अथ प्रमाणसम्वादी स वचनैकदेशस्तदा तर्हि स हेतुरुभयवादिप्रसिद्धिमध्यासीत् ।
अथ प्रमाणप्रसिद्धमपि प्रमाणवृत्तानभिज्ञत्वात्परप्रसिद्धमेव सांख्यस्य ।
तदप्ययुक्तं । एवं हि स सांख्यः स्वकौपीनमेव विवृणुयात् तथापि को दोषः ।
नहि हेतुं साधयितुमशक्त इति साध्यसाधनेपि तस्याशक्तिः । न तावत्तद्धेतोः(स्व)
प्रतिपन्नसाध्यः स्वसिद्धहेतुसद्भावात् । अथासौ निर्मुखयितुं शक्य इति प्रौढवादी ।
तदप्ययुक्तं । सिद्धो हि हेतुः साध्यं साधयितुं किमपरेण (।) तथाहि ।
साध्यवद्धेतुरपि मयैव साधयितव्य इति किमियं राजाज्ञा । नहि सर्व्वाज्ञः प्रतिपा
दयितुं शक्यः । अथ स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया साधनमुच्यत इति न्याया
दयुक्तमेतत् ।
तदपि न सम्यक् । तथा हि ।
निश्चयमात्रेण हि परस्यार्थिता न तु तत्रापरेणानुपयोगिना विशेषणेन । न ह्यनुपयोगि
विशेषणं प्रेक्षावताभ्युपगम्यते ।
अत्रोच्यते ।
न मयायम्वञ्चितः संप्रतिपत्तिरेवास्येति स्वयमप्रतियतः कथं प्रतीतिः । अथापि स्यात्
(।) किमनेन प्रतिपत्तिमात्रकं परस्य भवतु तावता चरितार्थं वादिवचनमिति क इवात्र दोषः ।
एवन्तर्हि इदमपि भवेदुत्तरं ।
यं कञ्चित्साधनाभासं प्रपञ्चेनामिधाय मया त्वं प्रतिपादित इति यदा ब्रवीति तदा
तस्य किमुत्तरम्वक्तव्यं । तत्र दूषणं वक्तव्यमिति चेत् । न(।) दूषणेन वादिनो प्रतिपत्तिर्व्वि
धातव्या । स च वादी तदेदमुत्तरं दद्यान्मम प्रतिपत्त्या किम्भवतः प्रयोजनमिति प्रमाप्येवम
प्रतिपत्तिरिति चेत् ब्रूयात् । परस्मै तर्हि दूषणन्न निवेदनीयम् । अप्रतिपत्तिर्ममात्रेत्येतावदेव
वक्तव्यम् । न सोपपत्तिकाऽप्रतिपत्तिरिति दर्शनार्थं दूषणमपि वक्तव्यमेव । एवन्तर्हि ।
यथा ममात्रैवं प्रतिपत्त्यभाव इति सोपपत्तिकं प्रतिवादिना कथयितव्यं । तथा वादि
नापि सोपपत्तिकं साधनमन्यथा यथा ममात्राप्रतिपत्तिस्तथा परस्यापि कदाचिदिति शङ्का
नापगच्छेत् । नहि परार्थवृत्तिः परार्थप्रसिद्धिनिःश्रयमकृत्वा परितोषभागी । न च विजि
गीषुतामात्रेण पण्डिताः प्रवर्त्तन्ते शास्त्राणि वा तदर्थानि तत्त्वावतारार्थत्वात् । तस्मात्
स्वपप्रतिपन्न एवं भवत्यनेन प्रतिपन्नमेतत् अप्रतिपन्नं1118 त्वस्यासत्त्यवचनमेव स्वप्रतिपत्तिमन्तरेण
-
१ B. अप्रतिपत्तिप्रतिपादनं ।
↩