अथ वचनसामर्थ्यात्तदेतद्विलक्षेक्षितं । न च वचनसामर्थ्यादर्थाः सिध्यन्ति तत्र
प्रतिबन्धाभावात् । तथा हि । पीनो दिवा न भुङ्क्ते चेत्येवमादि उक्तिसम्भवे नक्तं
भुजिरवश्यं न मिथ्योक्तेरपि सम्भवात् । यदि तथाभूतः पुरुषः प्रमाणप्रापितसन्ततः१
स्यात् घटवद् । तदा प्रमाणमूलविवक्षाप्रयुक्तं वचनं परार्थानुमानं भवेत् । स्वदृष्टार्थ२
प्रकाशनस्य परार्थानुमानत्वात् । अनेनैव प्रमाणेन सिद्ध इति चेत् । न (।) इतरेताराश्रय
दोषादिति प्रतिपादितं । प्रमाणे सति साधनं साधने सति प्रमाणमिति ।
(२) अनित्यताविचारः
ननु नाशेपि साध्ये समानो न्यायः । तथाहि । किं शब्दगतमनित्यत्वं साध्यमथ
घटगतं । यदि शब्दगतं न तत्सपक्षोऽथ घटगतं न तच्छब्द इति विरोधः । तथा कृतकत्व
मपि । अथैतद्विकल्पसमं साधर्म्येपि विशेषोक्तिः विकल्पसमं (।) तथा सति पुरुषेपीति समानं ।
अत्र परिहारः ।
यथा पुरुषो न सिद्धो वाक्यसामर्थ्याप्रापितः । तथाऽनित्यत्वन्न सिद्धमिति नास्त्येतत्
तथा (।) यथा पक्षसपक्षान्यतरत्वं तथा कृतकत्वमित्यपि । घटे ह्यनित्यता प्रागभावप्रध्वं
साभावमध्यस्था स्वभावाप्रसिद्धा । यदि नाम प्रसिद्धा सान्यैव । ततः शब्दः कथमनित्यः ।
न खलु सैवानित्यता शब्दे तत्सदृशी भविष्यति ।
तदसत् ।
तथाहि । यादृश्यनित्यता घटे प्रागभावप्रध्वंसाभावोपलक्षिता । शब्देपि तथैव
प्रागभावादिसम्भवात् । उच्चरितप्रध्वंसिनो हि वर्ण्णा इति न विवादः । तथा घटोपि
धर्मी यदि तद्वान् कुड्यसादृश्याद् भवेत् स्यादिदं साधनं । न च पुरुषसद्वितीयत्वसादृश्यं
कुड्यधर्मिघटयोः३ ।
नन्वात्रपि यदि नामानित्यतासामान्यं वचनोपात्तमैदंपर्या (या) र्थस्तु विशेष एव शब्दग
तस्तेन च नान्वय इति कथन्तत्सिद्धिः ।
अत्र ब्रूमः ।