(३) सामान्यनिरासः
सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनं ।
विशिष्टं धर्मिणा तच्च न निरन्वपदोषवत्1222 ।। ३९ ।।

यद्याधारविशेषानपेक्षमनित्यत्वं साध्यं स्यात्सिद्धसाधनं । शब्दे तु साध्यते सामान्यमतो
न सिद्धसाध्यता ।

ननु शब्दे साध्यते सामान्यञ्चेति व्याहतं । शब्दविशिष्टत्वमेव विशेषः । यदि च
सामान्यं कथं विशेषः । विशेषश्चेत्कथं सामान्यं ।

नैतदस्ति ।

500
सामान्येनान्वये सिद्धे पक्षधर्मत्वयोगतः । विशेषनिष्टता तस्य सम्बन्धग्रहणात्मना1223 ।। १०३ ।।

नहि शब्दविशिष्टेनान्वयप्रदर्शने शब्दविशिष्टत्वसिद्धिः । केवलेनाप्यन्वयदर्शने तद्वि
शिष्टत्वसिद्धिः । सादृश्येनैकत्वस्य विवक्षितत्वात् तद्वदेवेति1224 प्रतिपादयता हि परं धूमोग्नि
नान्तरीयको दर्शनीयः । स तथाग्निना व्याप्तः सिद्धो यत्रौवोपदनीयते तत्रैवाग्निबुद्धि जनयति ।
सम्बन्धस्य तथैव ग्रहणात् । यद्देशो हि पावकः तद्देशमेव धूमं जनयत्यपरापर देशसञ्चारणे
(न) सम्बन्धप्रतीतेः ।

ननु सामान्येन प्रतीतौ कथम्विशेषप्रतीतिः । सामान्यस्य विशेषमन्तरेणाभावादिति
प्रतीतेरदोषः । नहि देशकालावस्थाप्रतिनियमप्रतिपत्त्या कस्यचिद्व्यवहारसिद्धिः । एतच्च
प्रामाण्यनिरूपणे प्रागेव प्रत्यपादीति नावर्त्तनीयं पुनः । तस्माद् धर्मिविशिष्टसामान्यप्रसाधनात्
न सिद्धसाध्यता नानन्वयदोषः ।1225

ननु साध्येन सह सामान्यं प्रत्येतव्यं (।) साध्यञ्चानुमानसामर्थ्यात् प्रत्येष्यते । न च
तत् बहिर्व्याप्तिमात्रेण प्रसिध्यति । न ह्येवं व्याप्तिरादर्श्यते । सर्व्वाऽपेक्षः1226 कृतकोऽनित्य
इति । ततः । अन्तर्व्योप्तेरप्रसिद्धिर्ब्बहिश्चेद् व्याप्तिस्तस्यां साध्यसिद्धिर्न्न जातु । अन्य
व्याप्त्यास्य सिद्धिर्यदि स्यात् सर्व्वस्य स्यात् सर्व्वसिद्धिप्रसङ्गः।

तदपि यत्किञ्चत् । तथाहि ।

उक्तमेतत् यतो धर्मिसाहित्याद् व्याप्तिरीयते ।
यो यः प्रदेश एवं स्यात् स स साध्याविनाकृतः ।। १० ४।।

अग्निमानयं प्रदेशो धूमवत्त्वान्महानसप्रदेशवत् । तथाभूतप्रत्ययसामर्थ्यात् पूर्व्वमेव गृहीत
इत्युच्यते । अन्यथा (हि) यदि साध्योपि स्वभावः परिगृहीतः किमनुमान पूर्व्वधूमप्रतीता
वेवास्यापि धूमस्य प्रतीतेरग्निप्रतीतिः । न चाविद्यमानं भावि शक्यं प्रत्येतुं । तस्मा (त्त)
द्रुपप्रत्ययसम्भवादेव प्रतीतमिति व्यवहारमात्र (त) उच्यते । व्यवहारमात्रेण ग्रहणेन परमार्थ
ग्रहणमिति कथन्न विसम्वादः । तथाभूतार्थक्रियाकारिण्येव स परामर्श इति अवि)सम्वादः1227

