अथ क्रिया नामेयमसत्त्वभूता तेन न प्रत्यक्षत उपलभ्यते । ननु यदि नामासत्त्वभूता
तथापि लिङ्गादियोगो मा भूत् । पदार्थव्यतिरिक्तत्वे तु प्रत्यक्षत उपलम्भको विरोधः ।
ततः कल्पितक्रियाविशेष एव चिरक्षिप्रादयो न तात्त्विकाः ।
कथमेवमित्याद्यर्थवत् । तथा हि ।
यदि यो य एव विकल्प उदयवान् तदर्थरूपः स एव पदार्थः कल्पनाविषयः पारमार्थिकः
तदैवमादयोपि पदार्थाः स्युः चेत्क्वान्तर्भाव्यंताम् । नहि कालादयस्तन्निबन्धनमिष्यन्ते ।
नापि प्रतीयन्ते । अथ ते क्रियाविशेषा एव तथा सति चिरादयोपीति व्यर्थकः कालादिकल्पना
प्रयासः ।
तस्मात्पूर्व्वापरकालभूतपदार्थग्रहणाभावात्प्रत्यक्षेणाग्रहणमेव व्यापिनः ।
(३) सामान्यनिरासः—
अथ कालव्याप्तेरग्रहणेपि देशव्याप्तिग्रहणमविरोधीति मतिः । न (।) तत्रापि तदा
धारव्यतिरेकेण सामान्यादेरनुपलम्भात् । तथाभूतस्वभावस्य विरोधाद्भिन्नदेशादियोगेन ।
न हि तत्रानुप्रविष्टमन्यत्रापि तदा1138 भवति भेदाभावेन सर्व्वानुप्रवेश एकपिण्डता स्यात् । न
हि तदाधाराननुप्रवेशे तदनुप्रविष्टानुप्रवेशः ।
अथ समानमेतद् द्वयमिति धीरुदेति ततः सामान्यं भिन्नाभिन्नं । अत्रोच्यते ।
अनुगताकारा धीरुदयमासादयतीति कोस्य भाषितस्यार्थः । नहि वचनमविवेचितार्थमेव
यथाकथञ्चित् प्रतीयमानार्थमर्थस्य सत्त्यतां विदधाति । विवेचनञ्च समानकारा धीरिति
शब्दस्यार्थस्य प्रकारद्वित्वेन । कदाचित् स्वरूपसमानत्वात्समानाकारार्थाकारसमानत्वाद्वा
प्रकारान्तरासम्भवात् । स्वरूपसमानाकारत्वे स्वरूपमेव तद्भवेत् नार्थः समानाकारयोगीति
सामान्यमर्थः । स च बुद्ध्याकारः स्वलक्षणमेव न तत् सामान्यं । बुद्ध्यन्तरस्य तदभावा
दर्थगतत्वाभावाच्च ।
अथार्थाकार एव समान इति तदाकारा धीरिति वचः । तदप्यसत्त्यं । आकारद्वय
प्रतिभासनप्रसङ्गात् । प्रतिभासत एव तदाकारद्वयमिति चेत् । न (।) यतः ।
ततः समानाकारा धीरिति व्याकुलेयं धीरधियः । अतो न सामान्यं ।
अथ सास्नादिमत्त्वेन समानाकारता तदव्यतिरिक्तलक्षणं सामान्यं देशकालविनियत
व्यक्त्यन्तरेण युक्तमिति न दोषः । असदेतत् । यतः ।