(१) हेतुवचनं असाधनम्
ननु पक्षः साध्य एव तदपेक्षयान्यस्य सपक्षत्वात् । तत्र पक्षसमपक्षान्यतरत्वं नाम
धर्मस्तद्विपक्षाद् व्यावर्त्तते । ततः कथन्न हेतुः । नहि पक्षसपक्षनियतो धर्मः साध्यव्यभिचारी ।
तदसद्यतः ।
यद्ययमर्थः पक्षसपक्षान्यतरत्वादिति शब्दघटानित्यता सामान्याव्यभिचरितधर्मयोगा-
485
दिति । तदा स धर्मः कृतकत्वादिलक्षण एव । अव्यभिचरितस्य साधर्म्यस्यान्यतर शब्देन
प्रतिपादनात् । न त्व व्यभिचारी1157 धर्मः कृतकत्वादिलक्षण एव । एवं च सति (स) हेतुरर्थ
एव न कल्पितः । अथ पक्षीकृतेतरत्वेन विवक्षितत्वात् ।
तदसत् । यद्यपि नामानित्यतया पक्षत्वविवक्षा तथापि न तावताऽनित्यता सिध्यति ।
नित्यतया विवक्षितत्वे तदैवापगमात् । वास्तवञ्चेदनित्यतया पक्षत्वं प्रसिध्येत् सिद्धमेव
साधितं भवेत् । तस्मान्न कल्पितो धर्मः साधनं ।
स च स्वसिद्धोऽर्थः साधनं । त्रिरूपमेव लिङ्गमतस्त्रिरूपलिङ्गाख्यानं परार्थमनुमानं ।
ततो यैः पक्षवचनमपि साधनमिष्यतेऽयुक्तवादिनस्त इति प्रतिपादितं भवति । तस्यासिद्धत्वात् ।
साधनं हि साध्यं साधयेत् । न साध्यमेव (वाध्यं साधनात्) । वचनं साधनमिति चेत् ।
न । वचनस्य साक्षादसाधनत्वात् । साध्याप्रतिबन्धात् । न वचनस्यार्थे प्रतिबन्धः । तस्मात् ।
अनित्यः शब्दः कृतकत्वादिति त्रिरूपं कृतकत्वमेवानित्यतां गमयति । तस्य तत्राव्य
भिचारात् । न पक्षवचनं हेतुवचनं वा । अन्यथा नित्यः शब्दः प्रमेयत्वागिति साध्य
सिद्धिर्भवेत् । अत्रापि हेतुपक्षवचनमस्ति । तदर्थस्य तत्राप्रतिबन्धादहेतुरिति चेत् ।
अर्थादेव तर्हि अर्थस्य गतिः प्रतिबन्धात् । न वचनं साक्षात्साधनमिति प्राप्तं । वचनस्यार्थ
मन्तरेणापि भावात् । यत्र च हेतुवचनमसाधन । तत्र पक्षवचनस्यासाधनत्वमनुक्तसिद्धि
मेव । अथ साध्यवचनं साध्यार्थंप्रतिपादनात्साधनं । न । हेतुवैयर्थ्यप्रसङ्गात् । अथ
प्रतिज्ञामात्रं न साधनमिति हेतुरुपादीयते । कथमसाधनं साधनं । सहितं साधनमिति
चेत् । कथमनुपयोगि साहित्यं विदध्यात् । नानुपयोगिना कश्चित् साहित्यं वाञ्छति ।
तस्मान्न वचनं साधनं ।
अपि च ।
-
१ B. स चाव्यभिचारी
↩