(१)
स्वयं
शब्दप्रयोजनम्

यद्यात्मा परः स दृष्टान्तेन सिद्धः । यदि तु परमात्रसाधनं तदा न प्रस्तुतसाधनं ।
सिद्धसाधनं वा । एवञ्च वदतः कः प्रतिवादिनो दोषः । यदि तर्हीष्टग्रहणमिच्छया
व्याप्तस्यानुक्तस्यापि साध्यत्वप्रतिपादनार्थं । तथा निष्टनिवृत्त्यर्थमपि1200 व्यवच्छेदफलं वाक्यं
यतः । न चानिष्टन्नाम किञ्चित् । कस्यचित्केनचिदिष्टत्वात् । अत इष्टग्रहणम्वादिन
इष्ट इति प्रतिपादनार्थं । तत्र स्वयमित्यर्थो लभ्यत एव । शास्त्रकारेष्टमपि यदि तस्येष्ट
मिष्टमेव तदिति न तन्निवृत्तिः । अनिष्टत्वे निवृत्तिरित चेत् । न । इष्टग्रहणेनैव
निवृत्तेः । यथा प्रतिवादिप्राश्निकानामिष्टन्न साध्यमितीष्टग्रहणेन साध्यते । तथा शास्त्र-

495

कारेष्टस्यापि निवृत्तिस्तत एव स्वयंग्रहणेन सर्व्वस्यान्येष्टस्य1201 निवृत्तिरिति किं शास्त्रमात्रमेव
प्रयोजनमुक्तमाचार्येण (।) स्वयमिति शास्त्रानपेक्षमभ्युपगमन्दर्शयतीति ।

अत्र परिहारः ।

सर्व्वान्येष्टानिवृत्तावव्याशंकास्थानवारणं ।
वृत्तौ स्वयं श्रुतेः प्राह1202 कृता चैषा तदरथिका ।। ३० ।।

यद्यपि नामेष्टग्रहणेनैव वाद्यपेक्षया सर्व्वान्येष्टनिराकरणं तथापि शास्त्रकारेष्टे भवत्येव
साध्यताशंका । शास्त्रकारेष्टं हि भवत्यवश्यं वादिनापीति कस्यचिदस्ति मतिः । अन्यथा
न शास्त्रविरुद्धो हेतुर्गमक इति । तत आशंकास्थानवारणार्थं स्वयं ग्रहणं । अत एव स्वयं
ग्रहणस्य शास्त्रनिवृत्तिरेव प्रयोजनमुक्तं (।) यत एषा स्वयं श्रुतिः शास्त्रेष्टनिवृत्तये कृता ।
अन्येष्टनिवृत्तिस्त्वयत्नत एव सिद्धा । तस्मादिष्टग्रहणस्यैतदेव प्रयोजनं । अनुक्तमपीच्छया
व्याप्तं साध्यं । परार्था इत्यसंहतपरार्थत्वं साध्यमिष्टग्रहणात् ।

  1. ५ B. ॰मिति

  2. १ B. ॰स्यानिष्टस्य

  3. २. M. ॰श्रुतेनाह