तद्युक्तं । न ह्यसति प्रतिबन्धे तस्य निश्चयस्तत्र किन्तु शब्दान्निश्चितरूपं स्मरणमित्य
सिद्धमतो न सम्बन्धसिद्धिः । तथाहि । सम्बन्धमनालोचयतः संदेह एव भवति । शब्दाच्च
सन्देह उपजायमान उपलभ्यत एव । कथन्तर्हि निश्चय (ः) । एवमे (वै) तत् । यथाहाय
मिति । न प्रमाणादेव तन्निश्चयात् । यतः । पूर्व्वप्रवृत्तप्रमाणपर्यालोचनादेव निश्चयो
न वचनमात्रात् । प्रमाणे तर्हि निश्चयो (न) वचनात् । तथापि वचनं प्रमाणमेव । अत्रोच्यते ।
अर्थे हि वचनमप्रमा । प्रमाणे तु प्रमाणमिति नैव किञ्चित् क्षीयते न च
प्रमाणमपि वचनात्सिध्यति तस्य स्वसम्वेदनेन सिद्धेः । स्मरणमात्रमेव तत्र भवति ।
निश्चयस्तु स्वसम्वेदनादेव । किन्न वचनमात्रेण1163 । भवत्येवाभोगमात्रादपि३ स्मरण
दर्शनात् । अथ यदाभोगतो न भवति तदा वचने प्रमाणमिति चेत् । न सदेतत् । यतः ।
तस्मात्पूर्व्वप्रमाणस्वरूपावधारणमत्यन्तपर्यालोचनत एव कुतश्चित् लिङ्गादिति न
वचनं प्रमाणं । प्रमाणेनाप्यर्थेनाप्याभोग इति । अनुमानमेव परोक्षेऽर्थे प्रमाणं तद्द्वारेण वचनं ।
ननु प्रमाणं प्रतिबन्धग्राहीदानीमतीतमिति कथं प्रतिबन्धनिश्चयः । स्मरणमिदा
नीन्न च तत्प्रमाणं । तेन प्रमाणेन जनितत्वात् प्रमाणमेव । ततश्च ।
ननु प्रमाणादेतत्स्मरणमिति स्मृतिरेवात्रापि निबन्धनं । तदपि स्मरणमन्यतः स्मर
णात्परिशुद्धिभागिति कुतो निश्चयो जायतां ।
अत्राप्युच्यते । उक्तमेवादावेतत् । स्वरूपस्य स्वतो गति (ः) । प्रामाण्यम्व्यव
हारेण । (प्र॰ वा॰ १।४) व्यवहारश्चार्थप्राप्तिलक्षण एवोपलभ्यते नान्य उपयोगी ।
ननु स्वत एव किञ्चिद् दृढं स्मरणं ततोयं प्रमाणदिति निश्चयो न व्यवहारादिति चेत् ।
तदसत् । यतः ।
यद्ययमर्थप्राप्तिलक्षणो व्यवहारो नाभविष्यदभ्यस्तस्तत्कथं प्राप्त्युपयोगिदाढर्यम्भवेत् ।
अन्यदभ्यस्तमन्यत्र दाढर्यमिति स एव व्यवहारोच्छेदो लोकस्य स्यात् । तस्मादेतावती गतिः
संसारिणामिति सांव्यवहारिकं प्रमाणम (वि) चलितमिति न दोषः । तस्माद्वचनमनुमान
कारणत्वादनुमानमिति स्थितमेतत् ।
नन्वाचार्यस्य पक्षवचनमभिमतमेव । यदाह ।