साधनसम्भवः । इदञ्च तत्प्रसङ्गसाधनं । देशकालावस्थाविशेषनियतैक (व्यक्ति)संसर्गव्य
वच्छिन्नस्वभावान्तरविरहादनेकवृत्तेरेकस्य न देशादिविशेषवताऽन्येन योगः । तथाऽभेदात्सर्व्व
रागोऽवयवरागेपीत्यादि । यतस्तथाभूतस्वभावस्य विरोधांद्भिन्नदेशादियोगेन ।
(१) कालनिरासः—
नन्वेकमपि व्यापित्वादनेकदेशादियोगि यदि को विरोधः । न (।) अनेककालयोगस्य
द्रष्टुमशक्यत्वात् । नहि पूर्व्वापरकालव्यापिता प्रत्यक्षत उपलभ्यते । पूर्व्वापरभावस्य
कल्पनाविषयत्वात् । यस्यातीतं दर्शनं स पूर्व्वकालो यस्यानागतं स उत्तरकालः । न च
तत्कालदृश्यपदार्थव्यतिरेकेणापरः कालः ।
ननु कालाभावात्कथं पूर्व्वापरव्यवहारः । तथा दिगभावात् । कालेपि सति कथं
पूर्व्वापरव्यवहारः । नहि कालसङ्गत इत्येव पूर्व्वादिव्यवहारविषयो वर्त्तमानेपि प्रसङ्गात् ।
कालभेदादिति चेत् । तथाहि ।
पूर्वकालभावी पूर्व्वः । तथा परकालभावी पर इत्यादि । काल एव कथं पूर्व्व इति
चेत् । स्वरूपत एव कालस्य पूर्व्वादित्वं । तथा दिशः ।
तदेतदसत्त्यं । यतः ।
सहचारिणां हि रागादीनां पूर्व्वादित्वाद्व्यापिनोरपि दिक्कालयोस्तथात्वमिति का
व्याहतिः । न खलु सहचारिणा कश्चिन्न व्यपदिश्यते । मञ्चाः क्रोशन्तीति यथा । तथा
त्रापि गतः स काल इति व्यपदेशः । तदत्रेतरेतराश्रयदोषस्त्वरितं भवन्तमनुधावति ।
न यावत्कालस्य पूर्व्वादित्वं न तावत्सहचारिणामित्यप्रसिद्धिः समीहितस्य । अथ
द्वयोरपि समानकालापूर्व्वादिता (।) तथा सति समानकालयोः1134 परस्परव्यापाराप्रतिपत्तेर्न्न परस्य
रकृतत्वमिति स्वहेतुसमुत्थः स स्वभाव इति पदार्थानामेव स पूर्व्वादिताभाव इति व्यर्थिका
कालपरिकल्पना । तथाहि । यदतीतं वस्तु तत्पूर्व्वमुच्यते । यदनागतं तत्परं यत्सत्तद्वर्त्तमानं ।
ननु (च) कालाभावादेतदेव कथं । कालसद्भावेपि कथमित्येतदपि प्रतिपादितमेवेति
नोत्तरं । किञ्च ।
पूर्व्वापरमध्यभावो हि सहसद्वयवस्थया । सा च कारणभावाभावाभ्यां । तदपि
कारणं स्वकारणादेव भावाभाववदिति नादृष्टस्य कल्पना युक्तिमती ।
-
१ B कालः
↩