472

तु यदि परो नाभ्युपगच्छेत् न प्रतिपादयिता वादी स्यात् । को हि भङ्गमात्मन इच्छेत् ।
स्वप्रतीते तु प्रमाणेनानभ्युपगमेपि प्रतीयतेऽसत्त्यवादिता परस्य ।

अथ स्वप्रतीतेपि परेण प्रतिपन्नमिति कथं प्रतिपत्तिः । यदि नाम प्रतिवादिनो प्रतीतिः
प्राश्निकाः प्रत्येष्यन्ति । प्राश्निकैः प्रतिपन्नं तेन यदि न प्रतीयते तदा तस्य सामग्री नास्ति न
वादिनो दोषः ।

नान्धाय दुग्धाकथने प्रतिपादकताक्षयः । चक्षुर्न्न वादिना देयं केनचित्प्रतिवादिने ।। २१।।

सितं दुग्धमिति कथने यदि न प्रत्येति चक्षुर्वैकल्यात् प्रतिवादिन एवान्धस्य दोषः । कथमत्र
दोषः प्रतिपादयितुः । प्राश्निकैः प्रतिपन्नं भवतु तावता चरितार्थम्वादिवचनम् । अथाप्युच्येत ।

परार्थकारिणामेतत्करुणाकृष्टचेतसां । प्राश्निकप्रतिपन्मात्राद् दूष्यत्वं संगतं कथम् ।। २२ ।।

नहि स्वपरितोषमात्रकं परार्थकारिणामभिमतं (।) परव्यामोहव्यावर्त्तनं तु तेषाम
र्थोऽभिमतः । तत्र (प्रतिवादि) प्रतिपादनाया बद्धपरिकरः प्राश्निकमात्रप्रतिपादनेन परितुष्य
तीति क्वास्थाः क्व निपतिताः । क्व प्रतिवादिप्रतिपादनायारम्भः क्वप्राश्निकमात्रप्रतिपादनेन
परिसमाप्तिः । किञ्च ।

तत्पक्षपातोपहतः प्राश्निको विवदेद्यदि । तत्रापि च पुनर्मृग्यं वादिनां प्राश्निकान्तरम् ।। २३ ।।
प्राश्निकान्तरसञ्चारे प्राश्निके प्रतिवादिनि । अनवस्था ततो वादी कस्या स्यात्प्रतिपादकः ।। २४ ।।
अथ प्राश्निकलोकस्य वादिन्यप्यनुरक्तता । तथापि पक्षपातान्न प्राश्निकत्वं परिस्फुटम् ।। २५ ।।

अत्रोच्यते ।

परार्थकारी नामायं किमयोग्येंप्यसौ तथा । अतिक्रम्य (न्) न सामर्थ्यमकृतावकृपात्मकः ।। २६ ।।

करुणावानपि योग्ये विधातुमर्थं विभवति1119 ।

अयोग्ये हि शक्तिर्व्याघातो न करुणायाः । न ह्यसावकारुणिकं इति प्रतीतिः ।
प्राश्निकानान्तु पक्षपातित्वे प्रतिवादितैवेत्यवश्यं प्राश्निकान्तरापेक्षणम् । न च सर्व एव
विप्रवदन्ते प्रयोजनाभावात् परस्परापेक्षतो वा । अथ तेषामपि परस्परं वादिप्रतिवादिता ।
एवं सति सकलव्यवहारोच्छेदः । न च दृश्यते । तस्मा(त्) प्राश्निकप्रतिबोधनमेव वाद
परिसमाप्तिः । इदं पुनरकृपत्वमेव यदग्रहणादिविधानेन पराजयः परेषाम् । तस्मात्स्व
प्रतिपत्तिं प्राश्निकादिभ्यो निवेद्य प्रतिपादनशक्तिरात्मसात्कर्त्तव्या । तस्मादागमसिद्धमेव
न । परसिद्धं ।

ननु सोप्यागमो यदा परेण प्रमाण्येनाभ्युपगतः तदा तत्सिद्धपक्षधर्मतः स्वयमसौ प्रति
पद्यत एव । न बाधितैकदेशस्य तथाभ्युपगमायोगात् । अत एवाह ।

तदागमवतः सिद्धं यदि कस्य क आग(म): ।
बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ।। ४ ।।

यद्यप्रमाणमनभ्युपगतश्च परेण तदा कस्य क आगमः । यद्यनभ्युप(ग) मेपि तदाग
मवत्ता सां ख्यस्यापीत्युभयसिद्धिरेव । अथानभ्युपगमान्नैवं न कस्यचिदपि तदागमवत्तेति

  1. १ B. प्रभवति