कुड्यवत् इति चार्व्वाका आहुः । आविर्भूतचैतन्यविशिष्टः कायः पुरुषः । नान्य
आत्मादिः परलोकी । तत्र (च) प्रत्यक्षाविषयत्वादनुमानमेव साधनमिति हेतुमाहुः ।
अभिप्रायः न पुरुषस्तथाभूतः साधयितुं शक्यः । श्रृङ्गग्राहिकया दृष्टान्ते (ऽ) सिद्धत्वादिति
सामान्येनान्यतरसद्वितीयत्वं साध्यते(।) उपायाः साध्यसाधकाः ।
अत्रोच्यते ।
तात्पर्यार्थः । तथा हि पुरुष एव शब्दे नोपात्तस्तदपेक्षया वाऽनन्वय इति पूर्व्वको
न्यायः । अथ सिध्यति केवलं । न तु तत्साध्यं । तदाप्यतिप्रसङ्ग इति प्रतिपादितं ।
ननु नात्र विशेषाक्षेपः । तदसत् । यतो देहस्यासिद्धौ व्यक्त्यभावात्कुतः सामान्यं ।
नहि गोव्यक्त्यभावे सामान्यं । व्यक्तिविनाशेपि सामान्यं न विनश्यति नित्यत्वात् व्यञ्ज
काभावान्न व्यवहारगोचरः । व्यक्तिसम्भवे पुनस्तथा भावाच्चेत् । न (।) अत्र सम्भवा
भावात् । नहि तथाभूतः पुरुषः प्रमाणमन्तरेण सम्भवी । यथा वा व्यक्त्यभावे सामान्यं
न व्यवहारगोचरस्तथान्यतरसामान्यमपि । प्रमाणदत एव सिद्धिरिति चेत् । न (।)
इतरेतराश्रयदोषप्रसङ्गत् । प्रमाणेऽनुमाने सति सामान्यं सामान्येनुमानं । न ह्यसिद्धस्य
सामान्याकारत्वमिति । तस्मादन्यतरत्वादिति यथा न हेतुः तथा साध्यमस्ति1215 । तथाहि ।
पक्षसपक्षान्यतरत्वादिति पक्षत्वमेव शब्देन पक्षसपक्षान्यतरत्वं द्वयोः शब्देऽविरोधाभावात् ।
विकल्पविषयत्वादन्यतरशब्दस्य । न च नियतधर्मसम्भवेऽपरोपक्षेपः । न चोपक्षेपमन्तरे
णापरस्यान्यतरश्रुतेरवतारः । तस्मादसदेतत् ।
अपि च यदि तथाभूतपुरुषस्यैवात्र न प्रतिपादनं तदा पुरुषघटान्यतरसद्वितीयो घट
इत्येवोक्तम्भवेत् । किमर्थमुभयत्र घट एवोपात्तः । तत्रायमभिप्रायः साधनवादिनः । यदि
धर्मी घट उपादीयेत । स घटेन सद्वितीय इति सिद्धसाधनं स्यात् । सामान्येनापि सद्विती
यत्वेऽयमेव दोष इति प्रतिपादितं । तदनाक्षेपे किं साधनफलमनिष्टम्वा । तस्मादुभयत्र
घटजातेः प्रतिपादनं सामर्थ्यात् पुरुषेणैव सद्वितीय (त्व) प्रतिपत्तिर्भवेदित्यर्थः । तथा च
नियमेन पुरुष एवात्राभिधातुमिष्ट इति व्यर्थमन्यतरग्रहणं । तदयं स्ववचनविरोधः माता
वन्ध्येति वचनवत् । तथाहि ।
स ह्युभयत्र1216 घटोपादानाद् घटजातेः स्वेन सद्वितीय (त्वा) योगात् । सामर्थ्या
त्पुरुष एव साध्यः । कथमन्यतरोक्तिस्तद्विपर्ययप्रतिपत्तये । न (।) अन्यतरोक्तेरन्व
यार्थत्वात् । न कुड्यस्य पुरुषेणान्वयोस्ति । नन्वन्येनान्वये कथमन्यस्य पुरुषस्य सिद्धिः ।
सामर्थ्यादिति चेत् । कस्येदं सामर्थ्यं (।) किं हेतोरथ वचनस्य । न तावद्धेतोर्न्नानुत्पलत्वं
पुरुषसद्वितीयत्वे प्रतिबद्धं । अनैकान्तिकत्वात् । तथाहि । परलोकिपुरुषघटान्यतरसद्वि
तीयो घट इत्यपि साधनात् । भवतु विवक्षान्तरेऽन्यस्यापि साधनमिति चेत् । न ।
विवक्षापेक्षया साधनत्वासम्भवादिति प्रतिपादितं ।