486

वचनेन तत्र विस्मरणसम्भवात् । वर्त्तमाने तु प्रमाणं प्रत्यक्षमेव किन्तत्र वचनेन । नहि
प्रत्यक्षेऽर्थे परोपदेशो गरीयान् । यस्माद्वचनमसाधनं । पारम्पर्येण तर्हि साधनं पक्षस्य
वचनं यथा साधनस्य । एतदप्यसत् ।

साध्यस्यैवाभिधानेन पारम्पर्यैण नाप्यसं ।
शक्त(स्य) सूचकं हेतुवचोऽशक्तमपि स्वयम् ।। १७ ।।

यथा साधनवचनं साधनं तथा पक्षवचनमपि भवेत् । यदि शक्तस्य सूचकं भवेत्प्रमाण
सिद्धस्य । असिद्धस्य तु सूचनं कथं साधनं । नहि स्वयमशक्तमशक्तमाश्रित्य शक्तिमत् ।
तथाहि (।)

न पतन्तमाश्रित्य पतत् स्थिरीभवति क्वचित् । तथा (ऽ) सिद्धमसिद्धेन न तेनैव प्रसाध्यते ।। ७७ ।।

साध्यस्य पक्षवचनेनासिद्धतयाभिधानात्कथं साधनं पक्षवचनं । हेतुवचनन्तु स्वयमश
क्तमपि शक्तस्य वाचकमिति साधनमुक्तं ।

प्रतिबद्धस्य साध्येर्थे साधनस्याभिधानतः । वचनं साधनं प्रोक्तं साधनं तत्स्वतो न तु ।। ७८ ।।

ततो यदुक्तं परार्थञ्चानुमानञ्चेति व्याहतं । तथाहि प्रतिपाद्यापेक्षया स्वार्थमेव ।
प्रतिपादकापेक्षया त्वनुवादमात्रकं । तन्निराकृतं । यतः । अनुमानन्तदनुमानकारणत्वे
नोपचारत उक्तं । न स्वतः । ततः प्रतिवाद्यपेक्षया तत्स्वार्थमिति यत्किञ्चनवादितैव ।
तस्य हि त्रिरूपमेव लिङ्गं प्रतिपादकत्वात्स्वार्थ । न वचनं । ततोर्थस्याप्रतिपत्तेः । स्मरणेन
तस्याप्युपकारकत्वात् प्रतिपादकमेवेति चेत् । न (।) अर्थवादमात्रकस्य वचनेन विधानात् ।
तत उभयापेक्षयापि वचनमनुवाद एव । परार्थता तस्य प्रतिपादकापेक्षया न प्रतिपादकस्य
तेन कक्चिदुपकारः । अनुमानकारणत्वेन त्वनुमानन्तत्प्रतिपाद्यापेक्षयैव ।

नन्वर्थापेक्षया परार्थमन्यपेक्षयानुमानमिति प्राप्तम् । तत्कथमेतत् । ननु गुण एव
हि दोषतयाध्यारोप्यते । येनैव तस्य प्रतिपादकस्य तदनुमानन्न भवति प्रतिपाद्यस्य वात एव
तत् प्रतिपादकस्य परार्थमन्यथा स्वार्थमपि भवेत् । स्वयमपि तेन तस्यार्थकरणात् । उपचारे
च प्रयोजनमुक्तं । वचनस्यान्येन प्रकारेणार्थसाधनाभावात् । ननु स्मरणेपि वचनं प्रमाणम
प्रमाणम्वा (।) प्रमाणञ्चेत् किन्नार्थे । अ(था) प्रमाणं कथं ततः स्मरणम् । अत एवान्यथा ।
ततः प्रमाणमेव भवेन्न स्मरणं । स्मरणे च तत्कारकं न ज्ञापकमिति प्रमाणस्वभावः1160 ।
स्मरणमेव ततः कथं । अर्थे प्रतिबन्धाभावात् । घमो हि पावके प्रतिबद्ध इति जनयति
स्मरणं । तद्यदि शब्दोपि प्रतिबद्धस्तथा स्मरणं जनयेत् ।

तथाहि यद्यत्स्मरणं तदस्ति प्रतिबन्धतः1161 । यथास्ति धूमात्स्मरणं परोक्षे कृष्णवऽत्मनि ।। ७९ ।।

तदसत् । न स्मरणमात्रकं प्रतिबद्धत्वादिति प्रतिबन्धः । स्मरणञ्च भविष्यत्यप्रति
बद्धत्वाच्चेति । कोनयोर्व्विरोधः । तथाहि ।

आभोगदपि दृष्टेर्थे स्मरणं किन्न जायते । यतः कुतश्चिदर्थाद्वा प्रायेण सहचारिणः ।। ८० ।।

अथ निश्चितरूपं स्मरणं सम्बद्धादेव नान्यतः ।

  1. १ B प्रमाणत्वाभावः

  2. २ B प्रतिबद्धतः