(३) सामान्यनिरासः—
अथ कालव्याप्तेरग्रहणेपि देशव्याप्तिग्रहणमविरोधीति मतिः । न (।) तत्रापि तदा
धारव्यतिरेकेण सामान्यादेरनुपलम्भात् । तथाभूतस्वभावस्य विरोधाद्भिन्नदेशादियोगेन ।
न हि तत्रानुप्रविष्टमन्यत्रापि तदा1138 भवति भेदाभावेन सर्व्वानुप्रवेश एकपिण्डता स्यात् । न
हि तदाधाराननुप्रवेशे तदनुप्रविष्टानुप्रवेशः ।
अथ समानमेतद् द्वयमिति धीरुदेति ततः सामान्यं भिन्नाभिन्नं । अत्रोच्यते ।
अनुगताकारा धीरुदयमासादयतीति कोस्य भाषितस्यार्थः । नहि वचनमविवेचितार्थमेव
यथाकथञ्चित् प्रतीयमानार्थमर्थस्य सत्त्यतां विदधाति । विवेचनञ्च समानकारा धीरिति
शब्दस्यार्थस्य प्रकारद्वित्वेन । कदाचित् स्वरूपसमानत्वात्समानाकारार्थाकारसमानत्वाद्वा
प्रकारान्तरासम्भवात् । स्वरूपसमानाकारत्वे स्वरूपमेव तद्भवेत् नार्थः समानाकारयोगीति
सामान्यमर्थः । स च बुद्ध्याकारः स्वलक्षणमेव न तत् सामान्यं । बुद्ध्यन्तरस्य तदभावा
दर्थगतत्वाभावाच्च ।
अथार्थाकार एव समान इति तदाकारा धीरिति वचः । तदप्यसत्त्यं । आकारद्वय
प्रतिभासनप्रसङ्गात् । प्रतिभासत एव तदाकारद्वयमिति चेत् । न (।) यतः ।
ततः समानाकारा धीरिति व्याकुलेयं धीरधियः । अतो न सामान्यं ।
अथ सास्नादिमत्त्वेन समानाकारता तदव्यतिरिक्तलक्षणं सामान्यं देशकालविनियत
व्यक्त्यन्तरेण युक्तमिति न दोषः । असदेतत् । यतः ।
एकत्वादाकृतेरेकाकृतिग्रहणेपि सर्व्वाकृतिमदर्थपरिग्रहप्रसङ्गः । अथ गृह्यत एवाकृति
राकृतिमतस्तु ग्रहणासम्भवः तद्भेदात् । नहि भिन्नं ग्रहीतुं शक्यमन्यत्तु तादात्म्यादेव गृह्यते ।
तदप्यसत् ।
तदात्मा नामा1141 कृत्यन्तरेणाकृत्यन्तरस्य तादात्म्यं । तदाकृत्यन्तरमाकृतिमता तदात्मक
मिति तदात्मकाकृतिमद्ग्रहणं । यदि1142 चाकृतिमतस्तदभिन्नस्य न ग्रहणं आकृत्यन्तरग्रहणेपि
तदन्तरग्रहणन्न भवेत् न ह्यभेदो ग्रहणनिबन्धनमाकृतिमदग्रहणात् ।
अथ तद्भेदादाकृत्यन्तरमेव तन्न भवति । एवन्तर्ह्याकृत्यभेदादाकृतिमदन्तरमपि न1143 भवेत् ।
एतेना भाष्यकारवचनं निरस्तं । न ह्येकत्रोत्सन्ना सर्व्वत्रोत्सन्ना भवति । व्यक्त्यन्त
रन्नो1144 पलभ्यते । न ह्याकृत्यभेदात्तदभिन्नं व्यक्त्यन्तरं भवत्याकृत्यन्तरवदेव ।
अथाकृतिमदन्तरमेव भवति कार्ष्ण्यादिभेदात् । नाकृत्यन्तरं (।) तदसत् ।
यदि कृष्णत्वादिकमन्यदेवाकृतिमतः कथन्तद्भेदाद्भेदः । न ह्यन्यद्भिन्नमन्यद्भिनत्ति ।
कारणत्वेन भिनत्येवं चेत् । न । कारणत्वाभावात् । नहि गुणा एव द्रव्यस्य कारणं
तदेकयोगक्षेमतयोदयात् । कारणत्वे वा तस्मादपरो भिन्न उदेति तस्याप्यपरेण संसर्गिणा
भेदकेन भवितव्यं । न च कारणमेव संसर्गि । अन्यथाऽग्निरपि धूमस्य संसर्गी भवेत् ।
नैवमदृष्टेरिति चेत् । संसर्गिणोपि तर्हि कारणत्वं न दृष्टमिति न कारणत्वं कल्पनीयं ।
आकृतिमतो (ऽ) भिन्नं कार्ष्ण्यादिकं ततो भिन्नादभिन्नं यत्तदपि भिन्नमित्याकृतिमतो
