२. पक्षचिन्ता

१. हेतुपक्षवचनमसाधनम्

(१) हेतुवचनं असाधनम्

ननु पक्षः साध्य एव तदपेक्षयान्यस्य सपक्षत्वात् । तत्र पक्षसमपक्षान्यतरत्वं नाम
धर्मस्तद्विपक्षाद् व्यावर्त्तते । ततः कथन्न हेतुः । नहि पक्षसपक्षनियतो धर्मः साध्यव्यभिचारी ।

तदसद्यतः ।

न पक्षस्य सपक्षस्य भावस्य नियमः क्वचित् । न पक्षोनित्यता मात्रमपरस्यापि सम्भवात् ।। ७६ ।।

यद्ययमर्थः पक्षसपक्षान्यतरत्वादिति शब्दघटानित्यता सामान्याव्यभिचरितधर्मयोगा-


485

दिति । तदा स धर्मः कृतकत्वादिलक्षण एव । अव्यभिचरितस्य साधर्म्यस्यान्यतर शब्देन
प्रतिपादनात् । न त्व व्यभिचारी1157 धर्मः कृतकत्वादिलक्षण एव । एवं च सति (स) हेतुरर्थ
एव न कल्पितः । अथ पक्षीकृतेतरत्वेन विवक्षितत्वात् ।

तदसत् । यद्यपि नामानित्यतया पक्षत्वविवक्षा तथापि न तावताऽनित्यता सिध्यति ।
नित्यतया विवक्षितत्वे तदैवापगमात् । वास्तवञ्चेदनित्यतया पक्षत्वं प्रसिध्येत् सिद्धमेव
साधितं भवेत् । तस्मान्न कल्पितो धर्मः साधनं ।

स च स्वसिद्धोऽर्थः साधनं । त्रिरूपमेव लिङ्गमतस्त्रिरूपलिङ्गाख्यानं परार्थमनुमानं ।
ततो यैः पक्षवचनमपि साधनमिष्यतेऽयुक्तवादिनस्त इति प्रतिपादितं भवति । तस्यासिद्धत्वात् ।
साधनं हि साध्यं साधयेत् । न साध्यमेव (वाध्यं साधनात्) । वचनं साधनमिति चेत् ।
न । वचनस्य साक्षादसाधनत्वात् । साध्याप्रतिबन्धात् । न वचनस्यार्थे प्रतिबन्धः । तस्मात् ।

अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्न्नास्ति स्वतः साधनसंस्थितिः ।। १५ ।।

अनित्यः शब्दः कृतकत्वादिति त्रिरूपं कृतकत्वमेवानित्यतां गमयति । तस्य तत्राव्य
भिचारात् । न पक्षवचनं हेतुवचनं वा । अन्यथा नित्यः शब्दः प्रमेयत्वागिति साध्य
सिद्धिर्भवेत् । अत्रापि हेतुपक्षवचनमस्ति । तदर्थस्य तत्राप्रतिबन्धादहेतुरिति चेत् ।
अर्थादेव तर्हि अर्थस्य गतिः प्रतिबन्धात् । न वचनं साक्षात्साधनमिति प्राप्तं । वचनस्यार्थ
मन्तरेणापि भावात् । यत्र च हेतुवचनमसाधन । तत्र पक्षवचनस्यासाधनत्वमनुक्तसिद्धि
मेव । अथ साध्यवचनं साध्यार्थंप्रतिपादनात्साधनं । न । हेतुवैयर्थ्यप्रसङ्गात् । अथ
प्रतिज्ञामात्रं न साधनमिति हेतुरुपादीयते । कथमसाधनं साधनं । सहितं साधनमिति
चेत् । कथमनुपयोगि साहित्यं विदध्यात् । नानुपयोगिना कश्चित् साहित्यं वाञ्छति ।
तस्मान्न वचनं साधनं ।

अपि च ।

(२) पक्षवचनं असाधनम्
तत् पक्षवचनं वक्तुरभिप्रायनिवेदने ।
प्रमाणं संशयोत्पत्तेः ततः साक्षान्न साधनम् ।। १६ ।।

