(ग) प्रतिज्ञा (आगम) निरासः—

अथ प्रतिज्ञार्थ आगमसिद्ध इति प्रतिज्ञा आगम उच्यते । एवमपि किन्न1177 प्रतिज्ञायाः
प्रयोजनं । तथा हि ।

आगमादेव सिद्धोयं यद्यर्थः किं प्रतिज्ञया । आगमान्न प्रसिद्धोयं यद्यर्थः किं (प्र) तिज्ञया ।। ९६ ।।
अनागम प्रमाणेन किमर्थो न प्रसाध्यते । न प्रतिज्ञानमात्रेण सागमार्थत्वसाधनं ।। ९७ ।।
अथाप्यत्यन्तमभ्यासात्प्रतिज्ञा हेतुमात्रतः । प्रतीतिसिद्धिस्तत्रास्ति प्रतिज्ञापदमर्थवत् ।। ९८ ।।
तदापि पञ्चावयवमभ्यस्तत्वात्कुतो वचः । प्रतिज्ञापि तदा नासौ1178 पञ्च1179 धर्मत्वदर्शनात् ।। ९९ ।।

कथन्तर्हीदमुक्तमस्माकं तु पक्षनिर्द्देशो यः स न साधनत्वेनापि तु हेत्वर्थविषयत्वेनेति ।
एतदेवाह ।

अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् ।
विषयख्यापनादेव सामर्थ्यमिति चेन्मतं1180 ।। २१ ।।

कृतकत्वादित्येतावन्मात्रकादनित्य इत्युक्तेन ज्ञायते कस्यानित्यता साध्या । ततः स
शब्दोऽनित्य इति प्रतिज्ञापदमुपादेयं । तदिदानीं हेतुविषयत्वेन नोपादीयतामन्यथा वा ।
सर्व्वथास्यां बाह्यव्यवस्थायामख्यापिते विषये हेतुवृत्तेरसम्भवात् । अवश्यम्विषयः ख्यापयि
तव्यः । ततः साध्यसिद्धेः प्रागवश्यं भावः प्रतिज्ञायाः साधनस्य साधनतान्यथा साधनत्वस्या
भावात् । प्रमाणफलोपन्यास इति चेत् । निर्द्देशे प्रमाणफलं प्रतिज्ञा पक्ष इति न
नामान्तरकरणात्परिहारः । स चायं न्यायः शूलं चक्रमित्याहेति । अतो विषयख्यापनादेव
तस्य शक्तता सिद्धा । उक्तमत्र । संशयादीनामपि साधनत्वप्रसङ्गः ।

विषयादर्शनञ्चेदं व्याप्तिपूर्व्वकवाचकं । अन्यथा वा विधीयेत तदिदं द्वयमप्यसत् ।। १०० ।।

विषयः प्रतिज्ञया निदर्शनीय इत्यत्र विचार्यते । किम्व्याप्तितपूर्व्वकप्रयोगे । अथ
हेतोः पञ्चम्या निर्द्देशे ।

किञ्चातः ।

491
व्याप्तिर्व्वे1181 विनाप्यस्मात्कृतकः शब्द ईदृशः ।
सर्व्वेऽनित्या इति प्रोक्तेप्यर्थात्तन्नाशधीर्भवेत ।। २२ ।।

यत्कृतकं तत्सर्व्वमनित्यमिति सर्वोपसंहारेण व्याप्तिदर्शने तद्व्यप्तं कृतकत्वं तत्रोपदर्शितं ।
तथाभूतमेवेत्यनित्यता शब्दस्येति ज्ञायत एव किं प्रतिज्ञापादेन विषयोपदर्शनार्थेनेत्यन्यथैव1182 विषयस्य प्रसिद्धेः । अथ प्रतिज्ञा (पद) मन्तरेण कथम्विरुद्धहेतुनिश्चयः । नैष दोषः ।

प्रतिवादी विरुद्धस्य परिज्ञाता भवेदिति । प्रतिज्ञा क्रियते नैव स्वबधाय किमुद्यमः ।। १०१ ।।

यदि प्रतिज्ञापदानुपादानं कथं विरुद्धोयं हेतुरिति ज्ञायते परेणेति कस्यायं पर्यनुयोगः
वादिन इति चेत् । न सम्यगेतत् । भद्रमेवापतितं मा ज्ञासीत्प्रतिवादी किं मया तस्य सौर्क्य ।
करणीयं (।) व्याप्तिपूर्व्वके प्रयोगे शास्त्रकारेण कर्त्तव्यतयाभिहिते विहितो विरुद्धस्यासम्भ
वाद्वादिनो महानुमपकार इति च शास्त्रकारस्यापि न दोषः । न ह्यसौ वादिबधाय शास्त्रकृत् ।
प्रतिवादिनोनुग्रहः कर्त्तव्यं एवेति चेत् । कः प्रद्वेषोऽन्यत्रेति यत्किञ्चिदेतत् । यदि
नित्त्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्त्यमिति । अत्र विरुद्धहेतुचोदनं । तदा न
कश्चिदनुन्मत्तस्तदैव नित्त्यत्वं प्रतिज्ञायानित्त्यत्वेन व्याप्तिमुपदर्शयेत् । अथ नित्त्यत्वेन व्याप्ति
मुपदर्शयेत्तदा व्याप्तिविपर्ययादेव विरुद्धत्वप्रतीतिः । अपि च । यस्य प्रतिज्ञापदप्रयोगस्त
दपेक्षया विरुद्धाभिधानं । नित्त्यः शब्दः कृतकत्वादिति चावसरे । अथ प्रतिज्ञापदमन्तरेणा
दृष्टमुद्‪गरपातायमानं साधनवाक्यमुद्धेगाय भवेत् । अतस्तदुपादानं । यतः प्रकरणार्थनिवे
दनाय1183 प्रतिज्ञा ।

अत्रोच्यते । प्रस्तावमन्तरेण प्रतिज्ञावचनमप्यदृष्टमुद्‪गरायत एव । प्रतिवादिना
प्रस्तावः कृत इति चेत् । कृतं प्रतिज्ञापदेनेत्यलं प्रसङ्गेन ।

  1. २ B. किम्

  2. ३ B. प्रयोक्तव्या ।

  3. ४ B. हेतोः विदुषामित्यादि ।

  4. ५ M. सिद्धौ चेत्तस्य शक्तता

  5. १ M. उक्तमत्र विना॰

  6. २ B. ॰र्थेनान्यथैव

  7. ३ B. निवेद॰