२. प्रतिज्ञा न साधनावयवः

1184

ननु प्रतिज्ञापदमन्तरेण साधनन्यूनता भवेत् । तथा चाह । हीनमन्यतमेनाप्य
वयवेन प्रतिज्ञादीनां न्यूनं1185 ।

साधनावयवत्वे हि सिद्धे तन्न‪यूनता भवेत् । साधनावयवत्वञ्च प्रतिज्ञाया निराकृतं । १०२ ।।

साधनावयवेन न्यूनं साधनं न्यूनं भवेत् । प्रतिज्ञायाश्च न साधनावयवत्वं । यतः ।

अनुक्तावपि पक्षस्य सिद्धेरप्रतिबन्धतः ।
त्रिष्वन्यतमरूपस्यैवानुक्तिन्नर्यूनतोदिता ।। २३ ।।

नहि तदसम्बद्धं तदवयवः । नापि तेन न्यूनं न्यूनं । अनुपयोगिनापि न्यूनत्वेना
नुपयोगिनामनङ्गन्तत्त्वादन्यूनतैव न भवेत् । अथानुपयोग्यभावेपि न न्यूनं । प्रतिज्ञापदेनापि
तथा सत्यसता समानमित्यचोद्यं । यदि च प्रतिज्ञासाधने सत्युपगम्यते1186 तदा साध्य
निर्द्देशः प्रतिज्ञेति
1187 प्रतिज्ञालक्षणमतिव्यापि भवेत् । साध्यमसिद्धमपि साधनं भवतीत्य-


492

सिद्धहेत्वभिधानमपि प्रतिज्ञा भवेत् । यस्य तु न प्रतिज्ञासाधनन्तस्य साध्यनिर्द्देश इत्यपि
प्रतिज्ञालक्षणेन हेत्वाभासस्य प्रतिज्ञात्वमसाधनभूतस्य साध्यनिर्द्देशस्य प्रतिज्ञात्वात् ।

अतः ।

साध्योक्तिम्वा प्रतिज्ञां स वदन्दोषैर्न्न युज्यते ।
साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ।। २४ ।।

न खलु साधनमसाधनं भवति । ततः साधनत्वात्तत्राप्रसङ्ग । साधनत्वेन हेत्वाभा
सस्याधिकृतत्वात् । साध्यनिर्द्देशत्वाभावात् । प्रतिज्ञालक्षणस्याभावात् । साधनाभास
निर्द्देशो न प्रतिज्ञा ।

ननु साध्यनिर्द्देशः प्रतिज्ञा न साधननिर्द्देश इति कुतः । साधनाभासस्य प्रतिज्ञात्वप्रसङ्गः ।

अत्रोच्यते । साध्यनिर्द्देश इत्यत्र यदि साध्यत्वेन निर्द्देशः साध्यनिर्द्देशस्तदा न भवति
साधनाभासः प्रतिज्ञासाध्यत्वेनानिर्द्देशात् । किन्तु निर्द्देश्यमनिर्द्दिष्टम्भवेत् । साध्यत्वेन
निर्द्देश इति न ज्ञायते कस्य निर्द्देशः ।

अथ साधनमर्हति यः तस्य निर्द्देशः । तदापि कथं निर्द्देश इति प्रकारानिर्द्देशात् ।
साधनत्वेन साध्यत्वेन वेति विशेषाभावात् । साधनाभासस्यापि स्यात्प्रतिज्ञात्वं । कथञ्च
साधनत्वेन साध्यत्वेन च निर्द्देश इति वक्तव्यं । पञ्चम्या परया (वा) ऽप्रथमया निर्द्देशः
स साधनत्वेन । प्रथमया साध्यत्वेन । कुत एतत् । तथा शब्दार्थप्रसिद्धेः । यद्येवं
साध्यनिर्द्देश इति प्रतिज्ञालक्षणन्न विधातव्यं । साध्यतया निर्द्देश एव प्रतिज्ञेति लोके प्रसिद्धः
शब्दार्थः । पक्षस्य तु लक्षणम्विप्रतिपत्तिनिरासार्थमिति वक्ष्यामः । तस्मात्साध्यनिर्द्देश एव
प्रतिज्ञेति लक्षणवैयर्थ्यात्साध्यनिर्द्देशः प्रतिज्ञैवेति साधनाभासस्यापि प्रसङ्गः ।

ननु भवत्पक्षेपि साध्यनिर्द्देशः प्रतिज्ञैवेति कथं न हेत्वाभासः प्रतिज्ञा । नन्वसाधनभूतो
यः साध्यनिर्द्देश इति परिहृतमेतत् ।

ननु साधनभूतोपि स्यात्कदाचिदिति कः संदेहनिवृत्तिहेतुः । विजातीयत्वमेवेति ब्रूमः ।

तथाहि ।

अविशेषोक्तिरप्येकजातीये संशयावहा ।
अन्यथा सर्व्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते ।। २५ ।।

