नन्वागमादात्मास्तित्वं तस्य च मोक्षः । स च मोक्ष एकान्तसुखरूपो न कदाचि
त्तस्याभावः । संसारसुखं तु विच्छेदवदिति न ततः परितोषः । स च दीक्षादिविधेरित्यचोद्यमेव
पूर्वकं सकलं । तथा चोक्तं ।
अतीन्द्रियानसम्बेधान् पश्यंत्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ।। ८५७ ।।
अपौरुषेयं वा वचनमिति । तदप्ययुक्तं ।
आगमस्य तथा भावनिबन्धनमपश्यतां ।। २५८ ।।
मुक्तिमागममात्रेण ब्रुवन्न परितोषकृत् ।
सत्त्यमेतदनीन्द्रियदर्शिनां वचनमनुमानेम बाध्यते । तदेव तु तत्प्रयुक्तत्वं वचनस्य
न गम्यते । सर्वागमसाधारणत्वादस्य । न च सर्वागमप्रमाणत्वं । न तदर्थानुष्टानसम्भवः ।
अपौरुषेयत्वन्तु न युक्तमित्युक्तं ।