ननूद्वेगमन्तरेण कथं मुक्तिः
तदसत् ।
तत एव च ।
धर्मतामात्रदर्शनेन हि ममतामवाप्यते चेतसो(ा)ननु नय569
प्रतिधप्रहाणेन वैराग्ययोगि
तायोगिनामस्मत्पक्षे नान्यथा(ा) कथं तर्हि दुःखभावनोक्ता भगवता । अत्र प्रतिवचनं ।
न खलु दुःखदुःखतामात्रमभिसन्धाय दुःखभावनोक्ता । रागिनां हि तावन्मात्रेण
वैराग्यसुखभङ्गे सति पक्षपातपरित्यागात् संसारदुःखभावना योग्यता यथास्यादिति तूक्ता ।।
सा च संस्कारदुःखता शून्यतैव परमार्थतः । ततः शून्यता दृष्टेरेव मुक्तिः ।
शेषास्तु भावनास्तदर्था एव । अत एव नैरात्म्यदर्शनावसाना भगवतो देशना ।
यदाह । रुपं भिक्षवो नित्यमनित्यम्वा । अनित्यं भदन्त । यदनित्यं तद् दुःखं सुखम्वा ।
दुःखं भदन्त । यदनित्यं तद् दुःखं विपरिणामधर्म्मकं कल्प्यन्तु तदेवं द्रष्टुं एतन्मम, एषोऽहमस्मि
एष ममात्मेति । नो हीदं भदन्त इत्ये571 वं हेतुफलभावेनानात्मदर्शनमेव मुक्तेरुपाय इति कथितं
भवति । यः पुनरात्मदर्शी सोऽविरक्त एव ।
आत्मदर्शनबीजे हि व्यवस्थिते आत्मीयदर्शनमनुपहतं संसारहेतुः । तत आत्मनि
आत्मीये चाविरक्तो नियमेन तृष्णावांस्ततः सर्वकर्म्मारम्भसमाश्रितः । क्लेशकर्म्मभ्याममुक्तः
संसार्प्येवासाविति कुतः तस्य मुक्तिगन्धोपि ।
अथापि स्यात्(ा) अत्मीयमेव परमार्थतो नास्ति । तेन कुतः स्नेहसम्भवः(ा)स्नेहो हि
नाम विषये भवति । न निर्विषयः । तदप्यसत् ।