अयन्तावदिदं चोद्यचञ्चुश्चोदयितव्यः । क्रियते घट इति साध्यनिर्द्देशः प्रतिज्ञा
प्रसक्ता । ज्ञापकहेत्वधिकारात्तु तदपेक्षः साध्यनिर्द्देश एव प्रतिज्ञा । यद्येवमसाधनभूतः
साध्यनिर्द्देशः प्रतिज्ञेति साधनाभासो न प्रतिज्ञेति सिद्धमेतत् ।

सिद्धोक्तेः साधनत्वाच्चेत्परस्यापि न दुष्यति ।
इदानीं साध्यनिर्द्देशः साधनावियवः कथं ।। २६ ।।

ननु परोप्येतद् ब्रुयात् । साधनभूतः साध्यनिर्देशः प्रतिज्ञा । साधनाभासस्तु न
साधनमसिद्धत्वादसाधनत्वान्न प्रतिज्ञा प्रतिज्ञाया साधनत्वात् । यद्यसिद्धत्वेन साधनाभासो
न साधनं प्रतिज्ञाप्यसिद्धार्था कथं साधनं । असिद्धत्वेनैव साधनत्वं प्रतिज्ञायाः । यदि

493

सिद्धार्था स्याद्विषयोपदर्शनत्वमेव न भवेत् । यद्येवं साधनाभासोपि प्रतिज्ञात्वेन साधनमनि
वारितमेव । भवतु प्रतिज्ञात्वेन साधनं क इवात्र दोष इति चेत् । हेतो (:) असिद्धत्वदोषो
न स्यात् ।1188 हेत्वाभासख्या प्रतिज्ञा साध्यरूपायाः प्रतिज्ञाया न साधनं1189 ततो दोष एवेति
चेत् । साधनत्वे कथन्न साधनं । स्वार्थापेक्षया साधनं चेत् । नार्थसहितस्य साधन
(त्वा)त् । न च स ए्व तस्य साधनं । स च1190 शब्दगडुमात्रस्य साधनत्वं । सर्व्वत्रा
भिधेयस्य साधनत्वात् । अभिप्रायनिवेदने तु प्रमाणतोक्तैव ।

अथार्थ एव साधनं । सर्व्वा तर्हि प्रतिज्ञा बहिरर्थप्रत्यायनसमर्थेति तत एव साध्य
प्रसिद्धिः स्यात् । तस्मात् साक्षात्पारम्पर्येण च ततः सिद्धेरनुत्पत्तेर्न्न प्रतिज्ञा साधनं ।

अन्यः1191 पुनराह । प्रतिज्ञा साधनं साभासत्वेनोक्तेः । साभासत्वस्य साधनत्वेन सह
दर्शनात् ।

दूषणवाद्याह । प्रत्यक्षेणानेकान्तः । वचनात्मकत्वेन विशेषणाददोष इति परिहारः ।
दूषणेनानेकान्त इति चेत् । अदूषणत्वे सतीति परिहारः ।

तदेतत्सकलमसत् । तथाहि ।

साभासोक्त्याद्युपेक्षापपरिहारविडम्बना ।
असम्बद्धा तथा ह्येष न न्याय इति सूचितम्1192 ।। २७ ।।

न खल्वदर्शनमात्रेण विपक्षे1193 हेतोर्गमकत्वं (।) न चास्ति नैकपरिहारो1194 यथा
कथञ्चिद्विशेषणेन विपक्षविरुद्धेन तत्परिहारात् । एतच्चोक्तं प्राक् (।) अध्ययनमध्यय
नान्तरपूर्व्वकमिति भारताध्ययनेनाकान्तपरिचोदने वेदेन विशेषणादिति परिहार उक्तेः ।
कः पूनर्व्वेदे विशेषः । यद्यन्यथाध्येतुं न शक्यते न भवत्येव परिहारः । नहि विशेषण
मविरुद्धं विपक्षेणास्माद्धेतुं व्यावर्त्त (ि) यतुमलं । अन्यथाऽनेकत्वे सतीति को वक्तुं न
शक्नुंयात् । तस्मादसदेतदुपक्षेपपरिहारादिकमिति पूर्व्वकमेव दूषणं प्रतिज्ञायाः साधनत्वस्य ।

  1. According to table of contents, this is heading 4, on the same level as प्रतिज्ञानिरासः. According to the text, however, it is on the same level as न्यायोक्तलक्षणे दोषाः.
  2. ४ न्यायसूत्रं

  3. ५ B. साधनमुच्यते

  4. ६ B. न्यायसूत्रं

  5. २ B. प्रतिज्ञया न साधनं

  6. ३ B. दोष एवेति

  7. ४ B. न च

  8. ५ B. न्यायमुख-टीकाकारः

  9. ६ B. वण्णितं

  10. ७ B. न

  11. ८ B. न चानैकान्तिकपरिहारो