एकत्वादाकृतेरेकाकृतिग्रहणेपि सर्व्वाकृतिमदर्थपरिग्रहप्रसङ्गः । अथ गृह्यत एवाकृति
राकृतिमतस्तु ग्रहणासम्भवः तद्भेदात् । नहि भिन्नं ग्रहीतुं शक्यमन्यत्तु तादात्म्यादेव गृह्यते ।
तदप्यसत् ।
तदात्मा नामा1141 कृत्यन्तरेणाकृत्यन्तरस्य तादात्म्यं । तदाकृत्यन्तरमाकृतिमता तदात्मक
मिति तदात्मकाकृतिमद्ग्रहणं । यदि1142 चाकृतिमतस्तदभिन्नस्य न ग्रहणं आकृत्यन्तरग्रहणेपि
तदन्तरग्रहणन्न भवेत् न ह्यभेदो ग्रहणनिबन्धनमाकृतिमदग्रहणात् ।
अथ तद्भेदादाकृत्यन्तरमेव तन्न भवति । एवन्तर्ह्याकृत्यभेदादाकृतिमदन्तरमपि न1143 भवेत् ।
एतेना भाष्यकारवचनं निरस्तं । न ह्येकत्रोत्सन्ना सर्व्वत्रोत्सन्ना भवति । व्यक्त्यन्त
रन्नो1144 पलभ्यते । न ह्याकृत्यभेदात्तदभिन्नं व्यक्त्यन्तरं भवत्याकृत्यन्तरवदेव ।
अथाकृतिमदन्तरमेव भवति कार्ष्ण्यादिभेदात् । नाकृत्यन्तरं (।) तदसत् ।
यदि कृष्णत्वादिकमन्यदेवाकृतिमतः कथन्तद्भेदाद्भेदः । न ह्यन्यद्भिन्नमन्यद्भिनत्ति ।
कारणत्वेन भिनत्येवं चेत् । न । कारणत्वाभावात् । नहि गुणा एव द्रव्यस्य कारणं
तदेकयोगक्षेमतयोदयात् । कारणत्वे वा तस्मादपरो भिन्न उदेति तस्याप्यपरेण संसर्गिणा
भेदकेन भवितव्यं । न च कारणमेव संसर्गि । अन्यथाऽग्निरपि धूमस्य संसर्गी भवेत् ।
नैवमदृष्टेरिति चेत् । संसर्गिणोपि तर्हि कारणत्वं न दृष्टमिति न कारणत्वं कल्पनीयं ।
आकृतिमतो (ऽ) भिन्नं कार्ष्ण्यादिकं ततो भिन्नादभिन्नं यत्तदपि भिन्नमित्याकृतिमतो
भेदः । आकृतेरपि तर्हि तदभेदाद्भेदप्रसङ्गः । आकृतिरपि नाकृतिमतो भिद्यते । ततश्च
भिन्नादभिन्ना भिन्ना भवत्याकृतिमदन्तरादाकृतेश्च । आकृतिरभिन्नैव चेत् । न ह्याकृतेर्ग्गु
णभूताया गुणेन कृष्णत्वादिना संसर्गः । गुणानां परस्परमसमवायात् । गुणवति समवायस्तु
गुणानामिति समयः । न युक्तमेतत् ।
तत्रापि दोषस्य दृशा पुनः पूर्व्वसमाश्रयात्
तस्मान्न सामान्यमाकृति लक्षणमपि ।
एतेन प्रधानलक्षणमपि प्रत्युक्तं । तस्याप्यन्वये सकलतदवस्थाग्रहात् सर्व्वस्य
सर्व्वदर्शित्वप्रसङ्गः । तदवस्थानां प्रधानरूपादतत्त्वान्तरत्वात् ।