160
यमानानि सन्ति परम्परयोत्पद्यन्ते । ततः कस्मान्न जन्म । अथ दीक्षयोपघातान्न जन्मनि
सामर्थ्यमेवं सति ।
बुद्ध्यादयो ह्यात्मगुणा यदि दीक्षयोपहताऽनलं जन्मनि सामर्थ्यभाजः । तदा दीक्षानन्तरमेव
बुद्धिरुपहता सती धारणं स्वेच्छावृत्तिर्विषयेषु निवर्त्तनं प्रेरणमभिमते क्षोभो विसंस्ठुलत्वं । निरोधो
विनाशः । एते न स्युः । अथ मरणानन्तरमसामर्थ्यं परिणतिविशेषापेक्षत्वात्कारणानां ।
तदप्ययुक्तं ।
इदानीमेव यदि सामर्थ्यं लेशतः प्रतीयते तत उत्कर्षलाभादपरमपि स्यादिति
स्याद्(ा) यदा त्वनुगम एव तारतम्यभागी नोपलब्धः । तदा निर्निंबन्धनमेव मुक्तिपरि
कल्पनं । अथेदानीं बुद्धिसद्भवात् रागादयोस्य समानस्वभावा भवन्ति । मरणानन्तरन्तु
बुद्धेरभावादेव संसारधर्माभावः ।
तदप्यसत् । बुद्धिरेव जन्मान्तरे नास्तीति कुतः । मरणादिति चेत् । व्यर्थता दीक्षा
विधेः सर्वस्य मरणे बुद्ध्यभावे सति मुक्तेः ।
रागादयो हि मला बुद्धेः सन्तो न हेतवः सन्तीति न बुद्धेरभावः । अथोपहतारागादयो
दीक्षया न समर्थास्तदा जीवतो बुद्धेः प्रतिसन्धिहेतवो न स्युः । ततो दीक्षानन्तरमेव मुक्तिः
स्यात् । अस्त्येवेति चेत् । तन्न ।
दोषा हि स्वबीजभाविनः कुत एतत् । निर्ह्रासादतिशयाच्च प्रतिपक्षस्य नैरात्म्यस्य पुष्टौ
निर्ह्रासात् । स्वपक्षस्यायोनिशोमनस्कारस्यातिशयात् । एवंभूताश्च दोषा दीक्षितेपि अनि
वारिताः । इह जन्मनि अन्यत्र च तत् कथमसौ मुक्तः ।
ननु नैरात्मदर्शनञ्चेत् कस्यासौ मुक्तिः । आत्माहि रागादिमलोपहतः शुद्धो यदा
कुतश्चिद् भवेत् तदा मुक्तः । बन्धविगमोहि मुक्तिः । नैरात्म्यदर्शने च यो बन्धः स बन्ध एव ।
न स एव मुक्तो नित्यतयात्मदर्शनभावात् । तदप्यसत् ।
तत्रास्मत्पक्षे वाचोयुक्तिमात्रमेव न घटते । तच्च दृष्टान्तेन समाहितं । आत्म
वादे तु अर्थ एव न घटते । वाचोयुक्तिमात्रेण तु घटते । नापि न किञ्चित् प्रधानस्य वस्तुनो
विघटनात् न चात्र दृष्टान्तोस्ति । यतः ।