भेदः । आकृतेरपि तर्हि तदभेदाद्भेदप्रसङ्गः । आकृतिरपि नाकृतिमतो भिद्यते । ततश्च
भिन्नादभिन्ना भिन्ना भवत्याकृतिमदन्तरादाकृतेश्च । आकृतिरभिन्नैव चेत् । न ह्याकृतेर्ग्गु
णभूताया गुणेन कृष्णत्वादिना संसर्गः । गुणानां परस्परमसमवायात् । गुणवति समवायस्तु
गुणानामिति समयः । न युक्तमेतत् ।
तत्रापि दोषस्य दृशा पुनः पूर्व्वसमाश्रयात्
तस्मान्न सामान्यमाकृति लक्षणमपि ।
एतेन प्रधानलक्षणमपि प्रत्युक्तं । तस्याप्यन्वये सकलतदवस्थाग्रहात् सर्व्वस्य
सर्व्वदर्शित्वप्रसङ्गः । तदवस्थानां प्रधानरूपादतत्त्वान्तरत्वात् ।
अथ परमार्थतः सर्व्वमेव प्रतिभासितं भ्रान्त्या त्वप्रतिभास इति विभ्रमः । तदप्ययुक्तं ।
यतः ।
इदमत्र विरुद्धं । यदुच्यते ।
यतः ।
तस्मात्प्रधानलक्षणमपि न सामान्यं ।
अथापि स्याद्यद्यपि न सामान्यं कालभेदभिन्नव्यक्तिव्यापि गृह्यते । पूर्व्वापरभावे
प्रत्यक्षस्या (प्र)वृत्तेः । समानकालभिन्नदेशव्यक्तिव्यापि तु गृह्यत एव ।
तदप्यसत् । यस्मात् ।
श्वेतच्छागमालभेतेति पूर्व्वदृष्टालम्भनस्य तदेवेदमिति जात्यन्वयादालम्बनार्थं तद्व्यव
हारार्थिभिः सामान्यमिष्यते (।) युगपद् दृष्टयोश्च न तद्व्यवहारोपयोगिता । द्वयोरपि
पूर्व्वनुसारेण तज्जातितया प्रतीतेः । न च पूर्व्वापरयोरपि पूर्व्वोत्तरव्यक्तिस्पष्टेतराकारव्यति
रेकादपरं सामान्यमीक्ष्यते । तथ समानकालयोरपि स्पष्टद्वयाकारात् । कथन्तर्हि समाना
वेताविति प्रत्ययः । अयं प्रत्ययः पूर्व्वोत्तरकालभाविनोरपि समानः । तथा हि ।
तत्र नास्ति समाना (? समा)कारः प्रत्यक्षेण समीक्षितः ।
समानकालव्यक्तीनामपि नेक्षणमक्षतः ।
साम (ा) न्यस्येति वाक्यशेषः । न समानाकारता पूर्व्वापरव्यक्तिवत्समानकालानामपि
निरूप्यते व्यतिरेकिणी । प्रत्यय एवायं केवलः प्रतीयमानस्यादृष्टेः । नहि प्रतीयमानाकार
विनाकृतः प्रत्ययः प्रत्येति किञ्चित् ।
प्रत्ययः समानाकारः स निरालम्बनोदयः (।)
यः समानाकारः स सकलो1146 निरालम्बनः प्रत्ययः । तत्र ग्राह्याप्रतिभासात् । तद्यथा
भिन्नकालव्यक्तिसामान्यालम्बनाभिमतः अप्रतिभासमानसामान्याकारश्च समानकालव्यक्ति
सामान्यविषयोपि प्रत्यय इति स्वभावहेतुः ।
अथ स प्रत्ययः समानतामन्तरेण सर्व्वस्य विलक्षणत्वात् कथमुदयी । तदपि यत्किञ्चित् ।
481नाहेतुको नियम इति हेतुरेव परिकल्पनामर्हति1147 । सामान्यस्य तु किमायातं । अथवा
तदन्यव्यावृत्तिमात्रमेवास्तु सामान्यमिति न क्षतिः । सा चारूपेति प्रतिपादितं । अपि च ।
व्यवहारमात्रमविचारितततत्त्वयापि जात्या सम्पद्यत एव किमपरः परत्र1148 प्रयास
आस्थीयते ।
धर्मादिसाधनत्वं हि जातेः स्वरूपेण प्रसिद्धादपि1149 न विवेकेन गम्यते जात्यन्तरा
दभेदात् । न च तथाऽप्रसिद्धा सती कार्योपयोगिनीति व्यर्थ एव जातिग्रहः ।
अथवा तथाभूतप्रत्ययविशेषोपलक्षितव्यक्तीनामेव धर्मादिसाधनत्वमिति तदेव सामान्यं
