अवस्थाभेदे ह्यात्मनः मुक्तता । अशुद्धावस्थस्य सतः शुद्धिसम्भवे । न क्रमेणा
वस्थानां कार्यतात्मनो निरपेक्षस्य युगपदेवावस्थाभावित्वप्रसङगादिति प्रदेशान्तरे निर्णयात् ।
अपि च । क्रिया विरूध्यते कियाक्रियावस्थयोः सदृशत्वात्
तादात्म्ये सति हेतुफलयोरैक्यं प्रसक्तं । एकात्मान्तर्ग्गतत्वात् तदात्मवत् । भेदे
तयोर्हेतुफलयोर्नासौ कर्त्ता न भोक्ता । करणभोगसम्बन्धाभावात् । अपरात्मवत् अनुभव
तोपि न सम्बन्धः । आत्मान्तरवदेव योगी परात्मकरणभोगसाक्षात्करणात् कर्त्ता भोक्ता
च स्यात् । अथ समवायसम्बन्धा एवं न समवायस्याभावादेव न च योगिनामपि समवायाद्
एकत्वबुद्धिहेतुः । अथ कार्यकारणभावात् कारणफलाभ्यां कर्त्ता भोक्ता चासौ भवेत् ।
तदप्ययुक्तं । सामर्थ्यञ्च न सिध्यति । न नित्यस्य सामर्थ्यमस्तीति प्रतिपादितं ।
नैरात्म्येपि तर्हि स्मरणभोगादयो न सिध्यन्ति । तन्न ।
न कस्यचित् स्मरणं स्मर्त्तुः तदभावादेव । नापि भोगो भोक्त्रभावादपि तु स्मरणमेव ।
तदेव स्मर्तृस्मरणविषय एवं भोगेपि वाच्यं सुखमेव भोग्यं भोगो भोक्ता च तच्च स्मरणं
हेतोरनुभवादुत्पद्यते । नन्वन्यतोप्यनुभवात् परकीयाभिमतात् कस्मान्नोत्पत्तिमत् । परकर्म्मणोपि
च भोगः । कार्यकारणभावनियमात् आत्मवादेपि वा कस्मान्न भवत्येष दोषः । आत्मनो भेदात्
स एव भेदः कुतः ।
नन्वसत्येकस्मिन्नात्मनि ।
आत्मापि केन प्रमाणेन स्मरणं दर्शनञ्चैकाधिष्ठानतया वेत्ति । प्रत्यक्षेणेति चेत् ।