शिलापुत्रकस्य शरीरमिति न्यायेन (।) तथा प्रतिपादनविषयो भावस्य विनाश इति
यथान्त्या कारणसामग्री तदंकुरोत्पादनस्वभावनियता तथा भावोपि तदुत्तरस्वभावासंघटित
व्यवहारनियत इति किन्नामानिष्टं । अपि चानपेक्ष्यतया तन्नियतत्वं सामान्येन साध्यते (।)
वस्त्ववस्थाभेदकल्पनन्तु जात्युत्तरमेव घटशब्दमूर्त्तामूर्त्तविकल्पनावत । तस्मादनुपलब्धि
प्रभेद एव विरुद्धव्याप्तोपलब्धिः (।) सा च स्वभावहेतावेव हेतुर्भवती-भूद्भावे च विपर्ययौ ।
तेन यः सन्सजातीये द्वेधा च स हेतुः । विपर्यये विरुद्धः । तदन्यस्त्वनिश्चितः पञ्चप्रकारः ।
तत्र भेद1722 सामान्ययोर्गमकत्वविवादः प्रतिक्षिप्तः । शेषस्त्रिप्रकारो व्यावृत्तिद्वारेण गमकत्व
प्रतिपादनार्थः । तथा हि ।
यद्यन्वयो गमकत्वे प्रयोजको ऽनित्यत्वादप्रयत्नानन्तरीयक इत्यपि गमकः स्यात् ।
अस्त्यभा(वा)न्वयः । अथानभावमात्रेण गमकत्वमन्वयस्य व्यतिरेकसाहित्यापेक्षया
गमकत्वात् । अयन्तर्हि गमको स्पर्शत्वान्नित्य इति । अयमपि न गमकः समत्वादन्वयस्य
अयन्तर्हि स्यादनित्यत्वात् प्रयत्नानन्तरीयक इति । अत्र हि बलवानन्वयो दुर्बलो
व्यतिरेकः । तथाहि ।
यदि प्रयोजकत्वमन्वयस्य गमकत्वे स्यान्न व्यतिरेकस्य सपूर्ण्णतामपेक्षेत तमनादृत्यैव
गमकत्वं प्रयोजयेद् भोजनप्रयोजकवत् (।) व्यतिरेकस्तु प्रयोजकः सद्भावमात्रमेवान्वयस्यापेक्षते
न समत्वादिकं । यथा प्रयत्नानन्तरीयकत्वादनित्य इति । यः प्रयत्नानन्तरीयकः सो नित्य
एव नित्यताव्यवच्छेदकत्वेन गमकः । एवमन्योपि हेतुः । तथा हि ।
अनित्ये यदि नाम दृष्टन्तथापि न नित्याभावं साधयति (।) नित्यताऽभावे तु दृष्टन्तद
भावसाधने नियमेन राश्यन्तरसंक्रान्तिः । दृष्टन्तु न नियमेन1723
अन्यत्र न भवति तदन्यत्र1724 ।
यदि च दर्शनद्वारेण गमकस्तदा दृष्टमेवाग्निं गमयेत् सकलन्न तदपरव्यक्तिगतिः । ततस्तदन्य
व्यक्तिप्राप्तावप्रमाणता भवेत् । अथ सोपि क्रोडीकृत एव । न । दृष्टानुसारेण क्रोडी
करणासंभवात् ।
ननु व्यावृत्तिरपि तदन्वयद्वारेणैव निश्चिता तत्कथन्नान्वयप्राधान्यं । न । दर्शनस्य
व्यावृत्तिनिश्चये नधिकारात् । दर्शनं हि दृश्यमानतामेव निश्चाययति न तदपरं । नान्यदर्शन
मन्यनिश्चयहेतुः । संस्कारादन्यत्रापि निश्चय इति चेत् । तदसत् ।
यदा तु स एव प्रतिबन्धो व्यतिरेकप्रधानतया गृह्यते तदा तद्द्वारेण हेतुरन्यापोहस्य
गमकः ।