अथ यदि सामान्यं नित्त्यं व्यापि न भवेत्समानाकार एव व्यापी न भवेत् प्रत्ययः ।
तदयुक्तं ।
न च समानाकारप्रमेयानुभवः । तथा च प्राक् प्रतिपादितं । तस्मात् प्रत्यक्षतोऽ
ननुभवादभाव एव सामान्यस्य । दृश्यमानस्यापि रूपस्य तदपरसाधारणत्वेनाननुभवात्
(अ) सामान्यं ।
नन्वेकव्यक्तिनिष्ठत्वात्सामान्यस्य धर्मिणोऽभावाद् भवतो धर्मिणोऽसिद्धत्वादाश्रया
सिद्धता ।
न सदेतत् ।
यद्येवमेकव्यक्तिनिष्टत्वं तदा न देशविशेषवतान्येन योगः । न चोभयमिति स्यात् ।
ननु यद्यन्येनयोग एकव्यक्तिनिष्ठत्वं न स्यात् सिद्धसाव्यता नैकस्यां व्यक्तौ स्थितिः
सर्व्वव्यक्तिव्यापित्वात् । नैकस्यामेव व्यक्तौ स्थितं सामान्यमिष्यते । नैष दोषः ।
यदि व्यापि सामान्यं व्यापितयैवाध्यक्षणे प्रमाणेन गृह्येत । न खलु विपरीतग्रहणं
प्रमाणम् । यदि च व्यापिता प्रतीयते सकलव्यक्तिप्रतीतिरेव भवेत् । व्याप्यग्रहणे व्यापकताया
अप्रतीतेः । न च प्रतीयते ततो न तथारूपं । तेन सामान्यमेव नास्तीत्युभयधर्मनिवृत्तिः ।
यद्ययं स्थितपक्षः स्याद्भवेद्धर्म्यसिद्धिदोषः परस्परविरोधप्रकटनपरमेवैतत् । न वयमेव
म्भूतमर्थं प्रतिपत्तुं क्षमाः । एवम्भूतस्यापरस्यादर्शनात् । अनुमानञ्च न दृष्टान्तम्वि
नावतरति ।
अथ सामान्यमन्यथानुपपत्त्या प्रतीयमानं सकलापरपदार्थविलक्षणमेव न तस्यान्य-
482धर्मविरोधेन विरोध उद्भावनीयः । न ह्यन्यधर्मोन्यस्य युक्तः । नहि मूर्त्तपदार्थधर्मा
अमूर्त्ते सामान्ये योजनीयाः । नैतदस्ति । यतः ।
येपि खल्वमूर्त्तिसङ्गता अन्त्या विशेषास्तेपि प्रतिनियताधिष्ठाना न व्यापिनः । तथा
सामान्यमपि नामूर्त्तदव्यापितामतिक्रामेत् ।
अथ सविशेषोऽमूर्त्तत्वेप्यव्यापी तत्त्वादेव । न तर्हि मूर्त्तेतरस्वभावकृतोयं विभागः ।
सामान्यविशेषभाव एव तर्हि व्यापितेतरत्वे निबन्धनम्भवतु को दोष इति चेत् । नन्वसिद्धिरेव ।
ननु सामान्यं सिद्धमेव त्वयापि धर्मितयोपादानात् । नैतदस्ति । यतः ।
गृह्यत इति वाक्यशेषः (।) स्वरूपेण हि गृह्यमाणं सामान्यं व्यपितयेतरथा वा गृह्येत ।
अथ व्यक्तयो न गृह्यन्ते । तथा तर्हि सामान्यमेकव्यक्तिसमन्वितं गृह्यमाणं कथं
व्यापितया गृहीतं । एकव्यक्तिविशेषणत्वे तद्व्यक्तिविशेषणं विशेषवदसामान्यं भवेत् ।
अथ पर्यायान्तरेण व्यक्त्यन्तरविशेषणताग्रहणमपि । तथा सति तदेवेदं सामान्यमिति कथं
गतिः । तदेवेदमिति प्रतीतिर्न्नाध्यक्षेति विचारितं । तस्मादसिद्धमेव सामान्यरूपत्वं कथं
व्यापितासाधनं । तस्मात् ।
नामूर्त्तत्वान्न सामान्याद्व्यापितासाधनं क्वचित् ।
यदि सामान्यमसिद्धं कथम्भवता सामान्यविषयव्यापित्वं साध्यते । धर्मित्वेन
सामान्यस्योपादाने तत्र धर्मस्यं कस्यचित्साधनं नान्यथा ।
न सदेतत् । यतः । उक्तमेतत् । प्रसङ्गसाधनमेतत् । न त्वयं मौलो हेतुः ।
