480

अथ परमार्थतः सर्व्वमेव प्रतिभासितं भ्रान्त्या त्वप्रतिभास इति विभ्रमः । तदप्ययुक्तं ।
यतः ।

सर्व्वस्याप्रतिभासः किं प्रतिभासेपि वा भ्रमः । प्रमाणमत्र नास्त्येव केवला कल्पनैव तु ।। ५४ ।।
कारणे शक्तिरूपेण सर्व्वेषामेव या स्थितिः । ततः प्रधानन्तत्सर्व्वजगतामुद्योद्यः ।। ५५ ।।
तदेव यदि सामान्य व्यापि नित्यतया स्थितेः । व्यक्तिर्व्यक्तिर्दृश्यमानापरस्परविभेदतः ।। ५६ ।।

इदमत्र विरुद्धं । यदुच्यते ।

गुणानां सुमहद्रूंप न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकं ।। ५७ ।।

यतः ।

कार्यद्वारेण यत्कल्प्यं तस्य तुच्छतया ननु । तस्यापि तुच्छता हेतौ तद्रूपस्यैव सम्भवात् ।। ५८ ।।
अथान्यदेव सत्कार्यवादः सम्प्रति हीयते । यच्च नैवेक्ष्यते वस्तु तदेवापारमार्थिकं ।। ५९ ।।

तस्मात्प्रधानलक्षणमपि न सामान्यं ।

अथापि स्याद्यद्यपि न सामान्यं कालभेदभिन्नव्यक्तिव्यापि गृह्यते । पूर्व्वापरभावे
प्रत्यक्षस्या (प्र)वृत्तेः । समानकालभिन्नदेशव्यक्तिव्यापि तु गृह्यत एव ।

तदप्यसत् । यस्मात् ।

भिन्नकालभवव्यक्तिव्याप्तेरग्रहणे सति । न सामान्योपयोगोस्ति व्यवहारस्तथा न हि ।। ६० ।।

श्वेतच्छागमालभेतेति पूर्व्वदृष्टालम्भनस्य तदेवेदमिति जात्यन्वयादालम्बनार्थं तद्व्यव
हारार्थिभिः सामान्यमिष्यते (।) युगपद् दृष्टयोश्च न तद्व्यवहारोपयोगिता । द्वयोरपि
पूर्व्वनुसारेण तज्जातितया प्रतीतेः । न च पूर्व्वापरयोरपि पूर्व्वोत्तरव्यक्तिस्पष्टेतराकारव्यति
रेकादपरं सामान्यमीक्ष्यते । तथ समानकालयोरपि स्पष्टद्वयाकारात् । कथन्तर्हि समाना
वेताविति प्रत्ययः । अयं प्रत्ययः पूर्व्वोत्तरकालभाविनोरपि समानः । तथा हि ।

तत्र नास्ति समाना (? समा)कारः प्रत्यक्षेण समीक्षितः ।

समानकालव्यक्तीनामपि नेक्षणमक्षतः ।

साम (ा) न्यस्येति वाक्यशेषः । न समानाकारता पूर्व्वापरव्यक्तिवत्समानकालानामपि
निरूप्यते व्यतिरेकिणी । प्रत्यय एवायं केवलः प्रतीयमानस्यादृष्टेः । नहि प्रतीयमानाकार
विनाकृतः प्रत्ययः प्रत्येति किञ्चित् ।

प्रत्ययः समानाकारः स निरालम्बनोदयः (।)

तद््ग्राह्याप्रतिभासित्वात् पूर्व्वोत्तरविशे (ष) वत् ।। ६१ ।।

यः समानाकारः स सकलो1146 निरालम्बनः प्रत्ययः । तत्र ग्राह्याप्रतिभासात् । तद्यथा
भिन्नकालव्यक्तिसामान्यालम्बनाभिमतः अप्रतिभासमानसामान्याकारश्च समानकालव्यक्ति
सामान्यविषयोपि प्रत्यय इति स्वभावहेतुः ।

अथ स प्रत्ययः समानतामन्तरेण सर्व्वस्य विलक्षणत्वात् कथमुदयी । तदपि यत्किञ्चित् ।

  1. १ B. सर्वो