययोगोपि तस्मादने
ककार्यत्वमनेकशक्तिताम्विनापि । एवन्तर्हि यथैकमनेककार्य तथैकापि बुद्धिः स्वविषयां च
बुद्धिं परार्थ विषयाञ्च जनयिष्यति (।) तत्र कदाचिद्बुद्धिविषया बुद्धिः कदाचिदर्थविषयेति
विषयान्तरसंचारः । न विशेषाभावादुभयं सर्व्वदा जनयेत् । जन (य) त्येवेति चेत् ।
तन्न यतः । तदा ।
-
१ M. सर्वसम्भवः
↩