३.
अर्थ
ग्रहणफलम्

ननु य उभयसिद्धः सोऽर्थ एव किमर्थमर्थग्रहणं । नैतदस्ति । यतः ।

कल्पनानामात्रतः सिद्धो यथैकस्योभयोरपि । कल्पना हि न न नामैता नियतोदयसङ्गमाः ।। ७४ ।।

तत उभयसिद्धत्वेपि पक्षसपक्षान्यतरत्वादेरर्थत्वाभावादहेतुत्वं यतः ।

तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् ।
अलिङ्गत्वप्रसिध्यर्थमर्थादर्थप्रसिद्धितः ।। १३ ।।
484

यदर्थग्रहणं स्वदृष्टग्रहणविशेष्यं तच्छद्बकल्पनामात्रघटितात्मनामहेतुताप्रतिपादनार्थ ।
अर्थस्यैव गमकत्वसम्भवात्1152 ।

नन्वसिद्धविरुद्धानैकान्तिकलक्षण एव हेतुरप्रतिन्नार्थप्रतिपादने1153 । यदि चास्य
त्रैरुप्यमस्ति कथमहेतुरथ त्रैरूप्याभावस्तदा स्वार्थानुमानलक्षणादेव निवृत्तिः किमर्थग्रहणेन ।
त्रिरूपलिङ्गाख्यानं हि परार्थानुमानं । न । स्वार्थानुमानेपि कल्पनारोपितं त्रैरूप्यं प्राप्तमेव
हेतुलक्षणम् । कथन्ततो निवृत्तिः । नात्र तर्हि तदर्थग्रहणं कर्त्तव्यं1154 । स्वार्थानुमान एव
कर्त्तव्यताप्राप्तेः ।

अत्रोच्यते1155 । स्वनिश्चयवदन्येषामिति वचनादत्र कृतं तत्रामि भविष्यतीत्यदोषः । तत्रैव
कस्मान्नेति चेत् । तत्र वा क्रियतामात्रवेति को विरोधः । अस्ति चात्र प्रयोजनं । तथाहि (।)

कल्पनादि कृतं हेतुं स्वार्थे कश्चिन्न कल्पयेत् । आत्मानमेव किं कश्चिद्विसम्वादयतीहितात् ।। ७५ ।।

किञ्च । परार्थ एव यत्न परः कार्य इति चात्रैव महान् यत्नो विधेयो महात्मनेत्यर्थ
ग्रहणमत्र । परमार्थतस्तु कल्पनारोपितो हेतुरनैकान्तिक एव । तथाहि ।

कल्पनागमयोः कर्त्तुरिच्छामात्रानुरोधतः ।
वस्तुनश्चान्यथाभावात्1156 तत्कृता व्यभिचारिणः ।। १४ ।।

न खलु कल्पनासमारोपितस्य साध्यवस्तुप्रतिबन्धः । वासनामात्रप्रवर्त्तितत्वात् ।
यद्येवमप्रतिबन्धादेव न हेतुः । न । प्रतिबन्धस्यात एवाक्षेपात् । नहि साक्षात्प्रतिबन्ध
प्रतिपादनमस्ति । ततोर्थग्रहणं । न हि पक्षसपक्षान्तरत्वं नित्त्यानित्त्ययोरेकत्र नियतं यो यः
पक्षीक्रियते तदपेक्षया तत्र तत्र सञ्चारात् । न चेदृशी वस्तुसिद्धिर्विवक्षान्तरेन्यस्य साधनात् ।

  1. १ T. अर्थाभ्यां गम॰

  2. २ T. प्रतिपादनेन न भवति

  3. ३ T. कथं ततो निवृत्तिर्न्नात्र तर्हि तद्ग्रहणं कर्त्तव्यम् ।

  4. ४ T. स्वनिश्चयवदन्यस्य वचनमपि साधनमिष्यते ऽयुक्तवादिनस्त इति प्रतिपादितं भवति ।
    स्वनिश्चयवदिति यावद् वचनमपि साधनमिति न लभ्यते भाषान्तरे, मध्ये चतुर्दशी
    कारिकाऽपि लुप्ता ।

  5. ५ B. कल्पिता—इत्यपि पाठस्तत्रैव ।