(२) पक्षवचनं असाधनम्
नहि संशय हेतुरेव तत्र हेतुः । अर्थाप्रतिबद्धत्वेन च संशयहेतुत्वं । अन्यथा
हेतुपादानमनर्थकं1158 । यथा तर्हि वचनं साध्यार्थासाधनं । तथा साधनार्थोपि नैव तस्मात्प्र
तिपत्तव्यः तत्रापि नैव तस्य प्रतिबन्धः । प्रतिबन्धे वा साध्येपि कः प्रतिबन्धः प्रतिवन्धस्य ।
सत्त्यमेतत् । साधनार्थमपि नैव वचनं प्रतिपादयति । तत्राभिप्रायनिवेदने प्रमाण
त्वादतः साक्षान्न साधनं । साधनेपि प्रमाणमेव वचनेन आक्षिप्यते । साध्येपि प्रमाणमाक्षि
प्यतामिति चेत् । न । तदानीमेव तत्र प्रमाणसद्भावात् । पूर्व्ववृत्तं हि प्रमाणमाक्षिप्यते
वचनेन तत्र विस्मरणसम्भवात् । वर्त्तमाने तु प्रमाणं प्रत्यक्षमेव किन्तत्र वचनेन । नहि
प्रत्यक्षेऽर्थे परोपदेशो गरीयान् । यस्माद्वचनमसाधनं । पारम्पर्येण तर्हि साधनं पक्षस्य
वचनं यथा साधनस्य । एतदप्यसत् ।
यथा साधनवचनं साधनं तथा पक्षवचनमपि भवेत् । यदि शक्तस्य सूचकं भवेत्प्रमाण
सिद्धस्य । असिद्धस्य तु सूचनं कथं साधनं । नहि स्वयमशक्तमशक्तमाश्रित्य शक्तिमत् ।
तथाहि (।)
साध्यस्य पक्षवचनेनासिद्धतयाभिधानात्कथं साधनं पक्षवचनं । हेतुवचनन्तु स्वयमश
क्तमपि शक्तस्य वाचकमिति साधनमुक्तं ।
ततो यदुक्तं परार्थञ्चानुमानञ्चेति व्याहतं । तथाहि प्रतिपाद्यापेक्षया स्वार्थमेव ।
प्रतिपादकापेक्षया त्वनुवादमात्रकं । तन्निराकृतं । यतः । अनुमानन्तदनुमानकारणत्वे
नोपचारत उक्तं । न स्वतः । ततः प्रतिवाद्यपेक्षया तत्स्वार्थमिति यत्किञ्चनवादितैव ।
तस्य हि त्रिरूपमेव लिङ्गं प्रतिपादकत्वात्स्वार्थ । न वचनं । ततोर्थस्याप्रतिपत्तेः । स्मरणेन
तस्याप्युपकारकत्वात् प्रतिपादकमेवेति चेत् । न (।) अर्थवादमात्रकस्य वचनेन विधानात् ।
तत उभयापेक्षयापि वचनमनुवाद एव । परार्थता तस्य प्रतिपादकापेक्षया न प्रतिपादकस्य
तेन कक्चिदुपकारः । अनुमानकारणत्वेन त्वनुमानन्तत्प्रतिपाद्यापेक्षयैव ।
नन्वर्थापेक्षया परार्थमन्यपेक्षयानुमानमिति प्राप्तम् । तत्कथमेतत् । ननु गुण एव
हि दोषतयाध्यारोप्यते । येनैव तस्य प्रतिपादकस्य तदनुमानन्न भवति प्रतिपाद्यस्य वात एव
तत् प्रतिपादकस्य परार्थमन्यथा स्वार्थमपि भवेत् । स्वयमपि तेन तस्यार्थकरणात् । उपचारे
च प्रयोजनमुक्तं । वचनस्यान्येन प्रकारेणार्थसाधनाभावात् । ननु स्मरणेपि वचनं प्रमाणम
प्रमाणम्वा (।) प्रमाणञ्चेत् किन्नार्थे । अ(था) प्रमाणं कथं ततः स्मरणम् । अत एवान्यथा ।
ततः प्रमाणमेव भवेन्न स्मरणं । स्मरणे च तत्कारकं न ज्ञापकमिति प्रमाणस्वभावः1160 ।
स्मरणमेव ततः कथं । अर्थे प्रतिबन्धाभावात् । घमो हि पावके प्रतिबद्ध इति जनयति
स्मरणं । तद्यदि शब्दोपि प्रतिबद्धस्तथा स्मरणं जनयेत् ।
तदसत् । न स्मरणमात्रकं प्रतिबद्धत्वादिति प्रतिबन्धः । स्मरणञ्च भविष्यत्यप्रति
बद्धत्वाच्चेति । कोनयोर्व्विरोधः । तथाहि ।
अथ निश्चितरूपं स्मरणं सम्बद्धादेव नान्यतः ।