नहि संशय हेतुरेव तत्र हेतुः । अर्थाप्रतिबद्धत्वेन च संशयहेतुत्वं । अन्यथा
हेतुपादानमनर्थकं1158 । यथा तर्हि वचनं साध्यार्थासाधनं । तथा साधनार्थोपि नैव तस्मात्प्र
तिपत्तव्यः तत्रापि नैव तस्य प्रतिबन्धः । प्रतिबन्धे वा साध्येपि कः प्रतिबन्धः प्रतिवन्धस्य ।

सत्त्यमेतत् । साधनार्थमपि नैव वचनं प्रतिपादयति । तत्राभिप्रायनिवेदने प्रमाण
त्वादतः साक्षान्न साधनं । साधनेपि प्रमाणमेव वचनेन आक्षिप्यते । साध्येपि प्रमाणमाक्षि
प्यतामिति चेत् । न । तदानीमेव तत्र प्रमाणसद्भावात् । पूर्व्ववृत्तं हि प्रमाणमाक्षिप्यते

1159 486

वचनेन तत्र विस्मरणसम्भवात् । वर्त्तमाने तु प्रमाणं प्रत्यक्षमेव किन्तत्र वचनेन । नहि
प्रत्यक्षेऽर्थे परोपदेशो गरीयान् । यस्माद्वचनमसाधनं । पारम्पर्येण तर्हि साधनं पक्षस्य
वचनं यथा साधनस्य । एतदप्यसत् ।

साध्यस्यैवाभिधानेन पारम्पर्यैण नाप्यसं ।
शक्त(स्य) सूचकं हेतुवचोऽशक्तमपि स्वयम् ।। १७ ।।

यथा साधनवचनं साधनं तथा पक्षवचनमपि भवेत् । यदि शक्तस्य सूचकं भवेत्प्रमाण
सिद्धस्य । असिद्धस्य तु सूचनं कथं साधनं । नहि स्वयमशक्तमशक्तमाश्रित्य शक्तिमत् ।
तथाहि (।)

न पतन्तमाश्रित्य पतत् स्थिरीभवति क्वचित् । तथा (ऽ) सिद्धमसिद्धेन न तेनैव प्रसाध्यते ।। ७७ ।।

साध्यस्य पक्षवचनेनासिद्धतयाभिधानात्कथं साधनं पक्षवचनं । हेतुवचनन्तु स्वयमश
क्तमपि शक्तस्य वाचकमिति साधनमुक्तं ।

प्रतिबद्धस्य साध्येर्थे साधनस्याभिधानतः । वचनं साधनं प्रोक्तं साधनं तत्स्वतो न तु ।। ७८ ।।

ततो यदुक्तं परार्थञ्चानुमानञ्चेति व्याहतं । तथाहि प्रतिपाद्यापेक्षया स्वार्थमेव ।
प्रतिपादकापेक्षया त्वनुवादमात्रकं । तन्निराकृतं । यतः । अनुमानन्तदनुमानकारणत्वे
नोपचारत उक्तं । न स्वतः । ततः प्रतिवाद्यपेक्षया तत्स्वार्थमिति यत्किञ्चनवादितैव ।
तस्य हि त्रिरूपमेव लिङ्गं प्रतिपादकत्वात्स्वार्थ । न वचनं । ततोर्थस्याप्रतिपत्तेः । स्मरणेन
तस्याप्युपकारकत्वात् प्रतिपादकमेवेति चेत् । न (।) अर्थवादमात्रकस्य वचनेन विधानात् ।
तत उभयापेक्षयापि वचनमनुवाद एव । परार्थता तस्य प्रतिपादकापेक्षया न प्रतिपादकस्य
तेन कक्चिदुपकारः । अनुमानकारणत्वेन त्वनुमानन्तत्प्रतिपाद्यापेक्षयैव ।

