(४). आत्मवाद-चिन्ता

1203

परेणोक्ते दूषणवाद्याह ।

आत्मा न सिद्धो दृष्टान्ते तदर्यत्वं न सिध्यति । साध्यं तन्नेति चेत्तर्हि स विशेषोस्तु तस्य वः ।। १०३ ।।

नात्मार्थत्वं साध्यमस्माकं परार्थत्वमात्रस्य साधनात् । यदि न साध्यं तस्यैव स विशेष
इति भवतु विशेषविरुद्ध इति साध्यतामेव कस्मान्न प्रतिपादयति । न परापेक्षया परिहारा
भिप्रायात् । तावन्मात्रेणा परनिराकरणे कः स्वपक्षसाधनप्रयासं विदधीत । कथमिदानी
मनुक्त1204 मपि साध्यं । उक्तत्वादुक्तमेव साध्यमन्यथातिप्रसङ्गत् । अनुक्तत्वाविशेषात् सर्व्व
मेव साध्यं । न च दृष्टान्ते सर्व्वमुपदर्शयितुं शक्यं । तथा च विपर्ययसाधनात्सर्व्व एव न
हेतुर्भवेत् । अत्राह ।

अनुक्तावपि वाञ्छाया भवेत्प्रकरणाद्‌गतिः ।। ३१ ।।
अनन्वयो हि दृष्टान्ते दोषस्तस्य यथोदितः ।
आत्मा परश्चेत्सोऽसिद्ध इति तत्रेष्टघातकृत्1205 ।। ३२ ।।
496

यद्यपि नामेदमेवानेनोक्तं तथापि प्रकरणादयमत्रार्थो द्रष्टव्यः । न खलु सकलं वचनं
प्रकरणनिरपेक्षमर्थप्रत्यायनसमर्थ ।

तस्माद्विचार्यं कैम्पर्यमार्यमर्यादया स्थितिः । वाक्यार्थनिश्चयं कर्त्तुं प्रवर्त्तन्ते जगद्‪गताः ।। ९८ ।।
1206

इयमेव सकलविदग्धजनव्यवस्थितिः । अत्र च परार्थाश्चक्षुरादय इति । आत्मार्था
इति वाक्यार्थः । अतश्चानन्वयोपि तदपेक्षया दृष्टान्तरस्य तस्य साध्यत्वात् । आ चा र्ये
णापि तथैव दर्शितः । आत्मपरश्चेत्सोऽसिद्धः; इति दृष्टान्तेन सिद्ध इति द्रष्टव्यं । ततस्त
स्येष्टस्य विपर्ययसिद्ध्याऽयमिष्टविघातकृत् ।

ननु कथमेतत् ज्ञाते प्राकरणिक एव साध्य(आत्मा) इति । तदाह ।

साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते ।
किं साध्यमन्यथानिष्टम्भवेद्वै फल्यमेव वा ।। ३३ ।।

यदि यत्र विवादस्तदेव न साध्यते आत्मार्थत्वं यत आत्मनि सिद्धः1207 । तदान्यसाधन
मप्यसम्बद्धमिति न कि (ञ्िच) त्साध्यं । तथा चोभयपक्षसाधनमपेक्ष्यानिष्टम्वा विरुद्धसा
धनात् तत्परित्यागे वा साधन वैफल्यम् (।) सिद्धसाधनताप्राप्तेः ।

अथात्माऽसाध्येपि सिध्यति साधने परत्वमात्रस्यापि । न चासाध्यविषयोऽनन्वयदोषः
प्रतिवादिनोद्भावयितव्यः । साध्यापेक्षत्वादनन्वयादिदोषस्य1208 ।

नैतदस्ति । यस्मात् । यद्यस्मिन्1209 साध्यमानेप्यसाध्यं सिध्येदिष्टं सर्व्वसिद्धिस्तथा
स्यात् । प्रत्यासत्तेस्तारतम्यं विना हि सिध्येत् किंचिन्नान्यत् (एत) तत्कुतः स्यात् । यदि
साध्यमानेन्यस्मिन्नन्यत्सिध्यति तदेष्टवद्विपर्ययोपि सिध्येत् । तथा1210 च सर्व्व ए्व हेतुर्व्विरुद्धो
दृष्टान्तश्च साध्यविकलः स्यात् । परस्परविरुद्धस्य सकलधर्मकलापस्य क्वचिदनन्वयात् ।
इष्टत्वात्तदेव साध्वं सिध्यति नान्यदिति चेत् । न । इच्छावशेन हेतुव्यापारविभागायोगात् ।
तदा च परस्य विपर्ययस्येष्टत्वाद् द्विपर्ययसिद्धिरनिवार्या । इच्छाया विशेषाभावात् । न च
प्रतिबन्धविशेषोस्ति येन वाद्यभिमतस्य सिद्धिर्न्न प्रतिवादिनः । विवक्षितधर्मानन्वयदोष इति
चेत् । यद्येवं न कश्चिदिष्टविधातकृद्विरुद्धो भवेत् । उक्तेन सर्व्वत्रानन्वय1211 सद्भावात् ।
उक्तेनानन्वये साध्यविपर्ययसाधनादेव विरुद्धः । विशेषविरुद्धस्त्वनुक्तापेक्षयैवान्यथाभावात् ।

सद्वितीयप्रयोगेषु निरन्वयविरुद्धते ।
एतेन कथिते साध्यं; सामान्येनाथ सम्मतं ।। ३४ ।।
तदेवार्थान्तराभावाद्देहानाप्तौ न सिध्यति ।
वाच्यं शून्यं प्रलपतां तदेतज्जाड्यचिन्तितम्1212 ।। ३५ ।।
  1. Has the number ४ (क) in the table of contents.
  2. ३. B. मयुक्तं

  3. ४. M. ॰घातवत्

  4. Notes 98--103 here wrongly numbered, should be 104--109.
  5. १ B. आत्मासिद्धिः

  6. २ B. साध्यापेक्षया नन्वयं दोषस्य

  7. ३ B. परार्थत्वमात्रे साध्ये

  8. ४ B. तदा

  9. ५ B. सर्वत्रान्वय

  10. ६ B. वल्गितं—इति हे.