487तद्युक्तं । न ह्यसति प्रतिबन्धे तस्य निश्चयस्तत्र किन्तु शब्दान्निश्चितरूपं स्मरणमित्य
सिद्धमतो न सम्बन्धसिद्धिः । तथाहि । सम्बन्धमनालोचयतः संदेह एव भवति । शब्दाच्च
सन्देह उपजायमान उपलभ्यत एव । कथन्तर्हि निश्चय (ः) । एवमे (वै) तत् । यथाहाय
मिति । न प्रमाणादेव तन्निश्चयात् । यतः । पूर्व्वप्रवृत्तप्रमाणपर्यालोचनादेव निश्चयो
न वचनमात्रात् । प्रमाणे तर्हि निश्चयो (न) वचनात् । तथापि वचनं प्रमाणमेव । अत्रोच्यते ।
अर्थे हि वचनमप्रमा । प्रमाणे तु प्रमाणमिति नैव किञ्चित् क्षीयते न च
प्रमाणमपि वचनात्सिध्यति तस्य स्वसम्वेदनेन सिद्धेः । स्मरणमात्रमेव तत्र भवति ।
निश्चयस्तु स्वसम्वेदनादेव । किन्न वचनमात्रेण1163 । भवत्येवाभोगमात्रादपि३ स्मरण
दर्शनात् । अथ यदाभोगतो न भवति तदा वचने प्रमाणमिति चेत् । न सदेतत् । यतः ।
तस्मात्पूर्व्वप्रमाणस्वरूपावधारणमत्यन्तपर्यालोचनत एव कुतश्चित् लिङ्गादिति न
वचनं प्रमाणं । प्रमाणेनाप्यर्थेनाप्याभोग इति । अनुमानमेव परोक्षेऽर्थे प्रमाणं तद्द्वारेण वचनं ।
ननु प्रमाणं प्रतिबन्धग्राहीदानीमतीतमिति कथं प्रतिबन्धनिश्चयः । स्मरणमिदा
नीन्न च तत्प्रमाणं । तेन प्रमाणेन जनितत्वात् प्रमाणमेव । ततश्च ।
ननु प्रमाणादेतत्स्मरणमिति स्मृतिरेवात्रापि निबन्धनं । तदपि स्मरणमन्यतः स्मर
णात्परिशुद्धिभागिति कुतो निश्चयो जायतां ।
अत्राप्युच्यते । उक्तमेवादावेतत् । स्वरूपस्य स्वतो गति (ः) । प्रामाण्यम्व्यव
हारेण । (प्र॰ वा॰ १।४) व्यवहारश्चार्थप्राप्तिलक्षण एवोपलभ्यते नान्य उपयोगी ।
ननु स्वत एव किञ्चिद् दृढं स्मरणं ततोयं प्रमाणदिति निश्चयो न व्यवहारादिति चेत् ।
तदसत् । यतः ।
यद्ययमर्थप्राप्तिलक्षणो व्यवहारो नाभविष्यदभ्यस्तस्तत्कथं प्राप्त्युपयोगिदाढर्यम्भवेत् ।
अन्यदभ्यस्तमन्यत्र दाढर्यमिति स एव व्यवहारोच्छेदो लोकस्य स्यात् । तस्मादेतावती गतिः
संसारिणामिति सांव्यवहारिकं प्रमाणम (वि) चलितमिति न दोषः । तस्माद्वचनमनुमान
कारणत्वादनुमानमिति स्थितमेतत् ।
नन्वाचार्यस्य पक्षवचनमभिमतमेव । यदाह ।
नैतदस्ति । यतः ।
यदाह । (अस्माकन्तु ।)
तत्रानुमेयनिर्देशो हेत्वर्थविपयो मतः ।
अस्माकन्तु योनुमेयनिर्द्देशः स हेत्वर्थविषयत्वेन न साधनत्वेन (।) अतः साक्षात्साधनत्व
प्रतिक्षेपात् तस्य साध्यस्योक्तेरशक्तता कथिता1167 । कथन्तर्हि पक्षधर्मत्वं1168 सम्बन्धसाध्योक्ति
निर्द्देशाभ्युपगमः । नास्यायमर्थः । पक्षधर्मश्च सम्बन्धश्च साध्योक्तिश्चेति । अपि तु
सम्बन्धोक्तिसङ्गता साध्योक्तिः सम्ब धसाध्योक्तिः । यत्कृतकं तदनित्त्यमिति व्याप्त्यन्तर्गता
साध्योक्तिर्न्न प्रतिज्ञारूपेण । अवश्यं हि साधने व्यापकत्वं साध्यस्योपदर्शनीयं । अतोऽवय
वद्वयमेव दर्शनीयं । सम्बन्धेन रूपद्वयाक्षेपादेव त्रिरूपता हेतोः । तस्मादनित्त्यः शब्द इति
नादावन्तेवा दर्शनीयम् । रूपद्वयमात्रकादेव साध्यस्य सिद्धेः ।