166
तत एव भगवतोऽनेनैव गुणेन स्तुतिः । प्रमाणभूतत्वलक्षणेन । तदाह ।
उपदेशतथाभावस्तुतिस्तदुपदेशतः ।। २८४ ।।
प्रमाणतत्त्वसिध्यर्थमनुमानेप्यवारणात् ।
प्रयोगदर्शनाद्वास्य
यत्किञ्चिदुदयात्मकं ।। २८५ ।।
निरोधधर्म्मकं सर्वं
तदित्यादावनेकधा ।निरोधधर्म्मकं सर्वं
कस्मादुपदेशस्य तथाभावप्रामाण्यलक्षणास्तुतिः । तदुपदेशतः प्रमाणतत्त्वसिद्धिर्यथा
स्यादिति । तत्र प्रत्यक्षं भगवतैवोपदिष्टं । नीलज्ञानसमङगी पुद्गलो नीलं जानाति ।
नो तु नीलमेवेति१ । अनुमानमपि न वारितं । अतोऽनुमानमेव निवारितन्तु शाब्दादिकं ।
शन्याः सर्वपरप्रवादा अहमेवैकस्तत्ववादीति । अथवा प्रयोगस्य परार्थानुमानलक्षणस्य
दर्शनमस्ति । यदाह । यत्किञ्चिदुदयात्मकं निरोधधर्म्मकं तत्सर्वमिति ।