प्रसज्य प्रतिषेधरूपः । स चाभावेपि सामान्यस्य सिद्ध एव । न ह्यभावे हेतौ वस्तुरूपो
धर्म्यभ्युपगम्यते ।
तदभावाच्च तन्नेति वचना (द) पि तद्गतेः ।
तदसदेव ।
विरहमात्रकस्य हेतुत्वे तस्य केनचिदसम्बन्धात्कथं साध्यसाधनं । अथ व्यक्त्यन्तर
संसर्ग्गविरहस्तदापि कस्यासाविति निरूप्यमेव । तस्मान्नियमेन परोक्तेन सामान्येन बुद्धिस्थेन
भवितव्यम् । न च पक्षधर्मोपसंहारमन्तरेण हेतुः समर्थः साध्यसाधनाय ।
अथान्यापोहलक्षणं सामान्यं सिद्धं सौगतानां तथासति परस्येष्टमेव । पराभ्युप
गतस्य तेनापि दूषयितुमभिप्रेतत्वात् । अपि चान्यापोहलक्षणस्य सामान्यस्य व्यापितेष्यत
एव । तथाहि । व्यावृत्त्यापि समानता ।
अथ सामान्यस्याविद्यमानस्यापि विरहलक्षणो हेतुरस्त्येवेति ।
तदप्यसत् । अविद्यमानस्य हेतुत्वायोगात् । अविद्यमाने साध्ये योग एवेति चेत् ।
न । प्रतिबन्धे सत्येकाभावोन्याभावं गमयेत् । प्रतिबन्धश्चान्वयेन गृह्यते । अतस्तत्साम
र्थ्याद्यत्र व्यापको नास्ति तत्र व्याप्याभाव इति विपक्षेऽभावमात्रमादर्श्यते । न स मौलो हेतुः ।
अथ व्यापकतानुपलब्धिरपि प्रतिनियतवस्तुविषयाभावसाधनायोपादीयते । तथा सति
नात्र शिंशपेति न्यायादन्येन धर्मिणा भवितव्यं प्रमाणप्रसिद्धेन । अथात्रापि भावाभावसाधारणं
धर्मींत्युपादीयते ।
तदप्ययुक्तं । भावाभावसाधारणस्यापरस्याभावात् । विकल्पप्रतिभास एवोभयधर्मः
साधारण इति चेत् । एवं तर्हि (।)
तस्मिन्भावानुपादाने साध्येऽस्यानुपलम्भनं ।
अन्य एव हेतुरिति यत्किञ्चिदेतत् । तस्मान्नात्र मौलो हेतुः । सामान्यस्य धर्मिणः
सिद्धेरभावात् ।
रूपादय एव सामान्यमिति पक्षे नेदं प्रसङ्गसाधनं । प्रत्यक्षेण तेषामव्यापिताप्रतीतेः ।
तस्मादुभयवादिसिद्धि एव हेतुर्न्न त्वन्यतरस्य प्रतिवादिन एव ।
३. अर्थग्रहणफलम्
ननु य उभयसिद्धः सोऽर्थ एव किमर्थमर्थग्रहणं । नैतदस्ति । यतः ।
तत उभयसिद्धत्वेपि पक्षसपक्षान्यतरत्वादेरर्थत्वाभावादहेतुत्वं यतः ।