ननु स एव नियमः कथं ग्राह्यः । अस्मादेव व्यवहारात् । व्यवहारेण सकलमेव
सम्वादकमनादिना ज्ञायते न परमार्थ इति प्रतिपादितं । तस्मात् सामान्येन प्रतिबन्धग्रहणे
तस्य विशेषमन्तरेणाभावात् विशेषप्रतिपत्तिः । एवमेव सकलो व्यवहारः ।

एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ ।
प्रत्याख्यातौनिराकुर्व्वन् धर्मिण्येवमसाधनात् ।। ४० ।।

अनित्यः शब्द इति प्रतिज्ञायां यद्यनित्यः शब्दः साध्यः शब्दविशिष्टमनित्यत्वं शब्दे
साध्यमिति प्राप्तं । अनित्यत्वविशिष्टो वा शब्दं इति ततस्तद्विपर्ययसाधनाद्विरुद्धः । यथायं
हेतुः शब्देऽनित्यत्वं (प्र) साधयति । तथा शब्दविशिष्टानित्यत्वाभावमपीति विरुद्ध इति य आह
सोप्यनेनेष्टसाध्यवचनेन निराकृतः । नहि शब्दोऽनित्यशब्दत्वं प्रसाध्यतेऽनित्यतामात्रस्य

501

प्रसाधनात् । अनित्यतामात्रसाधने कथं समुदायसाधनमिति चेत् । न । तथैव समुदायस्य
साधनात् । धर्मिणा सह समुदायसाधनात् । नहि धर्मिण्यपरः शब्दानित्यत्वसमुदायः शब्दे
साध्यः । ततस्तस्य निराकरणेपि न दोषः । अनित्यतामात्रनिराकरणे हि दोषः । कथं
समुदायविपर्यासनमिति चेत् । द्वयोरेकाभावे समुदायस्य निराकरणात् । नैकशेषत्वे समुदाय
सम्भवः । तस्मात् केवल एव धर्मो धर्मिणि साध्यः । तथैव समुदायसाधनात् । एकत्र
द्वितीयसाधने समुदायसम्पत्तेः । कथं तर्हि धर्मधर्मितत्समुदायविशेषनिराकरणभेदः । तद्द्वारेण
निराकरणात् । यद‌्द्वारेण हि समुदायो निराक्रियते तेन व्यपदिश्यते । परमार्थतः समुदाय
निराकरणमेव । अनित्यः शब्दः । शब्दानित्यत्ववान् वा शब्द इति समुदायनिराकरणञ्चेत् ।
नैवं प्रतिज्ञा (याः)ऽसंभवात् । अनित्यः शब्द इति तु प्रतिज्ञायां न समुदायसाधनत्वप्रतीति
रपरत्र धर्मिणि । तस्मादन्यथासमुदाय साधनासम्भवात् । केवलधर्म्यादि1228 निराकरणेनैव
समुदायनिराकरणम् ।

न तु शब्देऽनित्यशब्दत्वनिराकरणात् । एवं साध्यस्यानभिप्रेतत्वात् । अनभिप्रेत
निराकणे न दोषः ।

समुदायापवादो हि न धर्मिणि विरुध्यते ।
साधनं यतस्यथानेष्टं साध्यो धर्मोत्र केवलः ।। ४१ ।।

—इति संग्रहः ।

  1. २ B. दोषभाक्

  2. १ B. ॰त्परा ।

  3. २ B. तदेवेति ।

  4. ३ B. ऽनन्वय दोषः,

  5. ४ B. सर्वोऽपक्षः

  6. ५ T. तृतायामाह्निकं (समाप्तम)

  7. २ धर्म्मादि