644

न्नावश्यम्भावविभावि नाशस्य । उत्पत्तिमत्त्वाद् विनाशितैवेति चेत् । न । प्रतिबन्धा
भावात । नहि प्रतिबन्धमन्तरेण हेतुः साध्यस्य साधकः ।

अहेतुत्वेपि नाशस्य तादात्म्ये साध्यसाधनं ।

कारणत्वन्तु साध्यस्य पश्चाद्भावान्न युक्तिमत् ।। ५९८ ।।

नहि पश्चाद्भाविना विनाशेन कारणेन भवितुं युक्तं प्राग्भाविन उत्पत्तिमत्वस्य । कार्यन्तु
नावश्यम्भावि कारणाद् (।) अतस्तत्कारणत्वेन न हेतुः ।

ननु तादात्म्यमहेतुकत्वे भवतीति कुत एतत् । कथं वा हेतुकत्वन्नाशस्य मुद्गरादन्वय
व्यतिरेकानुविधानात् । स एव हि कार्यधर्म्मः । अत्रोच्यते ।

भावाभावो विनाशश्चेदुत्तराघटनात्मकः । स पूर्वमपि दृष्टत्वात् कथन्नाशकहेतुकः ।। ५९९ ।।

यो हि यमन्तरेणापि दृश्यते स कथन्तद्धेतुकः । नान्वयमात्रेण हेतुरिति प्रतिपादितमेतत् ।
यथा च विनाशकसन्निधौ कपालादिभावे परासंघटितस्य घटस्य प्रतीतिस्तथोदयानन्तरमपि ।
नहि पूर्वमपि पररूपसंघटना प्रतीयते मरणावधिप्रतीतिप्रसङ्गादिति प्रतिपादनात् । परासंघ
टनमेव च यदत्रापि विनाशः । विनाशेनैवासंघटना क्रियत इति चेत् । तदसद् यतः ।

असामर्थ्यादपार्थत्वान्नाशेनैव न तत्क्रिया । न ह्यसंघटिते नाशः समर्थो घटितेपि हि ।। ६०० ।।

यद्यसौ हेतोः संघटित एवोत्पन्न इति तथैव प्रत्यक्षगृहीत इति कस्तत्र नाशस्योपयो
गो ऽसामर्थ्ये हि तदा तस्य भवेत् । अथासंघटित एवासौ स्वहेतुतः (।) तथा सति व्यर्थको
नाशः । कृतस्य करणाभावात् । तस्मात् क्षणिक एव स्वभावतः प्रत्यक्षतोवगतोन्यथा प्रति
पत्तेरसभवात् । यश्चान्यथा प्रतिपत्तुमशक्यः स नोन्यथा भवति प्रत्यक्षतोन्यथात्वस्य बाधा
(? ध) नात् । तस्मादनपेक्ष एव तन्नियतो नापरः । यथान्त्या कारणमामग्री ।

ननु सापेक्ष्योप्यादित्यस्यास्तमय उदयश्चावश्यम्भावी निरपेक्षतायामुदयास्तमयानन्तरमेव
भवेदस्तमयोदयं । सामाग्री चाभेदेन नियताऽपि तु पदार्थान्तरेंकुरादिके (।) ततस्तद्दृष्टान्ततो
विपर्यय एव भवेत् न तु प्रकृतसाध्यसिद्धिः । अत्रोच्यते ।

नोदयास्तमयव्याप्तिरादित्यास्तमयोदये । कदाचिदन्यथापि स्यात् प्रमा नास्ति विपर्यये ।। ६०१ ।।

यदि नाम भूयो दर्शनन्तथापि प्रमाणाभावन्न व्याप्तिरुदयास्तमयाभ्यामस्तमयोदयभावयोः ।
तथा हि पतिव्रतोपाख्यानं श्रूयते ।

सम्भवश्चास्ति हेमन्ते चिरादुदयभावतः । झटित्यस्तङ्गतेर्भावात् तद्वदत्यन्तसंभवः ।। ६०२ ।।

न चास्तमयादित्यस्यापि शैलादिनान्तरितत्वं । तच्चान्तरितत्वमस्मदाद्यपेक्षया परे
तु योगिनः पश्यन्त्येव । अपि च । सापेक्षाणान्ताव(दव)श्यम्भावितेति (।) यदि नाम
केषाञ्चिदवश्यम्भावो परेषान्तु न तथेति संशयः ।

यदप्युक्तं (।) व्यतिरिक्तभावनियतान्त्या सामग्री । विनाशस्तु न व्यतिरिक्तः ।
तदप्यसद् यतः ।

योन्यस्वभावे नियतः स्वहेतोस्सुतरामसौ । स्वस्वभावात्मके नाशे किमेवन्न प्रकल्प्यते ।। ६०३ ।।

नहि विनाशो नामावस्तुस्वभावोन्य एव वस्तुन एव तु तत्त्वमपरासंघटितं प्रतीयमानं