(c) नैरात्म्ये स्मृतिसंगतिः—
नैरात्म्येपि तर्हि स्मरणभोगादयो न सिध्यन्ति । तन्न ।
अन्यस्मरणभोगादिप्रसंगाश्च न बाधकाः ।। २७० ।।
अस्मृतेः; कस्यचित् तेन ह्यनुभूतेः स्मृतोद्भवः ।
न कस्यचित् स्मरणं स्मर्त्तुः तदभावादेव । नापि भोगो भोक्त्रभावादपि तु स्मरणमेव ।
तदेव स्मर्तृस्मरणविषय एवं भोगेपि वाच्यं सुखमेव भोग्यं भोगो भोक्ता च तच्च स्मरणं
हेतोरनुभवादुत्पद्यते । नन्वन्यतोप्यनुभवात् परकीयाभिमतात् कस्मान्नोत्पत्तिमत् । परकर्म्मणोपि
च भोगः । कार्यकारणभावनियमात् आत्मवादेपि वा कस्मान्न भवत्येष दोषः । आत्मनो भेदात्
स एव भेदः कुतः ।
यथैवात्माऽविशेषेपि नान्यतः स्मृतिसम्भवः । तथा मनोविशेषेपि नान्यतः स्मरणोदयः ।। ८६२ ।।
मनसां हेतुभेदेन भेद एष भवेदपि । आत्मनान्तु कुतो भेदविभागोयमहेतुकः ।। ८६३ ।।
नन्वसत्येकस्मिन्नात्मनि ।
पश्याम्यहं स्मरामीति कुत एकत्वसङ्गतिः । आत्मन्यपि समानोयं दोषो नात्र प्रमोदयः ।। ८६४ ।।
आत्मापि केन प्रमाणेन स्मरणं दर्शनञ्चैकाधिष्ठानतया वेत्ति । प्रत्यक्षेणेति चेत् ।
पूर्वापरत्वेनाध्यक्षगतिरस्तीति साधितं । प्रत्यक्षासम्भवात्तत्र नानुमानं प्रवर्तते ।। ८६५ ।।
पूर्वरूपतयात्मानं यद्यात्मा वेत्ति तत्त्वतः । सम्वेदनस्य पूर्वस्य सत्त्वं स्यादधुनातनं ।। ८६६ ।।
ततः पूर्वतया तस्य सम्वित्तेः सम्भवः कुतः। नहि सम्वेद्यमानस्य पूर्वभावः प्रतीयते ।। ८६७ ।।
स्मरणादेव पूर्वत्वं न प्रमाणं स्मृतिर्नहि । स्मरणादेव तत्त्वञ्चेदन्यत्रापि न किं मतं ।। ८६८ ।।
तस्मादात्मप्रवादेपि नैकत्वं तत्त्वतः स्थितं । तयोश्च युगपद्भावादेकत्वमभिमन्यते ।। ८६९ ।।
162
एकत्वमात्राभिमते व्यवहारो विभागतः । एककार्यतया चैकव्यवहारोयमीक्ष्यते ।। ८७० ।।
अनाद्यविद्याभ्यासस्य सामर्थ्यमिदमाञ्जसं । नात्मास्ति वेदेनैवैका तथात्मग्रहकारिणी ।। ८७१ ।।
कथन्तर्हि आत्मानमन्तरेण संसारप्रवर्तनं । आत्मानमन्तरेण सत्कायदर्शनस्याभावात् ।
स्मरणमपि पूर्वापररूपविरहादेकता नित्यानित्यतयोर्न ग्रहण समर्थमतः संसाराभाव एव ।
उक्तमत्र । न परमार्थतः संसारो नामास्ति स्वरूपस्य स्वतो गतिरिति वचनात् ।
तथापि व्यवहारत एतदेवं भवति । तथाहि ।
स्थिरं सुखं ममाहं चेत्यादि सत्यचतुष्टये ।। २७१ ।।
अभूतान् षोडशाकारान् आरोप्य परितृष्यति ।