495

कारेष्टस्यापि निवृत्तिस्तत एव स्वयंग्रहणेन सर्व्वस्यान्येष्टस्य1201 निवृत्तिरिति किं शास्त्रमात्रमेव
प्रयोजनमुक्तमाचार्येण (।) स्वयमिति शास्त्रानपेक्षमभ्युपगमन्दर्शयतीति ।

अत्र परिहारः ।

सर्व्वान्येष्टानिवृत्तावव्याशंकास्थानवारणं ।
वृत्तौ स्वयं श्रुतेः प्राह1202 कृता चैषा तदरथिका ।। ३० ।।

यद्यपि नामेष्टग्रहणेनैव वाद्यपेक्षया सर्व्वान्येष्टनिराकरणं तथापि शास्त्रकारेष्टे भवत्येव
साध्यताशंका । शास्त्रकारेष्टं हि भवत्यवश्यं वादिनापीति कस्यचिदस्ति मतिः । अन्यथा
न शास्त्रविरुद्धो हेतुर्गमक इति । तत आशंकास्थानवारणार्थं स्वयं ग्रहणं । अत एव स्वयं
ग्रहणस्य शास्त्रनिवृत्तिरेव प्रयोजनमुक्तं (।) यत एषा स्वयं श्रुतिः शास्त्रेष्टनिवृत्तये कृता ।
अन्येष्टनिवृत्तिस्त्वयत्नत एव सिद्धा । तस्मादिष्टग्रहणस्यैतदेव प्रयोजनं । अनुक्तमपीच्छया
व्याप्तं साध्यं । परार्था इत्यसंहतपरार्थत्वं साध्यमिष्टग्रहणात् ।

(२).
विशेष
शब्दप्रयोजनम्

ननु स विशेषो धर्मधर्मिणोर्न्न साध्यः साध्यत्वे विशेषता कथं । न साध्यविशेषयोरे
कता । उक्तञ्चाचार्येण धर्मविशेषविपर्ययसाधनाद्धि विरुद्ध इत्यादि । तदाह ।

विशेषः तद्व्यपेक्षातः कथितो धर्मधर्मिणोः ।

स एव वाञ्छया विषयीकृतः साध्यो विशेष उक्तः । परव्यपेक्षया । उक्तमेव
साध्यमिति । सुकुमारप्रज्ञः परः । तथाहि ।

परार्थाश्चक्षुरादय इति

(४). आत्मवाद-चिन्ता

1203

परेणोक्ते दूषणवाद्याह ।

आत्मा न सिद्धो दृष्टान्ते तदर्यत्वं न सिध्यति । साध्यं तन्नेति चेत्तर्हि स विशेषोस्तु तस्य वः ।। १०३ ।।

नात्मार्थत्वं साध्यमस्माकं परार्थत्वमात्रस्य साधनात् । यदि न साध्यं तस्यैव स विशेष
इति भवतु विशेषविरुद्ध इति साध्यतामेव कस्मान्न प्रतिपादयति । न परापेक्षया परिहारा
भिप्रायात् । तावन्मात्रेणा परनिराकरणे कः स्वपक्षसाधनप्रयासं विदधीत । कथमिदानी
मनुक्त1204 मपि साध्यं । उक्तत्वादुक्तमेव साध्यमन्यथातिप्रसङ्गत् । अनुक्तत्वाविशेषात् सर्व्व
मेव साध्यं । न च दृष्टान्ते सर्व्वमुपदर्शयितुं शक्यं । तथा च विपर्ययसाधनात्सर्व्व एव न
हेतुर्भवेत् । अत्राह ।

अनुक्तावपि वाञ्छाया भवेत्प्रकरणाद्‌गतिः ।। ३१ ।।
अनन्वयो हि दृष्टान्ते दोषस्तस्य यथोदितः ।
आत्मा परश्चेत्सोऽसिद्ध इति तत्रेष्टघातकृत्1205 ।। ३२ ।।
  1. १ B. ॰स्यानिष्टस्य

  2. २. M. ॰श्रुतेनाह

  3. Has the number ४ (क) in the table of contents.
  4. ३. B. मयुक्तं

  5. ४. M. ॰घातवत्