ननु नैरात्मदर्शनञ्चेत् कस्यासौ मुक्तिः । आत्माहि रागादिमलोपहतः शुद्धो यदा
कुतश्चिद् भवेत् तदा मुक्तः । बन्धविगमोहि मुक्तिः । नैरात्म्यदर्शने च यो बन्धः स बन्ध एव ।
न स एव मुक्तो नित्यतयात्मदर्शनभावात् । तदप्यसत् ।
तत्रास्मत्पक्षे वाचोयुक्तिमात्रमेव न घटते । तच्च दृष्टान्तेन समाहितं । आत्म
वादे तु अर्थ एव न घटते । वाचोयुक्तिमात्रेण तु घटते । नापि न किञ्चित् प्रधानस्य वस्तुनो
विघटनात् न चात्र दृष्टान्तोस्ति । यतः ।
अवस्थाभेदे ह्यात्मनः मुक्तता । अशुद्धावस्थस्य सतः शुद्धिसम्भवे । न क्रमेणा
वस्थानां कार्यतात्मनो निरपेक्षस्य युगपदेवावस्थाभावित्वप्रसङगादिति प्रदेशान्तरे निर्णयात् ।
अपि च । क्रिया विरूध्यते कियाक्रियावस्थयोः सदृशत्वात्
तादात्म्ये सति हेतुफलयोरैक्यं प्रसक्तं । एकात्मान्तर्ग्गतत्वात् तदात्मवत् । भेदे
तयोर्हेतुफलयोर्नासौ कर्त्ता न भोक्ता । करणभोगसम्बन्धाभावात् । अपरात्मवत् अनुभव
तोपि न सम्बन्धः । आत्मान्तरवदेव योगी परात्मकरणभोगसाक्षात्करणात् कर्त्ता भोक्ता
च स्यात् । अथ समवायसम्बन्धा एवं न समवायस्याभावादेव न च योगिनामपि समवायाद्
एकत्वबुद्धिहेतुः । अथ कार्यकारणभावात् कारणफलाभ्यां कर्त्ता भोक्ता चासौ भवेत् ।
तदप्ययुक्तं । सामर्थ्यञ्च न सिध्यति । न नित्यस्य सामर्थ्यमस्तीति प्रतिपादितं ।