642

गतोदके कः खलु सेतुबन्धः पयोनिरोधाय हि सेतुबन्धः ।

पयोऽविरोधी नहि सेतुबन्धः प्रयासमात्रं हि स सेतुबन्धः ।। ५९२ ।।

अथ न तथास्य सम्प्रतिपत्तिस्तथा सत्यनिरूपितस्वविषयः कथम्विनाशहेतुः प्रवर्त्तेत ।
निरूप्य भाविनं भावम्प्रवर्त्तत इति चेत् । न । नरूपिते सिद्धिस्वभावे क इव विनाशहेतो
रुपयोगः । विरोधिस्वभावे कपाले उपयोग इति चेत् । नन्वसावपि विरोधी निवर्त्तक एव ।
तत्रापि स एव पूर्व्वकः प्रसङ्गः । परस्परपरिहारमात्रेण तु निवर्त्तक एव न स्यात् ।

अथ सिद्धस्य कालान्तरस्थायितयाऽभावं करोति शून्यतालक्षणम्विनाशहेतुः । काला
न्तरस्थायिनः शून्यता क्रियमाणा तदविरोधिनी न तस्य निवर्त्तिका जलमिवाधारस्य । जल
मप्यासक्तकुम्भस्तस्य निवर्त्तकमेवेति चेत् । न । तत्र कालान्तरस्थानस्याप्रसिद्धत्वात् ।

नन्वनुमानेन कालान्तरसिद्धमेव निवर्त्यते । तदसत् ।

अनुमानाप्रसिद्धस्य न तस्यैव निवर्त्तनं । अन्यस्याभाव एवेति न तस्यापि निवर्त्तनं ।। ५९३ ।।

प्रत्यक्षवदनुमानमपि प्रमाणमेव तत्सिद्धमपि सत्त्यमेव कथमभावः (।) तस्याभावे हि
तस्य तत्प्रतीतिरसत्त्या भवेदिति न प्रत्यक्षानुमाने स्तः । तदभावान्न भावसिद्धिरिति कस्य
विभागः । संभाव्यमानस्य विभाग इति चेत् । अन्वयादभ्यास एवैष न च वस्तुनो निर्ण्णय
इति यत्किञ्चिदेतत् ।

अथ तस्यैवान्यथात्वङ् करोति कपालादिलक्षणम्विनाशहेतुः (।) अत्राप्युच्यते ।

घटादावन्यथात्वङ्किङ्किम्वा मृद्‌द्रव्य इष्यते । घटादावन्यथात्वस्य सिद्धेर्भावः कथन्न सः ।। ५९४ ।।

यदि घटरूपे सोन्यथाभावः (।) स एवाधारोन्यथात्वस्य ततो घटः स्वेन रूपेण दृष्टः
कथमन्यथा । अथ न दृश्यते घटः कस्यासावन्यथाभावः । घटपूर्वकोन्यथाभावस्तस्येति
व्यपदेश्यः ।

ननु विनाशे सति तत्पूर्वकः सोपि विनाशोन्यथाभावेत्यनवस्था अथ मृद्‌द्रव्यस्यान्यथा
भावस्तदप्यविनष्टमेव कथन्तस्यान्यथाभावलक्षणो विनाशः । तत्रापि पूर्वस्य मृद्‌द्रव्यस्य न
विनाशस्तदाऽभावान्नोत्तरस्य भावादिति । ननु भवत्पक्षेप्ययमेव दोषः । कार्यकाले हि न
कारण्ङ्कथन्तस्य तत्कार्यं । नैतदस्ति यतः ।

कारणम्पूर्व्वभाव्येव समकालन्न कारणं । विनाशः समकालस्तु भावेनेत्यसदुत्तरम् ।। ५९५ ।।

न ह्यन्यदा भावोन्यदा विनाश इति उपपत्तिमदेतत् । यदैव भावस्तदैव विनाशे
विनष्ट इति युक्तं । न त्वभावेऽभावो युक्तो मृतस्य मरणाभावात् । कार्यन्ते मृतेपि युक्तमेव
तस्य भावान्तरत्वात् । अभावस्तु तस्यैव शून्यता । नास्ति तदिति सामानाधिकरण्येन
प्रतीतेः । असामानाधिकरण्यन्तु पदार्थस्य विनाश इति व्यपदेशिवद्भावाच्छिलापुत्रकस्य
शरीरमिति यद्वत् । न त्वेवमग्निर्धूम इति सामानाधिकरण्यं ।

नन्वत्रापि न सामानाधिकरण्यम्परमार्थतः । स्मर्यमाणं हि पूर्वकं रूपम्विनष्टमिति
प्रतीयते (।) तदुत्तरकालभाविना विनाशेन न च तथा सामानाधिकरण्यं ।

तदप्यसत् (।) एवं हि सति महान्विरोधः । तथा हि ।