यदि त्वया सामान्यं व्याप्यभ्युपगम्यते प्रमाणेन तत्प्रतिपत्तव्यं । प्रत्यक्षस्य तदादिना1151 प्रमाण
निबन्धनत्वादभ्युपगमस्य । देशकालावच्छिन्नैकव्यक्तिसंसर्गावच्छिन्नस्वभावान्तरविरहतया
च प्रतीयमानं कथं व्यापि तदिति अभ्युपगन्तुं युक्तं । प्रत्यक्षेण चानेकवस्तुग्रहणेन तद्व्य
तिरिक्तं अन्यथा वा प्रतीयत इति नाप्रतीयमानाभ्युपगमो युक्तः । आकृतिरेव सामान्यमुपल
भ्यमानेति चेत् । न (।) आकृतेर्व्यापित्वाभावात् । व्यापित्वेनोपलम्भे सकलव्यक्त्युपलम्भः
स्यात् । तथा च देशकालभिन्नसकलव्यक्तिप्रतीतिप्रसङ्गः । एकव्यक्तिनिष्ठत्वे चाकृतेर (प्य)
यापिता साधने धर्म्यसिद्धिरपि परिहृतैव । कथन्तर्हि प्रसङ्गसाधनमेतत् । परेणाकृतिरेवसामा
न्यमभ्युपगतं अन्येनान्यदिति प्रसङ्ग(ा)साधनता ।
अथवा व्यापित्वात् नैकव्यक्तिनिष्ठतयोपलम्भः स्यादिति प्रसङ्गार्थः । विपर्यस्तु
मौलो हेतुः । प्रसङ्गस्तु मौलस्तु हेतोर्व्याप्तिसाधनार्थ एव । अन्ये तु विरहादिति मौलो हेतुः ।
प्रसङ्गस्तन्नीयमान एव । मौलनिष्ठताञ्च दर्शयितुमेवमुपन्यासः । विरहादिति च हेतुः
प्रसज्य प्रतिषेधरूपः । स चाभावेपि सामान्यस्य सिद्ध एव । न ह्यभावे हेतौ वस्तुरूपो
धर्म्यभ्युपगम्यते ।
तदभावाच्च तन्नेति वचना (द) पि तद्गतेः ।
तदसदेव ।
विरहमात्रकस्य हेतुत्वे तस्य केनचिदसम्बन्धात्कथं साध्यसाधनं । अथ व्यक्त्यन्तर
संसर्ग्गविरहस्तदापि कस्यासाविति निरूप्यमेव । तस्मान्नियमेन परोक्तेन सामान्येन बुद्धिस्थेन
भवितव्यम् । न च पक्षधर्मोपसंहारमन्तरेण हेतुः समर्थः साध्यसाधनाय ।
अथान्यापोहलक्षणं सामान्यं सिद्धं सौगतानां तथासति परस्येष्टमेव । पराभ्युप
गतस्य तेनापि दूषयितुमभिप्रेतत्वात् । अपि चान्यापोहलक्षणस्य सामान्यस्य व्यापितेष्यत
एव । तथाहि । व्यावृत्त्यापि समानता ।
अथ सामान्यस्याविद्यमानस्यापि विरहलक्षणो हेतुरस्त्येवेति ।
तदप्यसत् । अविद्यमानस्य हेतुत्वायोगात् । अविद्यमाने साध्ये योग एवेति चेत् ।
न । प्रतिबन्धे सत्येकाभावोन्याभावं गमयेत् । प्रतिबन्धश्चान्वयेन गृह्यते । अतस्तत्साम
र्थ्याद्यत्र व्यापको नास्ति तत्र व्याप्याभाव इति विपक्षेऽभावमात्रमादर्श्यते । न स मौलो हेतुः ।
अथ व्यापकतानुपलब्धिरपि प्रतिनियतवस्तुविषयाभावसाधनायोपादीयते । तथा सति
नात्र शिंशपेति न्यायादन्येन धर्मिणा भवितव्यं प्रमाणप्रसिद्धेन । अथात्रापि भावाभावसाधारणं
धर्मींत्युपादीयते ।
तदप्ययुक्तं । भावाभावसाधारणस्यापरस्याभावात् । विकल्पप्रतिभास एवोभयधर्मः
साधारण इति चेत् । एवं तर्हि (।)
तस्मिन्भावानुपादाने साध्येऽस्यानुपलम्भनं ।
अन्य एव हेतुरिति यत्किञ्चिदेतत् । तस्मान्नात्र मौलो हेतुः । सामान्यस्य धर्मिणः
सिद्धेरभावात् ।
रूपादय एव सामान्यमिति पक्षे नेदं प्रसङ्गसाधनं । प्रत्यक्षेण तेषामव्यापिताप्रतीतेः ।
तस्मादुभयवादिसिद्धि एव हेतुर्न्न त्वन्यतरस्य प्रतिवादिन एव ।