नन्वर्थापेक्षया परार्थमन्यपेक्षयानुमानमिति प्राप्तम् । तत्कथमेतत् । ननु गुण एव
हि दोषतयाध्यारोप्यते । येनैव तस्य प्रतिपादकस्य तदनुमानन्न भवति प्रतिपाद्यस्य वात एव
तत् प्रतिपादकस्य परार्थमन्यथा स्वार्थमपि भवेत् । स्वयमपि तेन तस्यार्थकरणात् । उपचारे
च प्रयोजनमुक्तं । वचनस्यान्येन प्रकारेणार्थसाधनाभावात् । ननु स्मरणेपि वचनं प्रमाणम
प्रमाणम्वा (।) प्रमाणञ्चेत् किन्नार्थे । अ(था) प्रमाणं कथं ततः स्मरणम् । अत एवान्यथा ।
ततः प्रमाणमेव भवेन्न स्मरणं । स्मरणे च तत्कारकं न ज्ञापकमिति प्रमाणस्वभावः1160 ।
स्मरणमेव ततः कथं । अर्थे प्रतिबन्धाभावात् । घमो हि पावके प्रतिबद्ध इति जनयति
स्मरणं । तद्यदि शब्दोपि प्रतिबद्धस्तथा स्मरणं जनयेत् ।

तथाहि यद्यत्स्मरणं तदस्ति प्रतिबन्धतः1161 । यथास्ति धूमात्स्मरणं परोक्षे कृष्णवऽत्मनि ।। ७९ ।।

तदसत् । न स्मरणमात्रकं प्रतिबद्धत्वादिति प्रतिबन्धः । स्मरणञ्च भविष्यत्यप्रति
बद्धत्वाच्चेति । कोनयोर्व्विरोधः । तथाहि ।

आभोगदपि दृष्टेर्थे स्मरणं किन्न जायते । यतः कुतश्चिदर्थाद्वा प्रायेण सहचारिणः ।। ८० ।।

अथ निश्चितरूपं स्मरणं सम्बद्धादेव नान्यतः ।

487

तद्युक्तं । न ह्यसति प्रतिबन्धे तस्य निश्चयस्तत्र किन्तु शब्दान्निश्चितरूपं स्मरणमित्य
सिद्धमतो न सम्बन्धसिद्धिः । तथाहि । सम्बन्धमनालोचयतः संदेह एव भवति । शब्दाच्च
सन्देह उपजायमान उपलभ्यत एव । कथन्तर्हि निश्चय (ः) । एवमे (वै) तत् । यथाहाय
मिति । न प्रमाणादेव तन्निश्चयात् । यतः । पूर्व्वप्रवृत्तप्रमाणपर्यालोचनादेव निश्चयो
न वचनमात्रात् । प्रमाणे तर्हि निश्चयो (न) वचनात् । तथापि वचनं प्रमाणमेव । अत्रोच्यते ।

एतदिष्यत एवात्र प्रमाणे तत्स्वतो1162 नहि । अस्मिन्नर्थे प्रसिद्धेपि न काचिन्नः क्षतिर्यतः ।। ८१ ।।

अर्थे हि वचनमप्रमा । प्रमाणे तु प्रमाणमिति नैव किञ्चित् क्षीयते न च
प्रमाणमपि वचनात्सिध्यति तस्य स्वसम्वेदनेन सिद्धेः । स्मरणमात्रमेव तत्र भवति ।
निश्चयस्तु स्वसम्वेदनादेव । किन्न वचनमात्रेण1163 । भवत्येवाभोगमात्रादपि स्मरण
दर्शनात् । अथ यदाभोगतो न भवति तदा वचने प्रमाणमिति चेत् । न सदेतत् । यतः ।

मिथ्यास्मरणमप्यर्थे वचनाज्जातमीक्ष्यते । वचनस्य विशेषो न सत्त्यासत्त्यतयेक्ष्यते ।। ८२ ।।
ईक्षणेर्थोनुमानन्तत्स्वार्थमेव तदा भवेत् । आभोगादपि जायन्ते मिथ्या स्मरणवृत्तयः ।। ८३ ।।

