नैतदस्ति । यतः ।
यदाह । (अस्माकन्तु ।)
तत्रानुमेयनिर्देशो हेत्वर्थविपयो मतः ।
अस्माकन्तु योनुमेयनिर्द्देशः स हेत्वर्थविषयत्वेन न साधनत्वेन (।) अतः साक्षात्साधनत्व
प्रतिक्षेपात् तस्य साध्यस्योक्तेरशक्तता कथिता1167 । कथन्तर्हि पक्षधर्मत्वं1168 सम्बन्धसाध्योक्ति
निर्द्देशाभ्युपगमः । नास्यायमर्थः । पक्षधर्मश्च सम्बन्धश्च साध्योक्तिश्चेति । अपि तु
सम्बन्धोक्तिसङ्गता साध्योक्तिः सम्ब धसाध्योक्तिः । यत्कृतकं तदनित्त्यमिति व्याप्त्यन्तर्गता
साध्योक्तिर्न्न प्रतिज्ञारूपेण । अवश्यं हि साधने व्यापकत्वं साध्यस्योपदर्शनीयं । अतोऽवय
वद्वयमेव दर्शनीयं । सम्बन्धेन रूपद्वयाक्षेपादेव त्रिरूपता हेतोः । तस्मादनित्त्यः शब्द इति
नादावन्तेवा दर्शनीयम् । रूपद्वयमात्रकादेव साध्यस्य सिद्धेः ।
(३) न्यायोक्तलक्षणे दोषाः
1169(क) प्रतिज्ञानिगमनयोरनुक्तिः—
अथापि स्याद्(।) यदि पक्षवचनाभावे हेतुवचनमतकिंतमुद्गुरपातायमानमसम्बद्ध
मिति न प्रवर्त्तते1170 । ततो हेतुवचनप्रवृत्तेः तदपि साधनमेवेति न । संशयजिज्ञासा प्रकरण
तदवबोध इच्छानामपि1171 साधनत्वप्राप्तौ दशावयवता वाक्यस्य स्यात् । इदमत्र सन्दिग्धं
भवतः । इदमेव जिज्ञासितं । इदमेव भवता1172 प्रस्तुतं । इदं मयावगतं । अत्र ममेच्छेति
(।) एवं कूर्च्चशोभामारच (य) ता दशावयवं वाक्यं प्रयोक्तव्यं । तथा विपक्षोपगमेपि
साधनं प्रवर्त्तते । ततस्तस्यापि साधनत्वप्रसङ्गस्तेन सह विपक्षस्य । अथ साध्यनिश्चयमात्रं
संदेहादिप्रतिपादनमन्तरेणापि भवतीति न तैः शब्दप्रपञ्चमात्रोपयोगिभिः कश्चिदर्थगतोर्थस्ततः
संशयादिपरित्यागः (।) तदनुवादस्याकिञ्चत्करत्वत्५ । यद्येवं प्रतिज्ञावचनमप्यनुवादमात्र
मेव वादिनो नान्तरङ्गता तस्य ।
त्रिरूपादेव तावत्स्वार्थानुमाने सोर्थः साध्यः प्रतीयते । नहि स्वार्थानुमाने साध्यार्थः
प्रथममायाति1173
हेतोस्तेनाध्यवसितेन भवितव्यं । ततः स्वनिश्चयवदेव न प्रथमं साध्योपा
दानम् । पश्चाद्रूपादानमिति चेत् । पश्चादपि नोपादानं स्वार्थानुमानवदेव । परस्यापि