५. स्वयंशब्दग्रहणफलम्

यदि तर्हीष्टग्रहणमनभिप्रेतसाध्यनिराकरणेप्यदोषप्रतिपादनपरं तत्र यथा शब्दनिवि
ष्टा नित्यताबाधने धर्मिणि न दोषस्तथा अकाशगुणत्वविशिष्टानित्यत्ववाधनेप्यदोष एव ।

सत्त्यमेतत् । तथापि विप्रतिपत्तिनिराकरणार्थं स्वयं ग्रहणम् । तथा हि ।

एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि ।
साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयं श्रुतिः ।। ४२ ।।

भवत्वेव शास्त्रदृष्टं साध्यं तत्प्रबाधने च हेतुप्रतिज्ञयोर्दोष इत्येके । तथा हि । न्यायभाष्ये । आगमः प्रतिज्ञा । आगमार्थनिर्द्देशादागम इत्युच्यते नान्यथेति (न्याय-)
वार्तिकं
 । अन्यथाऽगमस्य प्रमाणत्वात् प्रतिज्ञायाश्च सन्देहसाधनात् कथमेकत्वं । स एवा
गमार्थः परं प्रति निर्द्देश्यमानः प्रतिज्ञार्थः । तस्मादागमः प्रतिज्ञा तदर्थबाधने हेतोर्द्दोषः शास्त्रार्थ
बाधनात् । न (च) शास्त्रविरुद्धो हेतुः साध्यसाधकः । प्रतिज्ञादोषश्च । अनित्यत्व
मप्याकाशगुणत्वैकार्थसमवायसम्भवि साध्यं यथाऽन्येन हेतुना केनचित्तत्राकाशगुणत्वं शास्त्रेण
वा साध्यं तथाभूतमनित्यत्वं प्रतिज्ञार्थः । तस्य च तेन निराकरणे प्रतिज्ञादोषः । तथाहि ।

122912301231502
  1. १ B तस्मान्न समुदाय

  2. ३ साध्यं यतस्तथा—इति हे.

  3. ४ B विशिष्टा