तस्मात्पूर्व्वप्रमाणस्वरूपावधारणमत्यन्तपर्यालोचनत एव कुतश्चित् लिङ्गादिति न
वचनं प्रमाणं । प्रमाणेनाप्यर्थेनाप्याभोग इति । अनुमानमेव परोक्षेऽर्थे प्रमाणं तद्द्वारेण वचनं ।

ननु प्रमाणं प्रतिबन्धग्राहीदानीमतीतमिति कथं प्रतिबन्धनिश्चयः । स्मरणमिदा
नीन्न च तत्प्रमाणं । तेन प्रमाणेन जनितत्वात् प्रमाणमेव । ततश्च ।

प्रमाणात्स्मरणं जातमुपचारात्प्रमा न किं । अप्रमाणात्तु यज्जातमप्रमाणन्तदिष्यते ।। ८४ ।।

ननु प्रमाणादेतत्स्मरणमिति स्मृतिरेवात्रापि निबन्धनं । तदपि स्मरणमन्यतः स्मर
णात्परिशुद्धिभागिति कुतो निश्चयो जायतां ।

दृढं स्मरणमेतच्चेन्मिथ्या दाढ‌र्यन्न किम्मतं । अर्थप्राप्तेर्न्न मिथ्या चेत् सिद्धोपस्थानमेव तत् ।। ८५ ।।

अत्राप्युच्यते । उक्तमेवादावेतत् । स्वरूपस्य स्वतो गति (ः) । प्रामाण्यम्व्यव
हारेण ।
(प्र॰ वा॰ १।४) व्यवहारश्चार्थप्राप्तिलक्षण एवोपलभ्यते नान्य उपयोगी ।

ननु स्वत एव किञ्चिद् दृढं स्मरणं ततोयं प्रमाणदिति निश्चयो न व्यवहारादिति चेत् ।

तदसत् । यतः ।

अभ्यासादेव दृढता सास्ति प्राप्तिसमाश्रयात् । अन्यदभ्यस्तमन्यत्र दृढता नैव जायते ।। ८६ ।।

यद्ययमर्थप्राप्तिलक्षणो व्यवहारो नाभविष्यदभ्यस्तस्तत्कथं प्राप्त्युपयोगिदाढ‌र्यम्भवेत् ।
अन्यदभ्यस्तमन्यत्र दाढ‌र्यमिति स एव व्यवहारोच्छेदो लोकस्य स्यात् । तस्मादेतावती गतिः
संसारिणामिति सांव्यवहारिकं प्रमाणम (वि) चलितमिति न दोषः । तस्माद्वचनमनुमान
कारणत्वादनुमानमिति स्थितमेतत् ।

नन्वाचार्यस्य पक्षवचनमभिमतमेव । यदाह ।

स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया पक्षधर्मत्वसम्बन्धसाध्योक्तेरन्यवर्जनं1164
 ।। ८७ ।।
1165 1166 488

नैतदस्ति । यतः ।

हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता ।

यदाह । (अस्माकन्तु ।)

तत्रानुमेयनिर्देशो हेत्वर्थविपयो मतः ।

अस्माकन्तु योनुमेयनिर्द्देशः स हेत्वर्थविषयत्वेन न साधनत्वेन (।) अतः साक्षात्साधनत्व
प्रतिक्षेपात् तस्य साध्यस्योक्तेरशक्तता कथिता1167 । कथन्तर्हि पक्षधर्मत्वं1168 सम्बन्धसाध्योक्ति
निर्द्देशाभ्युपगमः । नास्यायमर्थः । पक्षधर्मश्च सम्बन्धश्च साध्योक्तिश्चेति । अपि तु
सम्बन्धोक्तिसङ्गता साध्योक्तिः सम्ब धसाध्योक्तिः । यत्कृतकं तदनित्त्यमिति व्याप्त्यन्तर्गता
साध्योक्तिर्न्न प्रतिज्ञारूपेण । अवश्यं हि साधने व्यापकत्वं साध्यस्योपदर्शनीयं । अतोऽवय
वद्वयमेव दर्शनीयं । सम्बन्धेन रूपद्वयाक्षेपादेव त्रिरूपता हेतोः । तस्मादनित्त्यः शब्द इति
नादावन्तेवा दर्शनीयम् । रूपद्वयमात्रकादेव साध्यस्य सिद्धेः ।

शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्तनात् ।। १८ ।।
तत्संशयेन जिज्ञासोर्भवेत्प्रकारणाश्रयः ।
विपक्षोपगमेप्येतत्तुल्यमित्यनवस्थितिः ।। १९ ।।
(३) न्यायोक्तलक्षणे दोषाः
1169
(क) प्रतिज्ञानिगमनयोरनुक्तिः—

अथापि स्याद्(।) यदि पक्षवचनाभावे हेतुवचनमतकिंतमुद्गुरपातायमानमसम्बद्ध
मिति न प्रवर्त्तते1170 । ततो हेतुवचनप्रवृत्तेः तदपि साधनमेवेति न । संशयजिज्ञासा प्रकरण
तदवबोध इच्छानामपि1171 साधनत्वप्राप्तौ दशावयवता वाक्यस्य स्यात् । इदमत्र सन्दिग्धं
भवतः । इदमेव जिज्ञासितं । इदमेव भवता1172 प्रस्तुतं । इदं मयावगतं । अत्र ममेच्छेति
(।) एवं कूर्च्चशोभामारच (य) ता दशावयवं वाक्यं प्रयोक्तव्यं । तथा विपक्षोपगमेपि
साधनं प्रवर्त्तते । ततस्तस्यापि साधनत्वप्रसङ्गस्तेन सह विपक्षस्य । अथ साध्यनिश्चयमात्रं
संदेहादिप्रतिपादनमन्तरेणापि भवतीति न तैः शब्दप्रपञ्चमात्रोपयोगिभिः कश्चिदर्थगतोर्थस्ततः
संशयादिपरित्यागः (।) तदनुवादस्याकिञ्चत्करत्वत् । यद्येवं प्रतिज्ञावचनमप्यनुवादमात्र
मेव वादिनो नान्तरङ्गता तस्य ।

अत्तरङ्गं तु सामर्थ्यं त्रिषु रूपेषु संस्थितं ।
तत्र स्मृतिसमाधानं तद्वचस्येव संस्थितं ।। २० ।।

त्रिरूपादेव तावत्स्वार्थानुमाने सोर्थः साध्यः प्रतीयते । नहि स्वार्थानुमाने साध्यार्थः
प्रथममायाति1173 हेतोस्तेनाध्यवसितेन भवितव्यं । ततः स्वनिश्चयवदेव न प्रथमं साध्योपा
दानम् । पश्चाद्रूपादानमिति चेत् । पश्चादपि नोपादानं स्वार्थानुमानवदेव । परस्यापि


489

यदा त्रिरूपादुपजायते प्रतीतिस्तदा तस्याः स्वार्थानुमानात्को विशेषः । तस्मात् प्रतिज्ञा निगमनयोरनुक्तिरेव । उपनयोपि न (व) क्तव्यः । दृष्टसामर्थ्यदर्शनपरत्वात् । न च
तस्य तत्र सत्तामात्रादपरं सामर्थ्यं (।) तच्च सत्तामात्रं शब्दे पक्षधर्म (त्वा) देव गतं ।

अथापि स्याद् (।) आगमः प्रतिज्ञा । हेतुरनुमानं । प्रत्यक्षं दृष्टान्तः । उपनय
उपमानं । सर्व्वप्रमाणव्यापारविषयप्रदर्शनपरं निगमनं
 ।

तदेतदसत् यतः ।

अनुमानात्प्रसिद्धिश्चेत्प्रमाणैरत्र किं परैः । नानुमानात्प्रसिद्धिश्चेत्प्रमाणैरत्र किम्परैः1174 ।। ८८ ।।

