(२) अनित्यताविचारः

ननु नाशेपि साध्ये समानो न्यायः । तथाहि । किं शब्दगतमनित्यत्वं साध्यमथ
घटगतं । यदि शब्दगतं न तत्सपक्षोऽथ घटगतं न तच्छब्द इति विरोधः । तथा कृतकत्व
मपि । अथैतद्विकल्पसमं साधर्म्येपि विशेषोक्तिः विकल्पसमं (।) तथा सति पुरुषेपीति समानं ।

अत्र परिहारः ।

तुल्यं नाशोपि चेच्छब्दघटभेदेन कल्पने ।
न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः ।। ३६ ।।
तथार्थान्तरभावे स्या तद्वान् कुम्भोपि;

यथा पुरुषो न सिद्धो वाक्यसामर्थ्याप्रापितः । तथाऽनित्यत्वन्न सिद्धमिति नास्त्येतत्
तथा (।) यथा पक्षसपक्षान्यतरत्वं तथा कृतकत्वमित्यपि । घटे ह्यनित्यता प्रागभावप्रध्वं
साभावमध्यस्था स्वभावाप्रसिद्धा । यदि नाम प्रसिद्धा सान्यैव । ततः शब्दः कथमनित्यः ।
न खलु सैवानित्यता शब्दे तत्सदृशी भविष्यति ।

सादृश्यं सिध्यति कथमन्येनान्वयसम्भवे । तथा चेत्पुरुषोपि स्यात्सिद्धिभागुत्तरं वृथा ।। १०१ ।।

तदसत् ।

अन्यत्त्व एव सादृश्यमन्यथाभाक्कथम्भवेत् । एकत्वे हि न सादृश्यं प्रतियोगिव्यपेक्षणात् ।। १०२ ।।

तथाहि । यादृश्यनित्यता घटे प्रागभावप्रध्वंसाभावोपलक्षिता । शब्देपि तथैव
प्रागभावादिसम्भवात् । उच्चरितप्रध्वंसिनो हि वर्ण्णा इति न विवादः । तथा घटोपि
धर्मी यदि तद्वान् कुड्यसादृश्याद् भवेत् स्यादिदं साधनं । न च पुरुषसद्वितीयत्वसादृश्यं
कुड्यधर्मिघटयोः ।

नन्वात्रपि यदि नामानित्यतासामान्यं वचनोपात्तमैदंपर्या (या) र्थस्तु विशेष एव शब्दग
तस्तेन च नान्वय इति कथन्तत्सिद्धिः ।

अत्र ब्रूमः ।

अनित्यता ।
विशिष्टा ध्वनिनान्वेति नो चेत् नायोगवारणात् ।। ३७ ।।
द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः ।
व्यवच्छेदादयोगे तु वार्ये नानन्वयागमः ।। ३८ ।।
1217 1218 1219 1220499

यद्यपि नामानित्यता विशिष्टा नान्वेति । अन्विता विशिष्टा भविष्यति । समुदायो
हि साध्यः । स चेत्प्रागेव प्रसिद्धः किमर्थं साधनं । तस्मात् केवलेनान्वये शब्दे सिध्यद
नित्यत्वं समुदायतां विशिष्टाञ्चात्मनः प्रकटयति ।

ननु केवलेनान्वये विशिष्टा नित्यता कथं सिध्येत् । अन्येनान्वये ऽन्यसाधनेति प्रसङ्गः ।
तथा च सर्व्वो हेतुर्व्विरुद्धो दृष्टान्तश्च साध्यविकलः स्यात् । उक्तधर्मान्वय एष दोषो नान्य
त्रेति चेत् । न । साध्यत्वाविशेषात् । अदोषे चेष्टविघातः कस्यचिदपि न स्यादिति सर्व्वः
स्वाभिमतं साधयेत् । न । अयोगव्यवच्छेदेन विशेषणात् । अयोगान्ययोगव्यवच्छेदेन हि
द्विविधं विशेषणं । न ह्येवं क्रियते शब्द एवानित्य इति । अपि तु शब्दोपि । सदृशत्वा
दनित्यतायाः । न च पुरुषसाधने तथा संभवति । नहि घटसद्वितीयत्वं कुड्यघटयोः समानं ।
अन्यतरसद्वितीयत्वं समानमिति चेत् । न । तेनाप्यभावात् । अन्यतरसद्वितीयत्वेन हि
सादृश्यमेवं भवति यदि नियमस्याभावः । अत्र1221 च नियम एव घटेनैवं सद्वितीयत्वं कुड्यस्य
तथा भूतपुरुषेणैव घटस्येति पराभिप्रायः ।

ननु प्रतिनियमेप्यन्यतरश्रुतिः प्रयुज्यत एव । तत्कथन्नियमेन्यतरत्वाभावः । ततो न
विकल्पैकप्रतिनियमयोर्विरोधः । तथाहि । देवदत्तयज्ञदत्तयोरन्यतरो भोजनीय इति नियमत
एकत्रैव भोजनं व्यवतिष्ठते । तथात्रापि पुरुषेण सद्वितीयत्वनियमः । नात्र वचनप्रापितो
नियमः । काकतालीयन्यायेन नियमसम्भवात् । स च प्रत्यक्षेणोपलभ्यते । न चात्र
पुरुषघटान्यतरसद्वितीयत्वोक्तौ पुरुषनियमः प्रत्यक्षसिद्धः । भोजनं हि वस्तुसामर्थ्यादेकनियतं
न वचनसामर्थ्यात् । स्वरुच्या प्रेष्यस्य प्रवर्त्तनात् भोक्तुर्द्दातुर्व्वा । यदि ह्यसावुक्तो न
भोजयेन्न तु भञ्जीत भवाननियमो व्यवतिष्ठेत । अत्रापि साधनसामर्थ्यप्रापितो नियम इति
चेत् । न । विपर्ययेपि सम्भवादिति प्रतिपादितं । एतेनेदमपि निराकृतं ।

विशेषेनुगमाभावः सामान्ये सिद्धसाध्यता ।

यद्यनित्यतासामान्यं साध्यते । तस्य क्वचिद्विद्युदादौ सिद्धत्वात् सिद्धसाध्यता ।
अथ शब्दविशिष्टमनित्यत्वं तदा तस्य घटेऽभावादन्वयाभावः । यतः । सामान्यमेव शब्दे
(ऽ) सिद्धत्वात्साध्यते । तदाह ।

  1. १ B. सतः

  2. २ B. स्व

  3. १ B. धर्म

  4. २ नान्येना—इति हे, भोटभाषान्तरे च ।

  5. १ B. तत्र