(२).
विशेष
शब्दप्रयोजनम्

ननु स विशेषो धर्मधर्मिणोर्न्न साध्यः साध्यत्वे विशेषता कथं । न साध्यविशेषयोरे
कता । उक्तञ्चाचार्येण धर्मविशेषविपर्ययसाधनाद्धि विरुद्ध इत्यादि । तदाह ।

विशेषः तद्व्यपेक्षातः कथितो धर्मधर्मिणोः ।

स एव वाञ्छया विषयीकृतः साध्यो विशेष उक्तः । परव्यपेक्षया । उक्तमेव
साध्यमिति । सुकुमारप्रज्ञः परः । तथाहि ।

परार्थाश्चक्षुरादय इति