हेतुसामर्थ्यादेव यद्यसावर्थः प्रतीयते किमपरप्रमाणव्यापारेण । किमत्र कुर्मो
यत्सर्व्वप्रमाणव्यापारो न खलु हेतुपरतन्त्रः कारकग्रामः । तथा भवन्पर्यनुयोगभागी किमयमेवं
भवतीति । सत्त्यमेतद्यद्येवं स्यात् । न खलु प्रतिज्ञा प्रमाणन्ततः संशयोत्पत्तेरिति
प्रतिपादनात् ।

(ख) उपनयन (उपमान) निरासः—

उपमानं प्रमाणं (।) न खलु तथा चायमि त्युपमानमन्तरेण हेतोः साध्यसिद्धिः ।
नेदमस्ति । यतः ।

पक्षधर्मत्वमेवेदं उपमानेन दर्श्यते । तथा च कृतकः शब्द इत्येवमुपदर्शितः ।। ८९ ।।

सामान्येन हि प्रतिबन्धग्रहणे कथम्विशेषाधार (ताऽ) नित्यतादिप्रसिद्धिः । विशेषा
धारतया कृतकत्वादेः प्रसिद्धेः । सैव च विशेषाधारता । तथा चायमित्युपमानप्रसिद्ध्या
कुतश्चायमिति पक्षधर्मतया प्रदर्श्यते । उपमानं प्रमाणमपरं प्रसक्तमिति चेत् ।
न (।) अनुमानान्तर्गतत्वात् । गोसादृश्यादयं स गवय इति विशेषसम्बन्धसाधनं शब्दस्यो
पमानविषयादपरो न भवतीत्यनुमानमेव तत्र प्रमाणं । नानुमानमपरमुपमानवादिभिरपी
ष्यते । कृतकत्वेन सादृश्यं तस्य विषय इति चेत् । न । कृत (क) त्वद्वयव्यतिरेकेण
सादृश्यभावात् । न दण्डाधारद्वयव्यतिरेकेणापरन्दण्डित्वसादृश्यं ।

सादृश्यं यदि नास्त्यत्र व्यतिरेके गतिः कथं । सदृशोयमिति प्राप्तमन्यकारणकल्पनं ।। ९० ।।

तदसत् ।

कारणं कल्प्यते कार्याद् दृष्टिसम्बन्धतो यदि । कारणेन तदा प्राप्तं कारणस्यापि दर्शनम् ।। ९१ ।।

अपि च ।

यदि सादृश्यमत्रास्ति कस्मान्न प्रतिभासते । सूक्ष्मत्वादिति चेत् तत्त्वमदृष्टे कल्प्यतां कथं ।। ९२ ।।
भावरूपातिरेकेण विकल्पेपि न भासते । निजाभासविविक्तस्य व्यवस्थेति महाद्भुतम् ।। ९३ ।।
अनादिवासनासाङ्गि कल्पनारोपितात्मकं । सादृश्यन्न परीक्षायां तत्त्वमस्येति नास्ति तत् ।। ९४ ।।
वस्तुसम्बन्धतोनेन व्यवहारश्च सिध्यति । अर्थक्रिया कुतोर्थश्च सदृशादेव नेक्ष्यते ।। ९५ ।।

अवान्तरविशेषश्चेत तत्रापि न किमीक्ष्यते ।

1175 490

न खलु सदृशाभिमतादेवार्थक्रियावाप्तिर्येन1176 तदर्थक्रियाकारि सादृश्यम्भवेत् । महिष्या
दितोपि क्षीराद्यर्थक्रियावाप्तेः । अथावान्तरभेदस्तत्र विद्यते । तेन विसदृशी विसदृशान्न तु
सैवार्थक्रिया । यद्येवमवान्तरभेदो गवामपि परस्परतोस्त्येव । ततः सादृश्यानुरूपार्थक्रिया
नास्त्येवेति न सम्वादः । किञ्च । विलक्षणप्रत्ययोत्पत्तेरपरत्र वैलक्षण्यमप्यस्तीति प्राप्तं ।

B. क्रियास्ति येन ।

सादृश्याभावमात्रेण तदिति चेत् । सादृश्यमपि वैलक्षण्याभावमात्रेणेति प्राप्तं । सादृश्यमेव बैलक्षण्याभाव इति चेन्न कथम्भावोऽभावः । वैलक्षण्याभावमेव सादृश्यमिति किन्न भवति ।
बैलक्षण्यञ्चोभयवादिप्रसिद्धं । न । (तद्) अभावमात्रेण सादृश्यव्यवहारपरिसमाप्तेरनर्थ
कमपरं सादृश्यपरिकल्पनं तस्मान्नोपमानमपरं प्रमाणं ।

(ग) प्रतिज्ञा (आगम) निरासः—

अथ प्रतिज्ञार्थ आगमसिद्ध इति प्रतिज्ञा आगम उच्यते । एवमपि किन्न1177 प्रतिज्ञायाः
प्रयोजनं । तथा हि ।

आगमादेव सिद्धोयं यद्यर्थः किं प्रतिज्ञया । आगमान्न प्रसिद्धोयं यद्यर्थः किं (प्र) तिज्ञया ।। ९६ ।।
अनागम प्रमाणेन किमर्थो न प्रसाध्यते । न प्रतिज्ञानमात्रेण सागमार्थत्वसाधनं ।। ९७ ।।
अथाप्यत्यन्तमभ्यासात्प्रतिज्ञा हेतुमात्रतः । प्रतीतिसिद्धिस्तत्रास्ति प्रतिज्ञापदमर्थवत् ।। ९८ ।।
तदापि पञ्चावयवमभ्यस्तत्वात्कुतो वचः । प्रतिज्ञापि तदा नासौ1178 पञ्च1179 धर्मत्वदर्शनात् ।। ९९ ।।

कथन्तर्हीदमुक्तमस्माकं तु पक्षनिर्द्देशो यः स न साधनत्वेनापि तु हेत्वर्थविषयत्वेनेति ।
एतदेवाह ।

अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् ।
विषयख्यापनादेव सामर्थ्यमिति चेन्मतं1180 ।। २१ ।।

कृतकत्वादित्येतावन्मात्रकादनित्य इत्युक्तेन ज्ञायते कस्यानित्यता साध्या । ततः स
शब्दोऽनित्य इति प्रतिज्ञापदमुपादेयं । तदिदानीं हेतुविषयत्वेन नोपादीयतामन्यथा वा ।
सर्व्वथास्यां बाह्यव्यवस्थायामख्यापिते विषये हेतुवृत्तेरसम्भवात् । अवश्यम्विषयः ख्यापयि
तव्यः । ततः साध्यसिद्धेः प्रागवश्यं भावः प्रतिज्ञायाः साधनस्य साधनतान्यथा साधनत्वस्या
भावात् । प्रमाणफलोपन्यास इति चेत् । निर्द्देशे प्रमाणफलं प्रतिज्ञा पक्ष इति न
नामान्तरकरणात्परिहारः । स चायं न्यायः शूलं चक्रमित्याहेति । अतो विषयख्यापनादेव
तस्य शक्तता सिद्धा । उक्तमत्र । संशयादीनामपि साधनत्वप्रसङ्गः ।

विषयादर्शनञ्चेदं व्याप्तिपूर्व्वकवाचकं । अन्यथा वा विधीयेत तदिदं द्वयमप्यसत् ।। १०० ।।

विषयः प्रतिज्ञया निदर्शनीय इत्यत्र विचार्यते । किम्व्याप्तितपूर्व्वकप्रयोगे । अथ
हेतोः पञ्चम्या निर्द्देशे ।

किञ्चातः ।

491
व्याप्तिर्व्वे1181 विनाप्यस्मात्कृतकः शब्द ईदृशः ।
सर्व्वेऽनित्या इति प्रोक्तेप्यर्थात्तन्नाशधीर्भवेत ।। २२ ।।

यत्कृतकं तत्सर्व्वमनित्यमिति सर्वोपसंहारेण व्याप्तिदर्शने तद्व्यप्तं कृतकत्वं तत्रोपदर्शितं ।
तथाभूतमेवेत्यनित्यता शब्दस्येति ज्ञायत एव किं प्रतिज्ञापादेन विषयोपदर्शनार्थेनेत्यन्यथैव1182 विषयस्य प्रसिद्धेः । अथ प्रतिज्ञा (पद) मन्तरेण कथम्विरुद्धहेतुनिश्चयः । नैष दोषः ।

प्रतिवादी विरुद्धस्य परिज्ञाता भवेदिति । प्रतिज्ञा क्रियते नैव स्वबधाय किमुद्यमः ।। १०१ ।।

यदि प्रतिज्ञापदानुपादानं कथं विरुद्धोयं हेतुरिति ज्ञायते परेणेति कस्यायं पर्यनुयोगः
वादिन इति चेत् । न सम्यगेतत् । भद्रमेवापतितं मा ज्ञासीत्प्रतिवादी किं मया तस्य सौर्क्य ।
करणीयं (।) व्याप्तिपूर्व्वके प्रयोगे शास्त्रकारेण कर्त्तव्यतयाभिहिते विहितो विरुद्धस्यासम्भ
वाद्वादिनो महानुमपकार इति च शास्त्रकारस्यापि न दोषः । न ह्यसौ वादिबधाय शास्त्रकृत् ।
प्रतिवादिनोनुग्रहः कर्त्तव्यं एवेति चेत् । कः प्रद्वेषोऽन्यत्रेति यत्किञ्चिदेतत् । यदि
नित्त्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्त्यमिति । अत्र विरुद्धहेतुचोदनं । तदा न
कश्चिदनुन्मत्तस्तदैव नित्त्यत्वं प्रतिज्ञायानित्त्यत्वेन व्याप्तिमुपदर्शयेत् । अथ नित्त्यत्वेन व्याप्ति
मुपदर्शयेत्तदा व्याप्तिविपर्ययादेव विरुद्धत्वप्रतीतिः । अपि च । यस्य प्रतिज्ञापदप्रयोगस्त
दपेक्षया विरुद्धाभिधानं । नित्त्यः शब्दः कृतकत्वादिति चावसरे । अथ प्रतिज्ञापदमन्तरेणा
दृष्टमुद्‪गरपातायमानं साधनवाक्यमुद्धेगाय भवेत् । अतस्तदुपादानं । यतः प्रकरणार्थनिवे
दनाय1183 प्रतिज्ञा ।

अत्रोच्यते । प्रस्तावमन्तरेण प्रतिज्ञावचनमप्यदृष्टमुद्‪गरायत एव । प्रतिवादिना
प्रस्तावः कृत इति चेत् । कृतं प्रतिज्ञापदेनेत्यलं प्रसङ्गेन ।

  1. १ B. स चाव्यभिचारी

  2. ३ B. ॰मेवानर्थकं

  3. २ T. कोष्टकस्यः पाठोः न भाषान्तरे

  4. १ B प्रमाणत्वाभावः

  5. २ B प्रतिबद्धतः

  6. १ B. प्रमार्थे ततः

  7. २ B. वचनमन्तरेण

  8. ४ प्रमाणममुच्चये

  9. ३ B. मात्रादेव

  10. ३ B. ॰व्यताम्

  11. १ B ॰क्तिरशक्ता

  12. २ B ॰धर्म

  13. According to the table of contents, this should be a heading on the same level as हेतुपक्षवचनमसधानम्, numbered with 2.
  14. ३ B. ॰ बोर्धच्छाना

  15. ४ B. भवतः

  16. ५ B. ॰स्याविवादित्वात्

  17. ६ B. ॰भाति ।

  18. १ T. द्वितीयमाह्निकं (समाप्तम्)

  19. २ B. ॰षयः । स चानुमानविषयादपरो

  20. १ B. मेव

  21. २ B. किम्

  22. ३ B. प्रयोक्तव्या ।

  23. ४ B. हेतोः विदुषामित्यादि ।

  24. ५ M. सिद्धौ चेत्तस्य शक्तता

  25. १ M. उक्तमत्र विना॰

  26. २ B. ॰र्थेनान्यथैव

  27. ३ B. निवेद॰